संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
अथवेधविचारः

धर्मसिंधु - अथवेधविचारः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

सूर्यग्रहेग्रहणप्रहरादर्वाक्‌यामचतुष्टयंवेधः चन्द्रग्रहेतुप्रहरत्रयम् तथाचदिनप्रथमप्रहरेसूर्यग्रहेपूर्वरात्रिप्रहरचतुष्टयेनभोक्तव्यम्

द्वितीये यामेग्रहणेरात्रिद्वितीययामादौनभोक्तव्यम् एवंरात्रिप्रथमप्रहरेचन्द्रग्रहेदिनद्वितीययामादौनभुञ्जीत

रात्रिद्वितीययामादौग्रहणे दिनतृतीययामादौनभुञ्जीत बालवृद्धातुरविषयेतुसार्धप्रहरात्मकोमुहुर्तत्रयात्मकोवावेधः

शक्तस्यवेधकाले भोजनेत्रिदिनमुपोशणंप्रायश्चित्तम् ग्रहणकालेभोजनेप्राजापत्यंप्रायश्चित्तम्

चन्द्रस्यग्रस्तोदयेतुयामचतुष्टयवेधात्तत्पूर्वदिवानभुञ्जीत केचित्तुचन्द्रपूर्णमण्डलग्रासेयामचतुष्टयंवेधएकदेशग्रासेयमत्रयमित्याहुः

ग्रस्तास्तेतु ग्रस्तावेवास्तमानंतुरवीन्दू प्राप्नुतोयदि । परेद्युरुदयेस्नात्वाशुद्धोभ्यवहरेन्नरः ॥१॥

अत्रस्नात्वाशुद्धइत्युक्त्वा शुद्धमण्डलदर्शनकालिकस्नानात्पूर्वमशुद्धिप्रतिपादनाज्जलाहरणपाकादिकंशुद्ध

बिम्बोदयकालिकस्नानात्पूर्वकार्यमितिभाति सूर्यग्रस्तास्तादौ

पुत्रवद्‌गृहिणउपवासनिषेधात्तेनषण्मुहूर्तात्मंकवेधंत्यक्त्वाग्रहणात्पूर्वनभोक्तव्यमितिकेचित्

पुत्रवद्‌गृहिणामपितत्रोपवासएवकार्यइतिमाधवमतमेवतुशिष्टाचारानुसृंतयुक्तम्

सूर्यग्रस्तास्तेचंद्रग्रस्तोदयेचाहिताग्निनान्वाधानंविधायजलेनव्रतंकार्यं नतुभोजनम् चन्द्रग्रस्तास्तेउत्तरदिनेसंध्याहोमादौनदोषः

तत्राल्पकालेनशास्त्रतोमुक्तिनिश्चयेमुक्त्यनन्तरंस्नात्वाहोमादिकंकर्तव्यम्

चिरकालेनमुक्तौहोमकालातिक्रमप्रसङ्गाद्‌ग्रस्तोदयइवग्रहणमध्ये

एवसंध्याहोमंचकृत्वाशास्त्रतोमुक्तिकालेस्नात्वाब्रह्मयज्ञादिनित्यकर्म कर्तव्यमितिभाति

दर्शेग्रहणनिमित्तकश्राद्धेनैवदर्शश्राद्धसंक्रान्तिश्राद्धानां प्रसङ्गसिद्धिर्भवति

ग्रहणदिनेपित्रादेर्वार्षिकश्राद्धप्राप्तौसतिसंभवेन्नेनकार्यम् ब्राह्मणाद्यलाभेनासंभवेतुआमेनहेम्नावाकार्यम् ।

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP