संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
अथदानम्

धर्मसिंधु - अथदानम्

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


मेषेमेषदानम् वृषेगोदानम् मिथुनेवस्त्रन्नादिदेयम्कर्केघृतधेनुः छत्रंसुवर्णचसिंहे कन्यायांगृहंवस्त्रंच तुलायातिलागोरसाश्चदेयाः वृश्चिकेदीपः

धनुषवस्त्रंयानंच मकरेकाष्ठानिअग्निश्च कुम्भेगौर्जलतृणंच मीनेभूमिर्मालाश्चदेयाः एवमन्यान्यपिदानानिद्रष्टव्यानि

अयनसंक्रान्तौमेषतुलासंक्रान्तौचपूर्वत्रिरात्रमेकरात्रंवोपोष्यस्नानदानादिकार्यम् चरमो पोषणंसंक्रान्तिमत्यहोरात्रे

पुण्यकालवत्यहोरात्रेवा यथापतेत्तथाकार्यम् अयमुपवासः पुत्रवद्‌गृहस्थभिन्नेन पापक्षयकामेनकार्यः

काम्यो नतु नित्यः सर्व संक्रान्तिषुपिण्डरहितंश्राद्धंकार्यम् अयनद्वयेतुनित्यम् यथातत्तत्संक्रान्तिषुदानादिकंकर्तव्यं

तथैवताभ्यःपूर्वमयनांशप्रवृत्तौतत्तत्संक्रान्त्युचितस्नानदानादिकंकर्तव्यम् ।

N/A

References : N/A
Last Updated : April 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP