संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
अथात्रबालबोधनार्थप्रकारान्तरम्

धर्मसिंधु - अथात्रबालबोधनार्थप्रकारान्तरम्

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

सूर्योदयोत्तरंविद्यमानाःपर्वनाडिकाःप्रतिपन्नाडिकाश्वैकीकृताः

सत्योयदिदिनमानतोन्यूनास्तदापूर्वाह्णसंधिःयदिदिनमानसमास्तदामध्याह्नसंधिः यदिदिनमानादधिकास्तदापराह्णसंधिरिति

इत्थं सूर्योदयोत्तरमनुवर्तमानपर्वप्रतिपदोः क्षयवृद्धिभ्यामेवसंध्यवलोकनमिदानीसर्वत्रशिष्टाचारेषुप्रसिद्धम्

कौस्तुभादौचतुर्दशीदिनस्थाउदयात्पूर्वं पर्वणोगतंघटिकाउदयादेष्यघटिकाश्चैकीकृत्यैवंप्रतिपदःपूर्वदिनस्थाउत्तरदिनस्थाश्चघटिका

एकीकृत्यपर्वापेक्षयाप्रतिपदोवृद्धिक्षयौज्ञेयौ

तद्यथा चतुर्दशी २२ पर्व १७ चतुर्दशीदिनस्थाःपर्वनाडिकाः ३८ उत्तरदिनस्थाः १७ एकीकृत्यजाताः ५५ पर्वदिनस्थाःप्रतिपन्नाड्यः

४३ उत्तरदिनस्थाः ११ एकीकृत्यजाताः ५४ अत्रैकाघटीप्रतिपत्क्षयस्तदर्धमर्धघटीपर्वणिवियोजिताजातः संधिः सार्धषोडशनाड्यः

अयमपराह्णसंधिः प्रथममतेत्वत्रपूर्वाह्णसंधिःस्थितः तथा चतुर्दशी २४ पर्व १७ पुर्व गतनाड्यः ३६ एष्ययोगेजातः ५३ प्रतिपत् ११

गतैष्ययोगेजाताः ५४ अत्रपूर्वोक्तरीत्याक्षयोदाहरणे एवैकाघटीवृद्धिस्तदर्धसंयोजनेसार्धसप्तदशनाडीमितोपराह्नसंधिः

एवंचपूर्वमतैतन्मतयोरत्यन्तविरोधः वृद्धिक्षयादिसर्ववैपरीत्यात् अत्रमतेघटीद्वयाधिकावृद्धिःक्षयोवानसंभवतीति

परेह्णिघटिकान्यूनास्तथैवाभ्याधिकाश्चयाइतिबहुवचनसंगतमिति दूषणंपुरुषार्थचिंतामणौद्रष्टव्यम् ।

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP