संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
व्रतग्रहणप्रकारस्तु

धर्मसिंधु - व्रतग्रहणप्रकारस्तु

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

भगवतोजातीपुष्पादिभिर्महापूजांकृत्वा सुप्तेत्वयिजगन्नाथेजगत्सुप्तंभवेदिदम् ।

विबुद्धेत्वयिबुध्येतप्रसन्नोमेभवाच्युत १ इतिप्रार्थ्य अग्रेकृताञ्जलिः चतुरोवार्षिकान्मासान्देवस्योत्थापनावधि ।

श्रावणेवर्जये शाकंदधिभाद्रपदेतथा १ दुग्धमाश्वयुजेमासिकार्तिकेद्विदलंतथा ।

इमंकरिष्ये नियमंनिर्विघ्नंकुरुमेऽच्युत २ इदंव्रतंमयादेवगृहीतंपुरतस्तव ॥

निर्विघ्नंसिद्धिमायातुप्रसादात्तेरमापते ३ गृहीतेस्मिन्व्रतेदेवपंचत्वंयदिमेभवेत् ।

तदाभवतु संपूर्णप्रसादात्तेजनार्दन ४ इतिप्रार्थ्यदेवायशङ्खेनार्घ्यंनिवेद्‌येत्

एतानिव्रतानिनित्यानि हविष्यभक्षणादिव्रतान्तरचिकीर्शायांश्रावणेवर्जयेशाकमिति

श्लोकस्थानेहविष्यान्नंभक्षयिष्येदेवाहंप्रीतयेतवेत्यूहः कार्यः शाकव्रतेव्रतान्तरेचसमुञ्चयेनकर्तव्ये

तंश्लोकंपथित्वाव्रतान्तरमंत्रंवदेत् एवंगुदवर्जनादिधारणापारनादिव्रतेषु वर्जयिष्येगुडंदेवमधुरस्वरसिद्धये ।

वर्जयिष्येतैलमहंसुन्दरात्वङ्गसिद्ध्ये १ योगाभ्यासीभविष्यामिप्राप्तंब्रह्मपदंपरम् ।

मौनव्रतीभविष्यामि स्वाज्ञापालनसिद्धये २ एकान्तरोपवासीचप्राप्तंब्रह्मपुरंपरम् ॥

इत्यादिरीत्यो हः कार्यः निषिद्धमात्रवर्जनेच्छायां वृन्ताकादिनिषिद्धानिहरेसर्वाणिवर्जये

इतिसंकल्पः ।

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP