मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
॥ अथ ब्रह्मेशशेषादिकृतम् ...

ब्रह्मेशशेषादिकृतं श्रीराधास्तोत्रं - ॥ अथ ब्रह्मेशशेषादिकृतम् ...


देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


॥ अथ ब्रह्मेशशेषादिकृतम् श्रीराधास्तोत्रम् ॥
षष्टिवर्षसहस्राणि दिव्यानि परमेश्वरि । पुष्करे च तपस्तप्तं पुण्यक्षेत्रे च भारते ॥१॥
त्वत्पादपद्ममधुरमधुलुब्धेन चेतसा । मधुव्रतेन लोभेन प्रेरितेन मया सति ॥२॥
तथापि न मया लब्धं त्वद्पादपदमीप्सितम् । न दृष्टमपि स्वप्नेऽपि जाता वागशरीरिणी ॥३॥
वाराहे भारते वर्षे पुण्ये वृन्दावने वने । सिद्धाश्रमे गणेशस्य पादपद्मं च द्रक्ष्यसि ॥४॥
राधामाधवयोर्दास्यं कुतो विषयिणस्तव । निवर्तस्व महाभाग परमेतत् सुदुर्लभम् ॥५॥
इति श्रुत्वा निवृत्तोऽहं कुतो विषयिणस्तव । निवर्तस्व महाभाग परमेतत् सुदुर्लभम् ॥६॥
श्रीमहादेव उवाच । पद्मैः पद्मार्चितं पादपद्मं यस्य सुदुर्लभम् । ध्यायन्ते ध्याननिष्टाश्च शश्वद् ब्रह्मादयः सुराः ॥७॥
मुनयो मनवश्चैव सिद्धाः सन्तश्च योगिनः । द्रष्टुं नैव क्षमाः स्वप्ने भवती तस्य वक्षसि ॥८॥
अनत उवाच । वेदाश्च वेदमाता च पुराणानि च सुव्रते । अहं सरस्वती सन्तः स्तोतुं नालं च सन्ततम् ॥९॥
अस्माकं स्तवने यस्य भ्रभङ्गश्च सुदुर्लभभः । तवैव भर्त्सने भीतश्चावयोरन्तरं हरिः ॥१०॥
॥ इति श्रीब्रह्मवैवर्ते ब्रह्मेशशेषादिकृतं श्रीराधास्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP