संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
आधनकालः

धर्मसिंधु - आधनकालः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

आधानं तु पर्वणि नक्षत्रे चोक्तम्‍ तत्र स्कल्पप्रभुतिपूर्णाहूतिपर्यंत प्रयोगपर्याप्तं पर्व ग्राह्यम्‍ तदसंभवे

गार्हपत्याधानाद्याहवनीयाधानपर्यंत विद्यमानं ग्राह्यं एवं नक्षत्रस्यापि निर्णयः दिनद्वये कर्मकालव्याप्तपर्वसत्वे

यत्रोक्तनक्षत्रयोगस्तद्‌ग्राह्यं वसंतऋतुपर्योक्तनक्षत्रेत्येतत्‍त्रितयसन्निपाते प्रशस्ततमं ऋत्वभावे

मध्यम केवले पर्वणि नक्षत्रे बाधमं नक्षत्राणि तु कृत्तिकारोहिणीविशाखापूर्वाफाल्गुनीउत्तराफाल्गुनीमृगोत्तराभाद्रपदेती

सप्ताश्वलायनसूत्रोक्तानि कृत्तिका रोहिणीत्र्युत्तरामृगपुनर्वसुपुष्यपूर्वाफल्गुनीपूर्वाषाढाहस्तचित्राविशाखानुराधाश्रवणज्येष्ठारेवतीति

सूत्रांतरोक्तानि सोमपूर्वाधाने तु नर्तु पृच्छेन्न नक्षत्रमिति वचनात्सोमकालानुरोधेनैवाधानं न तत्र पृथक्कालविचारः ॥

इत्याधानकालनिर्णय उद्देशः ॥

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP