संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
अथमलमासेवर्ज्यानि

धर्मसिंधु - अथमलमासेवर्ज्यानि

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथमलमासेवर्ज्यानिउपाकर्मोत्सर्जनेअष्टकाश्राद्धानिअधिकेवर्ज्यानिचूडामौजीबन्धविवाहास्तीर्थादियात्रावास्तुकर्मगृहप्रवेशदेवप्रतिष्ठाकूपारामाद्युत्सर्गो

नूतनवस्त्रालंकारधारणं तुलापुरुषादिमहादानानि यज्ञकर्माधानमपूर्वतीर्थदेवदर्शनंसंन्यासःकाम्यवृषोत्सर्गोराजाभिषेकोव्रतानिसगतिकमन्नप्राशनं

समावर्तनमतिक्रान्तनामकर्मादिसंस्काराः पवित्रारोपणदमनार्पणेश्रवणाकर्म सर्पबल्यदिपाकसंस्थाः शयनपरिवर्तनाद्युत्सवःशपथदिव्यादिकर्म

एतानि मलमासे वर्ज्यानि नैमित्तिकानिरजोदर्शनशान्तिविच्छिन्नाधानपुनः प्रतिष्ठादीनियदिनिमित्तानन्तरमेवक्रियन्तेतदानमलमासादिदोषः

कालातिपत्तौतुशुद्धेएव कर्तव्यानि आग्रयणंदुर्भिक्षसंकटेमलमासेकार्यमन्यथाशुद्धेएव युगादिमन्वादिश्राद्धानामासद्वयेप्यावृत्तिःक्षयात्पूर्वोऽधिमासः

संसर्पसंज्ञकःपूर्वमुक्तः तत्रचूडाकर्मव्रतबंधविवाहाग्न्याधानयज्ञोत्सवमहालयराजाभिषेकाएववर्ज्याः नान्यानिकर्माणि

अपूर्वव्रतारंभोव्रतसमाप्तिश्चमिलमासेनभवति सपूर्वमाघस्नानादेःक्षयमासेप्यारम्भसमाप्तीति

मकरसंक्रान्तियुक्तक्षयमासगतपरुणिमास्यांमाघस्नानमारभ्यकुम्भसंक्रान्तियुतमाघपौर्नमास्यांसमापनीयम् एवंकार्तिकेप्यूहम् यत्रवैशाखादिरधिकस्तत्रवैशाखस्नानादिमासव्रतानांचैत्रपूर्णिमायाप्रारब्धानांशुद्धवैशाखपौर्णमास्यांसमाप्तिरिति तेषांमासद्वयमनुष्ठानम् ।

N/A

References : N/A
Last Updated : April 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP