संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथवैशाखमासकृत्यम्

धर्मसिंधु - अथवैशाखमासकृत्यम्

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91

अत्रवृषसंक्रमेपूर्वाःषोडशनाडिकाःपुण्यकालः रात्रौच प्रागुक्तम् अत्रप्रातःस्नानंतिलैः

पितृतर्पणंधर्मघटदानंचकार्यम् अत्रब्राह्मणानां गन्धमाल्यपानककदलीफलादिभिर्वसन्तपूजाकार्या

वैशाखेज्येष्ठेवायत्रमासेऊष्मबाहुल्यंतत्रप्रातर्नित्यपूजांकृत्वागन्धोदकपूर्णपात्रेविष्णुंसंस्थाप्यपञ्चोपचारैः

संपूज्यतत्रैवजलेसूर्यास्तपर्यन्तमधिवास्यरात्रौस्वस्थानेस्थापयित्वापञ्चोपचारैः

पूजयेत्तेनतीर्थोदकेनगृहदारादियुतमात्मानंपावयेत् एतच्चद्वादश्यांदिवानकार्यम्

रात्रौकिचित्कालंजलस्थंपूजयित्वास्वस्थानेस्थापयेत् अत्रमासेकृष्णगौराख्यतुलसीभिर्विष्णुं

त्रिकालमर्चयेन्मुक्तिः फलम् प्रातःस्नात्वाबहुतोयेनाश्वत्थमूलं सिञ्चेतप्रदक्षिणाश्चकुर्यात

अनेककुलतारणंफलम् एवंगवांकण्डयनेऽपि अत्रमासेएकभक्तंनक्तमयाचितंवासर्वेप्सितफलप्रदम्

अत्रमासेप्रपादानंदेवेगलन्तिकाबन्धनंव्यजनच्छत्रोपानच्चन्दनादिदानंमहाफलम्

यदावैशाखोमलमासोभवतितदाकाम्यानांतत्रसामप्तिनिषेधान्मासद्वयंवैशाखस्नानहविष्याशनादिनियमाअनुष्ठे

याःचान्द्रायनादिकंतुमलेऽपिसमापनीयम् वैशाखशुक्लतृतीयायांगङ्गास्नानंयवाहोमोवदांनयवाशनंचसर्वपापापहम्

यःकरोतितृतीयायांकृष्णंचग्दभूषितम् । वैशाखस्यसितेपक्षेसयात्यच्युतमन्दिरम् १

इयमक्षय्यतृतीयासंज्ञिकाअस्यांयत्किंचिज्जपहोमपितृतर्पणदानादिक्रियतेत्सर्वमक्षयम् डयंरोहिणीबुधयोगेमहापुण्य

अस्याःजपहोमादिकृत्येपिवक्ष्यमाणयुगादिवन्निर्णयः इयंकृतयुगस्यादिः अत्रयुगादिश्राद्धमपिण्डकमनुष्ठेयम्

श्राद्धासंभवेतिलतर्पणमप्यत्रकार्यम् अत्रशुक्लयुगाद्कृत्यंपूर्वाह्णेकार्यम् तत्रासंभवेऽपराह्णेऽपि

कृष्णयुगादिकार्यत्वपराह्णेइत्यादिमन्वादिप्रकरणोक्तोनिर्णयः द्वेधाविभक्तदिनपूर्वार्धैकदेशव्यापिनी

दिनद्वयेचेत्रिमुहूर्ताधिकव्याप्तिसत्वेपरा त्रिमुहूर्तन्युनत्वेपूर्वा मन्वादौचयुगादौचग्रहणेचन्द्रसूर्ययोः ।

व्यतीपातेवैधृतौचतत्कालव्यापिनीक्रिया १ इति वचनेनसाकल्यव्याप्तिवाक्यानामपवादातश्राद्धादिकंतृतीयामध्येएवकर्तव्यम्

पुरुषार्थचिन्तामणौतुसप्तमाष्टमनवममुहूर्तानांगान्धर्वकुतुपरौहिणसंज्ञकानांयुगादिश्राद्धकालत्वात

शुक्लेमध्यमदिनमानेत्रयोदश्यादिपञ्चदश्यन्तघटीत्रयव्यापिन्यांश्राद्धं कृष्णेतुषोडशीमारभ्यघटीत्रये

उभयत्रतादृशघटीत्रयव्याप्तौसत्यामसत्यांवाशुक्लापरा यदातुपरेद्युस्त्रयोदशघटीतः

पूर्वसमातापूर्वेद्युस्त्रयोदश्यादिघटीत्रयेतदेकदेशेवाविद्यतेतदाकर्मकालशास्त्रबाहुल्यात्पूर्वैवग्राह्येत्युक्तम्‌

इदमेवयुक्तमितिभाति अत्रदेवतोद्देशेनपित्रुद्देशेनचोदकुम्भदानमुक्तम् तत्रश्रीपरमेश्वरप्रीतिद्वाराउदकुम्भदानकल्पोक्तफलावाप्त्यर्थं

ब्राह्मणायोदकुम्भदानं करिष्ये इतिस्कल्प्यसूत्रेवेष्टितंगन्धपलयवाशुपेतंकलशपञ्चोपचारैर्ब्राह्मणंचसंपुज्य

एषधर्मघटोदत्तोब्रह्मविष्णुशिवात्मकः ।

अस्यप्रदानात्सकलाममसन्तुमनोरताः १

इतिमन्त्रेणदद्यात्

पित्रुदेशेतुपितृणामक्षय्यतृप्त्यर्थंउदकुम्भदानंकरिष्येइतिसंकल्प्यपूर्ववत्कुम्भब्राह्मणौसंपूज्योदकुम्भेगन्धतिलफलादिनइक्षिप्य

एशधर्मघटोदत्तोब्रह्मविष्णुशिवात्मकः । अस्यप्रदानात्तृप्यंतुपितरोपिपितामहाः १ गन्धोदकतिलैर्मिश्रंसान्नंकुम्भंफलान्वितम् ।

पितृभ्यःसंप्रदास्यामिअक्षय्यमुपतिष्ठतु २ इतिमन्त्रेणदद्यात् युगादौसमुद्रस्नानंमहाफलम्

वैशाखस्याधिमासत्वेयुगादिश्राद्धंमासद्वयेपिकार्यम्

युगादिषूपवासोमहाफलः युगादिमन्वादौरात्रिभोजने अभिस्ववृष्टिमितिमन्त्रजपः युगादिश्राद्धलोपे

युगादिश्राद्धलोपजन्यप्रत्यवायपरिहारार्थमृग्विधानोक्तंप्रायश्चित्तंकरिष्ये इतिसंकल्प्य

नयस्यद्यावेतिऋचंशतवारंजपेत् अयंनिर्णयः सर्वयुगादौज्ञेयः

इतिअक्षय्यतृतीयानिर्णयः ।

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP