संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथज्येष्ठकृत्यम्

धर्मसिंधु - अथज्येष्ठकृत्यम्

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

मिथुनसंक्रान्तौपराःषोडशनाड्यः पुण्यकालः रात्रौतुप्रागुक्तम् ज्येष्ठमासेपिष्टेनब्रह्ममूर्तिंकृत्वावस्त्राद्यैः

पूजेयत्सूर्यलोकप्राप्तिः अत्रमासे जलधेनुदानमुक्तम् ज्येष्ठशुक्लप्रतिपदिकरवीरव्रतमुक्तम् ज्येष्ठशुक्लतृतीयायां

रम्भाव्रतंसापूर्वविद्धाग्राह्या यत्रपूर्वविद्धाग्राह्यतयोच्यते तत्रास्तात्पूर्वद्विमुहूर्ताधिकायाग्राह्यत्वंज्ञेयंनन्यूनायाः

तत्रापियदिपरेद्युःसूर्यास्तमयपर्यन्तंपुर्वविद्धायास्तिथेः

सत्त्वंतदासत्यपिपूर्वविद्धागाह्यत्ववचनेपूर्वविद्धांत्यक्त्वाआखण्डत्वाच्छुद्धत्वात्परैवग्राह्या यदातुग्राह्यायाःपुर्वविद्धायाः

पूर्वेद्युर्मुहूर्तद्वयान्न्यूनत्वंपरेद्युश्चास्तमयात्प्राक्‌समाप्तत्वंतदापिपरैवग्राह्या एवंसर्वत्रोह्यम्

रम्भाव्रतेपञ्चाग्नितपनपरास्त्रीपुमान्वाभवानींस्वर्णप्रतिमायांसंपूज्य यथोक्तविधिहोमादिकृत्वासपत्नीकायगृहंसोपस्करंदद्यात्

दांपत्यानिभोजयेत् विशेषविधिर्व्रतग्रन्थेज्ञेयः चतुर्थ्यामुमावतारस्तत्रोमापूजनव्रतम् अष्टम्यांशुक्लादेवीपूज्या नवम्यामुपोष्यदेवीपूजयेत्

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP