संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
विहितव्रतादिविषयेतुनिर्णयउच्यते ।

धर्मसिंधु - विहितव्रतादिविषयेतुनिर्णयउच्यते ।

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

तत्रकर्मणोयस्ययः कालस्तत्कालव्यापिनीतिथिर्ग्राह्या यथाविनायकादिव्रतेमध्यान्हादौपूजनादिविधानान्मध्यान्हदिव्यापिनी दिनद्वयेकर्मकाले व्याप्तावव्याप्तौतदेकदेशव्याप्तौवा युग्मवाक्यादिनापूर्वविद्धायाःपरविद्धायावा तिथेर्ग्राह्यत्वम् युग्मवाक्यंतु युग्माग्नियुगभूतानांषण्मुन्योर्वसुरन्ध्रयोः । रुद्रेणद्वादशीयुक्ताचतुर्दश्याचपूर्णिमा । प्रतिपद्यप्यमावास्यातिथ्योर्युग्मंमहाफलमिति १ युग्मंद्वितीया अग्निस्तृतीया । द्वितीया तृतीया विद्धाग्राह्या तृतीया द्वितीयाविद्धाग्राह्येत्येवंद्वितीयातृतीययोर्युग्मम् चतुर्थी पञ्चम्योर्युग्मम् षष्ठीसप्तम्योर्युगम् अष्टमीनवम्योर्युगम् एकादशीद्वादश्योर्युग्मम् चतुर्दशीपौर्णमास्योर्युगम् अमावास्याप्रतिपदोर्युग्ममित्यर्थः क्वचिच्चतुर्थी गणनाथस्यमा तृविद्धाप्रशस्यत इत्यादिविशेषवाक्यैर्ग्राह्यत्वनिर्णयःवचनवशेनग्राह्यायास्तिथेः कर्मकालेसत्वाभावे साकल्यवचनैः सत्त्वभावनीयम् तानिच यांतिथिसमनुप्राप्यउदयंयातिभास्करः ।
सातिथिः सकलाज्ञेयास्नानदानजपादिषुइत्यादीनि इतिसामान्यनिर्णयश्चतुर्थउद्देशः

N/A

References : N/A
Last Updated : April 20, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP