संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
अथप्रतिपदानिर्णयः

धर्मसिंधु - अथप्रतिपदानिर्णयः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

तत्रप्रतिपन्निर्णयः शुक्लप्रतिपत् शुक्लप्रतिपत् पूजाव्रतादावपराह्णव्याप्तिसत्वेपूर्वविद्धाग्राह्या

सायाह्नव्यापित्वेपिपूर्वैवेतिमाधवाचार्याः

अन्यथा द्वितीयायुताग्राह्या कृष्णप्रतिपत्सर्वापिद्वितीयायुतैवग्राह्या उपवासेतुपक्षद्वयेपिप्रतिपत्पूर्वविद्धैवग्राह्या

अपराह्णव्यापिन्यांप्रतिपदिकरणीयस्योपवासादेः संकल्पंप्रातरेवकुर्यात्

संकल्पकालेप्रतिपदादितिथ्यभावेपिसंकल्पेप्रतिपदादिरेववक्तव्यानत्वमावास्यादिः

एवमुपोष्याद्वादशीशुद्धेत्यादिस्थलेएकादशीव्रतप्रयुक्तसंकल्पपूजादावेकादश्यवेकीर्तनीयानतुद्वादशी

संध्याग्निहोत्रादिकर्मान्तरेषुतत्तत्कालव्यापिनीद्वादश्यादिरेवेतिममप्रतिभाति संकल्पश्चसूर्योदयात्प्रागुषः

कालेसूर्योदयोत्तरंप्रातःकालाख्यत्रिमुहूर्तस्याद्यमुहूर्तद्वयेप्रशस्तः तृतीयोमुहूर्तस्तुनिषिद्धः ।

इतिप्रतिपन्निर्णयः सप्तमः ७

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP