TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे|
श्रीदेव्युवाच देवदेव महदे...

योगिनीहृदयम् - श्रीदेव्युवाच देवदेव महदे...


देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्‌कल्याण्कारी तसेच दुष्टांचा संहार करणारीही आहे.
The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times.

योगिनीहृदयम्

श्रीदेव्युवाच देवदेव महदेव परिपूर्णप्रथामय । वामकेश्वरतन्त्रेऽस्मिन्नज्ञातर्थास्त्वनेकशः ॥१॥
तांस्तानर्थानशेषेण वक्तुमर्हसि भैरव । श्रीभैरव उवाच शृणु देवि महागुह्यं योगिनिहृदयं परम् ॥२॥
त्वत्प्रीत्या कथयाम्यद्य गोपनीयं विशेषतः । कर्णात्कर्णोर्पदेशेन सम्प्राप्तमवनीतलम् ॥३॥
न देयं परशिष्येभ्यो नास्तिकेभ्यो न चेश्वरि । न शुश्रूषालसानाञ्च नैवानर्थप्रदायिनाम् ॥४॥
परीक्षिताय दातव्यं वत्सरार्धोषिताय च । एतज्ज्ञात्वा वररोहे सद्यः खेचरतां व्रजेत् ॥५॥
चक्रसङ्केतको मन्त्रपूजासङ्केतकौ तथा । त्रिविधस्त्रिपुरादेव्याः सङ्केतः परमेश्वरि ॥६॥
यावदेतन्न जानाति सङ्केतत्रयमुत्तमम् । न तावत्रिपुराचक्रे परमाज्ञाधरो भवेत् ॥७॥
तच्छक्तिपञ्चकं सृष्ट्या लयेनाग्निचतुष्टयम् । पञ्चशक्तिचतुर्वह्निसंयोगाच्चक्रसम्भवः ॥८॥
एतच्चक्रावतारन्तु कथयामि तवानघे । यदा सा परमा शक्तिः स्वेच्छया विश्वरूपिणी ॥९॥
स्फुरत्तामात्मनः पश्येत्तदा चक्रस्य सम्भवः । शून्याकाराद्विसर्गान्ताद् बिन्दोः प्रस्पन्दसंविदः ॥१०॥
प्रकाशपरमार्थत्वात् स्फुरत्तालहरीयुतात् । प्रसृतं विश्वलहरीस्थानं मातृत्रयात्मकम् ॥११॥
बैन्दवं चक्रमेतस्य त्रिरूपत्वं पुनर्भवेत् । धर्माधर्मौ तथात्मानो मातृमेयौ तथा प्रमा ॥१२॥
नवयोन्यात्मकं चक्रं चिदानन्दघनं महत् । चक्रं नवात्मकमिदं नवधा भिन्नमन्त्रकम् ॥१३॥
बैन्दवासनसंरूढसंवर्तानलचित्कलम् । अम्बिकारूपमेवेदमष्टारस्थं स्वरावृतम् ॥१४॥
नवत्रिकोणस्फुरितप्रभारूपदशारकम् । शक्त्यादिनवपर्यन्तदशार्णस्फूर्तिकारकम् ॥१५॥
भूततन्मात्रदशकप्रकाशालम्बनत्वतः । द्विदशारस्फुरद्रूपं क्रोधीशादिदशारकम् ॥१६॥
चतुश्चक्रप्रभारूपसंयुक्तपरिणामतः । चतुर्दशाररूपेण संवित्तिकरणात्मना ॥१७॥
खेचर्यादिजयान्तार्णपरमार्थप्रथामयम् । एवं शक्त्यनलाकारस्फुरद्रौद्रीप्रभामयम् ॥१८॥
ज्येष्टारूपचतुष्कोणं वामारूपभ्रमित्रयम् । चिदंशान्तस्त्रिकोणं च शान्त्यतिताष्टकोणकं ॥१९॥
शान्त्यंशद्विदशारञ्च तथैव भुवनारकम् । विद्याकलाप्रमारूपदलाष्टकसमावृतम् ॥२०॥
प्रतिष्टावपुषा सृष्टस्फुरद्द्व्यष्टदलाम्बुजम् । निवृत्त्याकारविलसच्चतुस्ष्कोणविराजितम् ॥२१॥
त्रैलोक्यमोहनाद्ये तु नवचक्रे सुरेश्वरि । नादो बिन्दुः कला ज्येष्टा रौद्रीई वामा तथा पुनः ॥२२॥
विषघ्नीई दूतरी चैव सर्वानन्दा क्रमात् स्थिताः । निरंशौ नादबिन्दू च कला चेच्छास्वरूपकम् ॥२३॥
ज्येष्टा ज्ञानं क्रिया शेषमित्येवं त्रितयात्मकम् । चक्रं कामकलारूपं प्रसारपर, मार्थतः ॥२४॥
अकुले विषुसंज्ञे च शक्ते वह्नौ तथा पुनः । नाभावनाहते शुद्धे लम्बिकाग्रे भ्रुवोऽन्तरे ॥२५॥
बिन्दौ तदर्धे रोधिन्यां नादे नादान्त एव च । शक्तौ पुनर्व्यापिकायां समनोन्मनि गोचरे ॥२६॥
महाबिन्दौ पुनश्चैव त्रिधा चक्रं तु भावयेत् । आज्ञान्तं सकलं प्रोक्तं ततः सकलनिष्कलम् ॥२७॥
उन्मन्यन्तं परे स्थाने निष्कलञ्च त्रिधा स्थितम् । दीपाकारोऽर्धमात्रश्च ललाटे वृत्त इष्यते ॥२८॥
अर्धचन्द्रस्तथाकारः पादमात्रस्तदूर्ध्वके । ज्योत्स्नाकारा तदष्टांशा रोधिनी त्र्यस्रविग्रहा ॥२९॥
बिन्दुद्वयान्तरे दण्डः शेवरूपो मणिप्रभः । कलांशो द्विगुणांशश्च नादान्तो विद्युदुज्ज्वलः ॥३०॥
हलाकारस्तु सव्यस्थबिन्दुयुक्तो विराजते । शक्तिर्वामस्थबिन्दुद्यत्स्थिराकारा तथा पुनः ॥३१॥
व्यापिका बिन्दुविलसत्त्रिकोणाकारतां गता । बिन्दुद्वयान्तरालस्था ऋजुरेखामयी पुनः ॥३२॥
समना बिन्दुविलसदृजुरेखा तथोन्मना । शक्त्यादीनां वपुः स्फूर्जद्द्वादशादित्यसन्निभम् ॥३३॥
चतुःषष्टिस्तदूर्ध्वं तु द्विगुणं दिगुणं ततः । शक्त्यादीनां तु मात्रांशो मनोन्मन्यास्तथोन्मनी ॥३४॥
दैशकालानवच्छिन्नं तदूर्ध्वे परमं महत् । निसर्गसुन्दरं तत्तु परानन्दविघूर्णितम् ॥३५॥
आत्मनह स्फुरणं पश्येद्यदा सा परमा कला । अम्बिकारूपमापन्न परा वाक् ससुदीरिता ॥३६॥
बीजभावस्थितं विश्वं स्फुटीकर्तुं यदोन्मुखी॥वामा विश्वस्य वमनादङ्कुशाकारतां गता ॥३७॥
इच्छाशक्तिस्तदा सेयं पश्यन्ती वपुषा स्थिता । ज्ञानशक्तिस्तथा ज्येष्टा मध्यमा वागुदीरिता ॥३८॥
ऋजुरेखामयी विश्वस्थितौइ प्रथितविग्रहा । तत्संहृतिदशायां तु बैन्दवं रूपमास्थिता ॥३९॥
प्रत्यावृत्तिक्रमेणैवं शृङ्गटवपुरुज्ज्वला । क्रियाशक्तिस्तु रौद्रीयं वैखरी विश्वविग्रहा ॥४०॥
भासनाद्विश्वरूपस्य स्वरूपे बाह्यतोऽपि च । एताश्चतस्त्रः शक्त्यस्तु का पू जा ओ इति क्रमात् ॥४१॥
पीठाः कन्दे पदे रूपे रूपातीते क्रमात् स्थिताः । चतुरस्त्रं तथ बिन्दुषट्कयुक्तं च वृत्तकम् ॥४२॥
अर्धचन्द्रं त्रिकोणं च रूपाण्येषां क्रमेण तु । पीतो धूम्रस्तथा श्वेतो रक्तो रूपं च कीर्तितम् ॥४३॥
स्वयम्भुर्बाणलिङ्गं च इतरं च परं पुनः । पीठेष्वेतानि लिङ्गानि संस्थितानि वरानने ॥४४॥
हेमबन्धृककुसुमशरच्चन्द्रनिभानि तु । स्वावृतं त्रिकूटं च महालिङ्गं स्वयम्भुवम् ॥४५॥
कादितान्ता क्षरोपेतं बाणलिङ्गं त्रिकोणकम् । कदम्बगोलकाकारं थादिसान्ताक्षरावृतम् ॥४६॥
सूक्ष्मरूपं समस्तार्णवृतं परमलिङ्गकम् । बिन्दुरूपं परानन्दकन्दं नित्यपओदितम् ॥४७॥
बीअत्रितययुक्तास्य सकस्य मनोः पुनः । एतानि वाच्यरूपाणि कुलकौलमयानि तु ॥४८॥
जाग्रत्स्वप्नसुषुप्त्याख्यतुर्यरूपाण्यमूनि तु । अतितं तु परं तेजः स्वसंविदुदयात्मकम् ॥४९॥
स्वेच्छाविश्वमयोल्लेखखचितं विश्वरूपकम् । चैतन्यमात्मनो रूपं निसर्गानन्दसुन्दरम् ॥५०॥
मेयमातृप्रमामानप्रसरैः संकुचत्प्रभम् । शृङ्गाटरूपमापन्नमिच्छाज्ञानक्रियात्मकम् ॥५१॥
विश्वाकारप्रथाधारनिजरूपशिवाश्रयम् । कामेश्वराङ्कपर्यङ्कनिविष्टमतिसुन्दरम् ॥५२॥
इच्छाशक्तिमयं पाशमङ्कुशं ज्ञनरूपिणम् । क्रियाशक्तिमये बाणधनुषी दधदुज्ज्वलम् ॥५३॥
आश्रयाश्रयिभेदेन अष्टधा भिन्नहेतिमत् । अष्टारचक्रसंरूढं नवचक्रासनस्थितम् ॥५४॥
एवंरूपं परं तेजः श्रीचक्रवपुषा स्थितम् । तदीयशक्तिनिकरस्फुरदूर्मिसमावृतम् ॥५५॥
चिदात्मभित्तौ विश्वस्य प्रकाशामर्शने यदा । करोति स्वेच्छया पूर्णविचिकीर्षासमन्विता ॥५६॥
क्रियाशक्तिस्तु विश्वस्य मोदनाद् द्रावणात्तथा । मुद्राख्या सा यदा संविदम्बिका त्रिकलामयी ॥५७॥
त्रिखण्डारूपमापन्ना सदा सन्निधिकारिणी । सर्वस्य चक्रराजस्य व्यापिका परिकीर्तित ॥५८॥
योनिप्राचुर्यतः सैषा सर्वसंक्षोभिका पुनः । वामाशक्तिप्रधानेयं द्वारचक्रे स्थिता भवेत् ॥५९॥
क्षुब्धाविश्वस्थिततिर्करी ज्येष्टाप्राचुर्यमाश्रिता । स्थूलनादकलारूपा सर्वानुग्रहकारिणी ॥६०॥
सर्वाशपूरणाख्ये तु सैषा स्फुरितविग्रहा । ज्येष्टावामासमन्त्वेन सृष्टेः प्राधान्यमाश्रिता ॥६१॥
आकर्षिणी तु मुद्रेयं सर्वसंक्षोभिणी स्मृता । व्योमद्वयान्तरालस्थबिन्दुरूपा महेश्वरि ॥६२॥
शिवशक्त्यात्मसंश्लेषाद्दिव्याकेशकरी स्मृता। चतुर्दशारचक्रस्था संविदानन्दविग्रहा ॥६३॥
बिन्द्वन्तरालविलसत्सूक्ष्म रेखाशिखामयी । ज्येष्टाशक्तिप्रधाना तु सर्वोन्मादनकारिणी ॥६४॥
दशारचक्रमास्थाय संस्थिता वीरवन्दिते । वामाशक्तिप्रधाना तु महाङ्कुशमयी पुनः ॥६५॥
तद्वद्विश्वं वमन्ती सा दिव्तीये तु दशारके । संस्थिता मोदनपरा मुद्रारूपत्वमास्थिता ॥६६॥
धर्माधर्मस्य संघट्टादुत्थिता वित्तीरूपिणी । विकल्पोत्थक्रियालोपरूपदोषविधातिनी ॥६७॥
विकल्परूपरोगाणां हारिणी खेचरी परा । सर्वरोगहराख्ये तु चक्रे संविन्मयी स्थिता ॥६८॥
शिवशक्तिसमाश्लेषस्फुरद्व्योमान्तरे पुनः । प्रकाशयति विश्वं सा सूक्ष्मरूपस्थित सदा ॥६९॥
बीजरूपा महामुद्रा सर्वसिद्धिमये स्थिता । सम्पूर्णस्य प्रकाशस्य लाभभूमिरियं पुनः ॥७०॥
योनिमुद्रा कलारूपा सर्वानन्दमये स्थिता । क्रिया चैतन्यरूपत्वादेवं चक्रमयं स्थितम् ॥७१॥
इच्छारूपं परं तेजाः सर्वदा भावयेद् बुधः । त्रिधा च नवधा चैव चक्रसङ्केतकः पुनः ॥७२॥
वह्निनैकेन शक्तिभ्यां द्वाभ्यां चैकोऽप्रः पुनः । तैश्च वह्नित्रयेणापि शक्तीनां त्रितयेन च ॥७३॥
पद्मद्वयेन चान्यः स्याद भूगृहत्रितयेन च । पञ्चशक्ति चतुर्वह्निपद्मद्वयमहीत्रयम् ॥७४॥
परिपूर्णं महचक्रं तत्प्रकारः प्रदर्श्यते । तत्राद्यं नवयोनि स्यात् तेन द्विदशासंयुतम् ॥७५॥
मनुयोनि परं विद्यात् तृतीयं तदनन्तरम् । अष्टद्व्यष्टदलोपेतं चतुरस्रत्रयान्वितम् ॥७६॥
चक्रस्य त्रिप्रकारत्वं कथितं परमेश्वरि । सृष्टिःस्यान्नवयोन्यादिपृथ्व्यन्तं संहृति पुनः ॥७७॥
पृथ्व्यादिनवयोन्यन्तमिति शास्त्रस्य निर्णयः । एतत्समष्टिरूपं तु त्रिपुराचक्रमुच्यते ॥७८॥
यस्य विज्ञानमात्रेण त्रिपुराज्ञानवान् भवेत् । चक्रस्य नवधात्वं च कथयामि तव प्रिये ॥७९॥
आदिमं भूत्रयेण स्याद द्वितीयं षोडशारकम् । अन्यदष्टदलं प्रोक्तं मनुकोणमनन्तरम् ॥८०॥
पञ्चमं दशकोणं स्यात् षष्टं चापि दशारकम्॥सप्तमं वसुकोणं स्यान्मध्यत्र्यस्रमथाष्टमम् ॥८१॥
नवमं त्र्यस्रमध्यं स्यात् तेषां नामान्यतः शृणु । त्रैलोक्यमोहनं चक्रं सर्वाशापरिपूरकम् ॥८२॥
सर्वसंक्षोभणं गौरि सर्वासौभाग्यदायकम् । सर्वार्थसाधकं चक्रं सर्वरक्षाकरं परम् ॥८३॥
सर्वरोगहरं देवि सर्वसिद्धिमयं तथा । सर्वानन्दमयं चापि नवमं शृणु सुन्दरि ॥८४॥
अत्र पुज्या महादेवी महात्रिपुरसुन्दरी । परिपूर्णं महाचक्रमजरामरकारकम् ॥८५॥
एतमेव महाचक्रसङ्केतः परमेश्वरि । कथितस्त्रिपुरादेव्या जीवन्मुक्तिप्रवर्तकः ॥८६॥
अथ द्वितीयः पटलः मन्त्रसङ्केतं दिव्यमधुना कथ्यामि ते । यद्वेत्ता त्रिपुराकारो विरचक्रेश्वरो भवेत् ॥१॥
करशुद्धिकरो त्वाद्या द्वितीया चात्मरक्षिका । आत्मासनगता देवी तृतीया तदनन्तरम् ॥२॥
चक्रासनगता पश्चात् सर्वमन्त्रासनस्थिता । साध्यसिद्धासना ष्ष्टा मायालक्ष्मीमयी परा ॥३॥
मूर्तिविद्या च सा देवी सप्तमो परिकीर्तिता । अष्टम्यावाहिनी विद्या नवमा भैरवी परा ॥४॥
मूलविद्या तथा ख्याता त्रैलोक्यवशकारिणी । एवं नवप्रकारास्तु पूजाकाले प्रयत्नतः ॥५॥
एताः क्रमेण न्यस्तव्याः साधकेन कुलेश्वरि । पादाग्रजङ्घाजानूरुगुदलिङ्गाग्रकेषु च ॥६॥
आधरे विन्यसन्मूर्ति तस्यामावाहिनीं न्यसेत् । मूलेन व्यापकन्यासः कर्तव्यः परेम्श्वरि ॥७॥
अकुलादिषु पूर्बोक्तस्थानेषु परिचिन्तयेत् । चक्रेश्वरिसमायुक्तं नवचक्रं पुरोदितम् ॥८॥
तासां नामानि वक्ष्यामि यथानुक्रमयोगतः । तत्राद्या त्रिपुरा देवी द्वितीया त्रिपुरेश्वरी ॥९॥
तृतीया च तथा प्रोक्ता देवी त्रिपुरसुन्दरी । चतुर्थी च महादेवी देवी त्रिपुरवासिनी ॥१०॥
पञ्चमी त्रिपुरा श्रीः स्यात् षष्टी त्रिपुरमालिनी । सप्तमी त्रिपुरा सिद्धिरष्टमी त्रिपुराम्बिका ॥११॥
नवमी तु माहदेवी महात्रिपुरसुन्दरी । पूजयेच्च क्रमादेता नवचक्रे पुरोदिते ॥१२॥
एवं नवप्रकाराद्या पुजाकले तु पार्वति । एकाकारा ह्याद्यशक्तिरजरामरकारिणी ॥१३॥
मन्त्रसङ्केतकस्तस्या नानाकारो व्यवस्थितः । नानामन्त्रकर्मेणैव पारम्पर्येण लभ्यते ॥१४॥
षडविधस्तं तु देवेशि कथयामि तवानधे । भावार्थः सम्प्रदायार्थो निगमार्थश्च कौलिकः ॥१५॥
तथा सर्वरहस्यार्थो महातत्त्वार्थ एव च । अक्षरार्थो हि भावार्थः केवलः परमेश्वरि ॥१६॥
योगिनीभिस्तथा विरैर्वीरेन्द्राइः सर्वदा प्रिये । शिवशक्तिसमायोगा~ज्जनितो मन्त्रराजकः ॥१७॥
तन्मयीं परमानन्दनन्दितां स्पन्दरूपिणीम् । निसर्गसुन्दरीं देवीं ज्ञात्वा स्वैरमुपासते ॥१८॥
शिवशक्त्यात्मसंघट्टरूपे ब्र्ह्माणि शाश्वते । तत्प्रथाप्रसराश्लेषभुवि त्वैन्द्रोपलक्षिते ॥१९॥
ज्ञातृज्ञानमयाकारसननान्मन्त्ररूपिणी । तेषां समष्टिरूपेण पराशक्तिस्तु मातृका ॥२०॥
मध्यबिन्दुविसर्गान्तः समास्थानमये परे । कुटिलारूपके तस्याः प्रतिरूपे वियत्कले ॥२१॥
मध्यप्राणप्रथारूपपस्पन्दव्योम्नि स्थित पुनः । मध्यमे मन्त्रपिण्डे तु तृतीये पिण्डके पुनः ॥२२॥
राहुकूटाद्वयस्फूर्जच्चलत्तासंस्थितस्य तु । धर्माधर्मस्य वाच्यस्य विषामृतमयस्य च ॥२३॥
वाचक्राक्षरसंयोगात् कथिता विश्वरूपिणी । तेषां समष्टिरूपेण पराशक्तिं तु मातृकाम् ॥२४॥
कूटत्रयात्मिकां देवीं समष्टिव्यष्टिरूपिणिम् । आद्यां शक्तिं भावयन्तो भावार्थमिति मन्वते ॥२५॥
सम्प्रदायो महाबोधरूपो गुरुमुखे स्थितः । विश्वाकारप्रथायास्तु महत्त्वञ्च यदाश्रयम् ॥२६॥
शिवशक्त्याद्यया मूलविद्यया परमेश्वरि । जगत्कृत्स्नं तया व्याप्तं शृणुष्वावहिता प्रिये ॥२७॥
पञ्चभूतमयं विश्वं तन्मयी सा सदानघे । तन्मयी मूलविद्या च तदद्य कथयाम्मि ते ॥२८॥
हकाराद् व्योम सम्भूतं ककारात्तु प्रभञ्जनह । रेफादग्निः सकाराच्च जलतत्त्वस्य सम्भवः ॥२९॥
लकारात, ह पृथिवी जाता तस्माद विश्वमयी च सा । गुणाःपञ्चदश प्रोक्ता भूतानं तन्मयी शिवा ॥३०॥
यस्य यस्य पदार्थस्य सा या शक्तिरुदीरिता । सा सा सर्वेश्वरी देवी स स सर्वो महेश्वरः ॥३१॥
व्याप्ता पञ्चदशार्णः सा विद्या भूतगुणात्मिकाः । पञ्चभिश्च तथा षड भिश्चतुर्भिरपि चाक्षरः ॥३२॥
स्वरव्यञ्जनभेदेन सप्तत्रिंशत्प्रभेदेनी । सप्तत्रिंशत्प्रभेदेन षट त्रिंशतत्त्वरूपिणी ॥३३॥
तत्त्वातीतस्वभावा च विद्यैषं भाव्यते सदा । पृथिव्यादिषु भूतेषु व्यापकं चोत्तरोत्तरम् ॥३४॥
भूतं त्वधस्तनं व्याप्यं तद गुणा व्यापकाश्रयाः । व्याप्येष्ववस्थिता देवि स्थूलसूक्ष्मविभेदतः ॥३५॥
तस्माद्व्योमगुणः शब्दो वाय्वादीन् व्याप्य संस्थितः । व्योमबिहैस्तु विद्यास्थैर्लक्षयेच्छब्दपञ्चकम ॥३६॥
तेषां कारुणरूपेण स्थित ध्वनिमयं परम् । भवेद् गुणवतां बीजं गुणानामपि वाचकम् ॥३७॥
कार्यकारणभावेन तयोरैक्य विवक्षया । महामायात्रयेणापि कारणेन च बिन्दुना ॥३८॥
वाय्वाग्निजलभूमीनां स्पर्शानां च चतुष्टयम् । उत्पन्नं भावयेद् देवि स्थूलसूक्ष्मविभेदतः ॥३९॥
रूपाणां त्रितयं तद्वत् त्रिभी रेफैर्विभावितम् । प्रधानं तेजसो रूपं तद बीजेन हि जन्यते ॥४०॥
विद्यास्थैश्चन्द्रबीजैस्तु स्थूलसूक्ष्मो रसः स्मृतः । सम्बन्धो विदितो लोके रसस्याप्यमृतस्य च ॥४१॥
वसु धाया गुणो गन्धस्तल्लिपिर्गन्धवाचिका । भुवनत्रयसम्भन्धात् त्रिधात्वं तु महेश्वरि ॥४२॥
अशुद्धशुद्धमिश्राणां प्रमातॄणां परं वपुः । क्रोधीशत्रितये नाथ विद्यास्थेन प्रकाश्यते ॥४३॥
श्रीकण्ठदशकं तद्वद व्यक्तस्यापि वाचकः । प्राणरूपस्थितो देवि तद्वदेकादशः परः ॥४४॥
एकः सन्नेव पुरुषो बहुधा कायते हि सः । रुद्रेश्वरसदेशाख्या देवता मितविग्रहाः ॥४५॥
बिन्दुत्रयेण कथिता अमितामितविग्रहाः । शान्तिः शक्तिश्च शम्भुश्च नादत्रितयबोधनाः ॥४६॥
वागुरामूलवलये सूत्राद्याः कवलीकृताः । तथा मन्त्राः समस्ताश्च विद्यायामत्र संस्थिताः ॥४७॥
गुरुक्रमेण संप्राप्तः संप्रदायार्थ ईरितः । निगर्भार्थो महदेवि शिवगुर्वात्मगोचरः ॥४८॥
शिवगुर्वात्मनामैक्यानुसंधानात्तदात्मकम् ॥४९॥निष्कलत्वं शिवे बुध्वा तद्रूपत्वं गुरोरपि ।
तन्निरीक्षणसामर्थ्यादात्मनश्च शिवात्मताम् ॥५०॥
भावयेदभक्तिनम्रः सङ्कोचोन्मेषाकलङ्कितः । कौलिकं कथयिष्यामि चक्रदेवतयोरपि ॥५१॥
विद्यागुर्वात्मनामैक्यं तत्प्रकारः प्रदर्श्यते । लकारैश्चतुरस्राणि वृत्तत्रितयसंयुतम् ॥५२॥
सरोरुहद्वयं शक्तैरग्नीषोमात्मकं प्रिये। हृल्लेखात्रयसंभूतैरक्षरैर्नवसङ्ख्यकैः ॥५३॥
बिन्दुत्रययुतैर्जातं नवयोन्यात्मकं प्रिये। मण्डलत्रययुक्तं तु चक्रं शक्त्यनलात्मकम् ॥५४॥
व्योमबीजत्रयेणैव प्रमातृत्रित्यान्वितम्। इच्छाज्ञानक्रियारूपमादनत्रयसंयुतम् ॥५५॥
सदाशिवासनं देवि महाबिन्दुमयं परम्। इत्थं मन्त्रात्मकं चक्रं देवतायाः परं वपुः ॥५६॥
एकादशाधिकशतदेवतात्मतया पुनः । गणेशत्वं महादेव्याः ससोमरविपावकैः ॥५७॥
इच्छाज्ञानक्रियाभिश्च गुणत्रययुतैह पुनः। ग्रहरूपा च सा देवी ज्ञानकर्मेन्द्रियैरपि ॥५८॥
तदर्थैरेव देवेशि करणैरान्तरैः पुनः। प्रकृत्या च गुणेनापि पुंस्त्वबन्धेन चात्मना ॥५९॥
नक्षत्रविग्रहा जाता योगिनीत्वमथोच्यते। त्वगादिधातुनाथाभिर्डाकिन्यादिभिरप्यसौ ॥६०॥
वर्गाष्टकनिविष्टाभिर्योगिनीभिश्च संयुता। योगिनीरूपमास्थाय राजते विश्वविग्रा ॥६१॥
प्राणापानौ समानश्चोदनव्यानौ तथा पुनः। नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥६२॥
जीवात्मा पर्मात्मा चैत्येतै राशिस्वरूपिणी। अकथादित्रिपङ्क्त्यात्मा तार्तियादिक्रमेण सा ॥६३॥
गणेशोऽभून्महाविद्या परावागादिवाङ्मयी। बीजबिन्दुध्वनीनां च त्रिकूटेषु ग्रहात्मिका ॥६४॥
हृल्लेखात्रयसंभूतैस्तिथिसंख्यैस्तथाक्षरैः। अन्यैर्द्वादशभिर्वर्णैरेषा नक्षत्ररूपिणी ॥६५॥
विद्यानन्तर्भूतशक्त्याद्यैः शाक्तैः षड भिस्तथाक्षरैः। योगिनीत्वं च विद्याय राशित्वं चान्त्यवर्जितैः ॥६६॥
एवं विश्वप्रकारा च चक्र रूपा महेश्वरी। देव्या देहे यथा प्रोक्तो गुरुदेहे तथैव हि ॥६७॥
तत्प्रसादाच्च शिष्योऽपि तद्रूपः संप्रजायते। इत्येवं कौलिकार्थस्तु कथितो विरवन्दिते ॥६८॥
तथा सर्वरह्स्यार्थं कथयामि तवानघे। मूलाधारे तडिद्रूपे वाग्भवाकारतां गते ॥६९॥
अष्टात्रिंशत्कलायुक्तपञ्चाशद्वर्णविग्रहा। विद्या कुण्डलिनीरूपा मण्दलत्रयभेदिनी ॥७०॥
तडित्कोटिनिभप्रख्या बिसतन्तुनिभाकृतिः। व्योमेन्दुमण्डलासक्ता सुधास्त्रोतःस्वरूपिणी ॥७१॥
सदा व्याप्तजगत् कृत्स्ना सदानन्दस्वरूपिणी। एषा स्वात्मेति बुद्धिस्तु रहस्यार्थो महेश्वरि ॥७२॥
महातत्त्वार्थं इति यत्तच देवि वदामि ते। निष्कले प्रमे सूक्ष्मे निर्लक्ष्ये भाववर्जिते ॥७३॥
व्योमातीते परे तत्त्वे प्रकाशानन्दविग्रहे। विश्वोत्तिर्णे विश्वमये तत्त्वे स्वात्मनियोजनम् ॥७४॥
तदा प्रकाशमानत्वं तेजसां तमसामपि। अविनाभावरूपत्वं तस्माद्विश्वस्य सर्वतः ॥७५॥
प्रकाशते महातत्त्वं दिव्यक्रीडारसोज्ज्वले। निरस्तसर्वसंकल्पविकल्पस्थितिपूर्वकः ॥७६॥
रहस्यार्थो मया गुप्तः सद्यः प्रत्ययकारकः। महाज्ञानार्णवे दृष्टः शङ्का तत्र न पार्वति ॥७७॥
विद्यापीठनिबद्धेषु संस्थितो दिव्यसिद्धिदः। कौलाचारपरैर्देवि पादुकाभावनापरैः ॥७८॥
योगिनीमेलनोद्युक्तैः प्राप्तविद्याभिषेचनैः। शङ्काकलङ्कविगतैः सदा मुदितमानसैः ॥७९॥
पारम्पर्येण विज्ञातरहस्यार्थविशारदैः। लभ्यते नान्यथ देवि त्वां शपेकुलसुन्दरि ॥८०॥
पारम्पर्यविहीना ये ज्ञानमात्रेण गर्विताः। तेषां समयलोपेन विकुर्वन्ति मरीचयः ॥८१॥
यस्तु दिव्यरसास्वादमोदमानविमर्शनः। देअतातिथिनक्षत्रे वारेऽपि च विवस्वतः ॥८२॥
मरीचीन् प्रीणयत्येव मदिरानन्दघूर्णितः। सर्वदा च विशेषण लभते पूर्णबोधताम् ॥८३॥
एवंव्हावस्तु देवेशि देशिकेन्द्रप्रसादतः। महाज्ञानमयो देवि सद्यः सम्प्राप्यते नरैः ॥८४॥
एवमेतत्प्रदं ज्ञानं विद्यार्णागमगोचरम्। देवि गुह्यप्रियेणैव व्याख्यातं दुर्गि षड विधम्। सद्यो यस्य प्रबोधेन वीरचक्रेश्वरो भवेत् ॥८५॥
अथ तृतायः पटलः पूजासङ्केतमधुना कथयामि तवानघे। यस्य प्रबोधमात्रेण जिवन्मुक्तः प्रमोदते ॥१॥
तव नित्योदिता पूजा त्रिभिर्भेदैर्व्यवस्थिता। परा चाप्यपर गौरि तृतीया च परापरा ॥२॥
प्रथमाद्वैतभावस्था सर्वप्रसरगोचरा। द्वितीया चक्रपूजा च सदा निष्पाद्यते मया ॥३॥
एवं ज्ञानमये देवि तृतीया तु परापरा। उत्तमा सा परा ज्ञेया विधानं शृणु साम्प्रतम् ॥४॥
महापद्मवनान्तस्थे वाग्भवे गुरुपादुकाम्। आप्यायितजगद्रूपां पर्मामृतवर्षिणीम् ॥५॥
सञ्चिन्त्य परमाद्वैतभावनामृतघूर्णितः। दहरान्तरसंसर्पन्नादालोकनतत्परः ॥६॥
विकल्परूपसंजल्पविमुखोऽन्तर्मुखः सदा। चित्कलोल्लासदलितसंकोचस्त्वतिसुन्दरः। इन्द्रियप्रीणनद्रव्यैविं हितस्वात्मपूजनः ॥७॥
न्यासं निर्वर्तयेदेहे षोढान्यासपुरःसरम्। गणेशैः प्रथमो न्यासो द्वितीतस्तु ग्रहैर्मतः ॥८॥
नक्षत्रैश्च तृतीयः स्याद्योगिनीभिश्चतुर्थकः। राशिभिः पञ्चमो न्यासः षष्ठः पीठैर्निगद्यते ॥९॥
षोढान्यासस्त्वयं प्रोक्तः सर्वत्रैवापराजितः। एवं यो न्यस्तगात्रस्तु स पूज्यः सर्वयोगिभिः ॥१०॥
नास्त्यस्य पूज्यो लोकेषु पितृमातृमुखो जनः। स एव पूज्यः सर्वेषां स स्वयं परमेश्वरः ॥११॥
षोढान्यासविहीनं यं प्रणमेदेष पार्वति। सोऽचिरान्मृत्युमाप्नोति नरकं च प्रपद्यते ॥१२॥
षोढान्यासप्रकारं च कथयामि तवानघे। विघ्नेशो विघ्नराजश्च विनायकशिवोत्तमौ ॥१३॥
विघ्नकृद्विघ्नहर्ता च गणराट गणनायकः। एकदन्तो द्विदन्तश्च गजवक्त्रो निरञ्जनः ॥१४॥
कपर्दवान् दीर्घमुखः शङ्कुकर्णो वृषध्वजः। गणनाथो गजेन्द्रश्च शुर्पकर्णस्त्रिलोचनः ॥१५॥
लम्बोदरो महानादश्चतुर्मूर्तिः सदाशिवः। आमोदो दुर्मुखश्चैव सुमुखश्च प्रमोदकः ॥१६॥
एकपादो द्विजिह्वश्च शूरो वीरश्च षण्मुखः। वरदो वामदेवश्च वक्रतुण्डो द्विरण्डकः ॥१७॥
सेनानीर्ग्रामणीर्मत्तो विमत्तो मत्तवाहनः। जटी मुण्डी तथा खड्गी वरेण्यो वृषकेतनः ॥१८॥
भक्ष्यप्रियो गणेशश्च मेघनादो गणेश्वरः। तरुणारुणसङ्काशान् गजवक्त्रान् त्रिलोचनान् ॥१९॥
पाशाङ्कुशवराभीतिहस्तान् शक्तिसमन्वितान्। एतांस्तु विन्यसेदेहे मातृकान्यासवत्प्रिये ॥२०॥
स्वरैस्तु सहितं सूर्यं हृदयाथः प्रविन्यसेत्। बिन्दुस्थाने सुधासूतिं यादिवर्णचतुष्टयैः ॥२१॥
भूपुत्रं लोचनद्वन्द्व कवर्गाधिपतिं प्रिये। हृदये विन्यसेच्छुक्रं चवर्गाधिपतिं पुनः ॥२२॥
हृदयोपरि विन्यसेट्टवर्गाधिपतिं बुधम्। बृहस्पतिं कण्ठदेशे तवर्गाधिपतिं प्रिये ॥२३॥
नाभौ शनैश्चरं देवि पवर्गेशं सुरेश्वरि। वक्त्रेशादिचतुर्वर्णैः सहितं राहुमेव च ॥२४॥
क्षकारसहितं केतुं पायो देवेशि विन्यसेत्। [रक्तं श्वेतं तथा रक्तं श्यामं पीतं च पाण्डुरम्।
कृष्णं धूम्रं धूम्रधूम्रं भावयेद्रविपुर्वकान्॥ कामरूपधरान् देवि दिव्याम्बरविभूषणान्।
वामोरुन्यस्तहस्तांश्च दक्षहस्तवरप्रदान् ॥] ललाटे दक्षनेत्रे च वामे कर्णद्वये पुनः ॥२५॥
पुटयोनिर्नासिकायाश्च कण्ठे स्कन्धद्वये पुनः। पश्चात्कूर्परयुग्मे च मणिबन्धद्वये पुनः ॥२६॥
स्तनयोर्नाभिदेशे च कटिबन्धे ततः परम्। ऊरुयुग्मे तथा जान्वोर्जङ्घयोश्च पदद्वये ॥२७॥
[आद्ययुग्मन्तथा चैकं तस्त्रीणि चतुष्टयम्। एकमेकं द्वयञ्चेति स्वराः प्रोक्ताश्चतुर्दश ॥२८॥
व्यञ्जनेष्वेकमुभयं द्वयं न्यस्येदतः परम्। एकं युग्मं द्वयन्द्वन्द्वमेकं युग्मं द्वयन्ततः ॥२९॥
एकं त्रयं तथा चैकं एकमेकं द्वयन्तथा। एकं द्वयं त्रयं पश्चाल्लक्षं अं मश्चतुष्टयम् ॥३०॥
अशिव्न्यादेः पुरो भगे दत्वा चक्रमतो न्यसेत् ] ज्वलत्कालानलप्रख्या वरदाभयपाणयः ॥३१॥
नतिपाण्योऽश्विनीपूर्वाः सर्वाभरणभूषिताः। एतास्तु विन्यसेद्देवि स्थानेष्वेषु सुरार्चिते ॥३२॥
विशुद्धौ हृदये नाभौ स्वाधिष्टाने च मूलके। आज्ञायां धातुनाथाश्च न्यस्तव्या डादिदेवताः ॥३३॥
अमृतादियुताः सम्यङ्न्यस्तव्याश्च सुरेश्वरि। पादे लिङ्गे च कुक्षौ च हृदये बाहुमूलयोः ॥३४॥
दक्षिणं पादमारभ्य वामपादावसानकम्। मेषादिराशयो वर्णैर्न्यस्तव्याः सह पार्वति ॥३५॥
[चतुष्कं त्रितयं त्रीणि द्वितयं द्वितयं द्वयम्। पञ्चकं पञ्चकं पञ्च पञ्चक्तं पञ्चकं ततः॥
चत्वारि मेरुर्मिने स्युः कन्यायां पञ्च शादयः। ] पिठानि विन्यसेद्देवि मातृकास्थानके पुनः। तेषां नामानि वक्ष्यन्ते शृणुष्वावहिता प्रिये ॥३६॥
कामरूपं वाराणसी नेपालं पौण्ड्रवर्धनम्। चरस्थिरं कान्यकुब्जं पूर्णशैलं तथार्बुदम् ॥३७॥
आम्रातकेश्वरैकाम्रं त्रिस्रोतः कामकोटकम्। कैलासं भृगुनगरं केदारपूर्णचन्द्रके ॥३८॥
श्रीपीठमोङ्कारपीठं जालन्ध्रं मालवोत्कले। कुलान्तं देविकोटं च गोकर्णं मारुतेश्वरम् ॥३९॥
अट्टहासं च विरजं राजगेहं महापथम्। कोलापुर मेलापुरं ओङ्कारन्तु जयन्तिका ॥४०॥
उज्जयिन्यापि चित्रा च क्षीरकं हस्तिनापुरं। ओड्डीशं च प्रयागाख्यं षष्ठं मायापुरं तथा ॥४१॥
जलेशं मलयं शैलं मेरुं गिरिवरं तथा। महेन्द्रं वामनं चैव हिरण्यपुरमेव चा ॥४२॥
महालक्ष्मीपुरोड्याणं छायाछत्रमतः परम्। एते पीठाः समुद्दिष्टा मातृकारूपकाः स्थिताः ॥४३॥
एवं षोढा पुरः कृत्वा श्रीचक्रन्यासमाचरेत्। श्रीमत्त्रिपुरसुन्दर्याश्चक्रन्यासं शृणु प्रिये ॥४४॥
यन्न कस्यचिदाख्यातं तनुशुद्धिकरं परम्। चतुरस्त्राद्यरेखायै नम इत्यादितो न्यसेत् ॥४५॥
दक्षांसपृष्ठपाण्यग्रस्फिक्कपादाङ्गुलीष्वथ। वामाङ्घ्र्यङ्गुलिषुस्फिक्के पाण्यग्रे चांसपृष्ठके ॥४६॥
सचूलीमूलपृष्ठेषु व्यापकत्वेन सुन्दरि। अत्रैव स्थानदशके अणिमाद्यास्तु विन्यसेत् ॥४७॥
सिद्धिस्तदन्तश्च तनुव्यापकत्वेन सुन्दरि। [ चतुरस्रमध्यरेखायै नम इत्यपि वल्लभे। ] तस्याः स्थानेषु विन्यस्य ब्रह्माण्याद्यास्तदाष्टसु ॥४८॥
पादाङ्गुष्ठद्वये पार्श्वे दक्षे मूर्धन्यपार्श्वके। वामदक्षिणजान्वोश्च बहिरंसद्वये तथा ॥४९॥
न्यस्तव्याश्चतुरस्रान्त्यरेखायै नम इत्यपि। विन्यसेद् व्यापकत्वेन पूर्वोक्तान्तश्च विग्रहे ॥५०॥
तस्याः स्थानेषु दशसु मुद्राणां दशकं न्यसेत्। ब्रह्माण्याद्यष्टस्थानान्तस्तासामष्टौ न्यसेत्ततः ॥५१॥
शिष्टे द्वे द्वादशान्ते च पादाङ्गुष्ठे च विन्यसेत्। तदान्तः षोडशदलपद्माय नम इत्यपि ॥५२॥
विन्यस्य तद्दले कामाकर्षिण्याद्याश्च विन्यसेत्। दलानि दक्षिनश्रोत्रपृष्ठमंसं च कूर्परम् ॥५३॥
करपृष्ठं चोरुजानुगुल्फपादतलं तथा। वामपादतलाद्येवमेतदेवाष्टकं मतम् ॥५४॥
तदन्तरे चाष्टदलपद्माय नम इत्यपि। विन्यस्य तद्दलेष्वेषु दक्षशङ्खे च जत्रुके ॥५५॥
ऊर्वन्तर्गुल्फगुल्फोरुजत्रुशङ्खे च वमतः। अनङ्गकुसुमाद्याश्च शक्तीरष्टौ च विन्यसेत ॥५६॥
तदनतश्चतुर्दशारचक्राय नम इत्यपि। विन्यस्य तस्य कोणेषु न्यसेच्छक्तीश्चतुर्दश ॥५७॥
सर्वसङ्क्षोभिण्याद्यास्तु तस्य कोणानि वच्म्यहम्। ललाटं दक्षभागं च दक्षगण्डांसमध्यतः ॥५८॥
पार्श्वान्तरूरुकङ्घान्तर्वामजङ्घादि पार्वति। वामोर्वन्तं वामपार्श्वं वामांसं वामगण्डकम् ॥५९॥
ललाटवाममध्ये च तथा वै पृष्ठमित्यपि। ततो दशारचक्राय नम इत्यपि पार्वति ॥६०॥
तस्य कोणानि दक्षाक्षिनासामूलाऽऽस्यनेत्रके। कुक्षीशवायुकोणेषु जानुद्वयगुदेषु च ॥६१॥
कुक्षिनै ॠर्तिवह्न्याख्यकोणेष्वेषु न्यसेत् पुनः। सर्वासिद्धिप्रदादीनां शक्तीनां दशकं तथा ॥६२॥
तदन्तस्च दशारादिचक्राय नम इत्यपि। विन्यस्य तस्य कोणेषु सर्वज्ञाद्याः प्रविन्यसेत् ॥६३॥
दक्षनासा सृक्किणी चा स्तनं वृषणमेव च। सीविनी वाममुष्कं च स्तनं सृक्किणि नासिके ॥६४॥
नासाग्रं चैव विज्ञेयं कोणानां दशकं तथा। तदन्तरष्टकोणादिचक्राय नम इत्यपि ॥६५॥
विन्यस्य तस्य कोणेषु वषिन्याद्यष्टकम् न्यसेत्। चिबुकं कण्ठहृदयनाभीनां चैव दक्षिणम् ॥६६॥
ज्ञेयं पार्श्वचतुष्कं च मणिपूरादि वामकम्। चतुष्ठयं च पार्श्वानामेतत् कोणाष्टकं मतम् ॥६७॥
हृदयस्थत्रिकोणस्य चतुर्दिक्षु बहिर्न्यसेत्। शरचापौ पाशसृणी त्रिकोणाय नमस्तथा ॥६८॥
विन्यस्य तस्य कोणेषु अग्रदक्षोत्तरेषु च। कामेश्वर्यादिदेवीनां मध्ये देवीं च विन्यसेत् ॥६९॥
एवं मयोदितो देवि !न्यासो गुह्यतमक्रमः। एतद् गुह्यतमं कार्यं त्वया वै वीरवन्दिते ॥७०॥
समयस्थाय दातव्यं नऽशिष्याय कदाचन। गुप्ताद् गुप्ततरं चैतत्तवाऽद्य प्रकटीकृतम् ॥७१॥
मूलदेव्यादिकं न्यासमणिमान्तं पुनर्न्यसेत्। [त्रिकोणस्थे महाबिन्दौ महात्रिपुरसुन्दरीम् ]। शिरस्त्रिकोणपूर्वादि कामेश्वर्यादिकं न्यसेत् ॥७२॥
बाणान्नेत्रे भ्रुवोश्चापौ कर्णे पाशद्वयं न्यसेत। सृणिद्वयं च नासाग्रे दक्षिणाग्रं तु विन्यसेत् ॥७३॥
मुण्डमूलक्रमेणैव न्यसेद्वाग्देवताष्टकम् । बैन्दवादीनि चक्राणि न्यस्तव्यानि वरानने ॥७४॥
नेत्रमूले त्वपाङ्गे च कर्णपूर्वोत्तरे पुनः। चूडादिकण्ठनिम्नेऽर्धं शेषार्धं कर्णपृष्टके ॥७५॥
कर्णे पूर्वे त्वपाङ्गे च तस्य मूले च विन्यसेत्। हृदये मनुकोणस्थ शक्तयोऽपि च पूर्ववत् ॥७६॥
सर्वसिद्ध्यादिकं कण्ठे प्रादक्षिण्येन विन्यसेत्। नाभावष्टदलं तत्तु वंशे वामे च पार्श्वके ॥७७॥
उदरे सव्यपार्श्वे च न्यसेदादिचतुष्टयम्। वंशवामान्तरालादि न्यसेदन्य चतुष्टयम् ॥७८॥
स्वाधिष्ठाने न्यसेत् स्वस्य पूर्वाद्दक्षावसानकम्। चतस्रस्तु चतस्रस्तु चतुर्दिक्षु क्रमान्न्यसेत् ॥७९॥
मूलाधारे न्यसेन्मुद्रादशकं साधकोत्तमः। पुनर्वंशे च सव्ये च वामे चैवान्तरालके ॥८०॥
ऊर्धोधो दशमुद्राश्च ऊर्ध्वाधोवर्जितं पुनः। ब्रह्माण्याद्याष्टकं दक्षजन्घायां तास्तु पूर्ववत् ॥८१॥
वामजङ्घां समारभ्य वामादिक्रमतोऽपि च । सिद्ध्यष्टकं न्यसेत्तेषु द्वयं पादतले न्यसेत् ॥८२॥
कारणात्प्रसृतं न्यासं दीपाद्दीपमिवोदितम् । एवं विन्यस्य देवेशीं स्वाभेदेन विचिन्तयेत् ॥८३॥
ततश्च करशुद्ध्यादिन्यासं कुर्यात् समाहितः । अहं ते कथयाम्यद्य विद्यान्यासं शृनु प्रिये ॥८४॥
मूर्ध्नि गुह्ये च हृदये नेत्रेषु त्रितयेषु च । श्रोत्रयोर्युगले चैव मुखे च भुजयोस्तथा ॥८५॥
पृष्टे जान्वोश्च नाभौ च विद्यान्यासं विधाय च । करशुद्धिं पुनश्चैव आसनादिषडङ्गकम् ॥८६॥
श्रीकण्ठादीनि वाग्देवीराधारे हृदये पुनः । शिखायां बैन्दवस्थाने त्वग्निचक्रादिका न्यसेत् ॥८७॥
तत्त्वत्रयं समस्तं च विद्याबिजत्रयान्वितम् । पादादिनाभिपर्यन्तमागलं शिरस्तथा ॥८८॥
व्यापकं चैव विन्यस्य स्वात्मीकृत्य परं पुनः । सन्तर्पयेत् पुनर्देवीं सौम्याग्नेयामृतद्रवैः ॥८९॥
एवं चतुर्विधो न्यासः कर्वव्यो वीरवन्दिते । षोढान्यासोऽणिमाद्यश्च मूलदेव्यादिकः प्रिये ॥९०॥
करशुद्ध्यादिकस्चैव साधकेन सुसिद्धये । प्रातः काले तथा पूजासमये होमकर्मणि ॥९१॥
जपकाले तथा तेषां विनियोगः पृथक् पृथक् । पूजाकाले समस्तं वा कृत्वा साधकपुङ्गवः ॥९२॥
षट्त्रिंशतत्त्वपर्यन्तमासनं परिकल्प्य च । गुप्तादियोगिनीनां च मन्त्रेणाऽथ बलिं ददेत् ॥९३॥
पिण~डरूपपदग्रन्थिभेदनाद् विघ्नभेदकम् । गुह्यहृन्मुखमूर्धसु विद्यान्यासनेअ सुन्दरि ॥९४॥
यागमन्दिरगांश्चैव विघ्नानुत्सार्य मन्त्रवित् । [अपसर्पन्तु ते भूता ये भुता भूमिसंस्थिताः॥
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ] पार्ष्णिघातेन भौमांश्च तालेन च नभोगतान् ॥९५॥
अस्त्रमन्त्रेण विद्यांश्च दृष्ट्या विघानपोहयेत् । दिक्ष्वधोर्ध्वं महावह्निप्राकारं परिभावयेत् ॥९६॥
सामान्यार्ध्येण देवेशि!मार्तण~डं परिपूजयेत् । प्रकाशशक्तिसहितमरुणाकल्पमुज्ज्वलम् ॥९७॥
ग्रहादिपरिवारञ्च विश्वतेजोऽवभासनम् । सौम्याग्नेययुतैर्देवि रोचनागुरुकुङ्कुमैः ॥९८॥
मूलमुच्चारयन् सम्यग्भावयेच्चक्रराजकम् । योगिनी मूलमन्त्रेण क्षिपेत् पुष्पाञ्जलिं ततः ॥९९॥
मणिमुक्ताप्रवालैर्वा विलोमं मूलविद्यया । अशून्यं सर्वदा कुर्याच्छून्ये विघ्नास्त्वनेकशः ॥१००॥
श्रीचक्रस्यात्मनश्चैव मध्ये त्वर्घ्यं प्रतिक्षिपेत् । चतुरस्रान्तरालस्थकाणषट्के सुरेश्वरि ॥१०१॥
षडासनानि सम्पुज्य त्रिकोणस्यान्तरे पुनः । पीठानि चतुरो देवि कापूजा ओ इति क्रमात् ॥१०२॥
अर्चयित्वाऽर्घ्यपादे तु वह्नेर्दश कला यजेत् । अर्घ्यपात्रं प्रतिष्ठाप्य तत्र सूर्यकला यजेत् ॥१०३॥
पात्रे सूर्यकलाश्चैव कभादिद्वादशार्चयेत् । विधृते तु पुनर्द्रव्ये षोडशेन्दुकला यजेत् ॥१०४॥
अमृतेशीं च तन्मध्ये भावयेच्च नवात्मना। नवात्मना ततो देवि तर्पेय्द्धातुदेवताः ॥१०५॥
आनन्दभैरवं वौषडन्तेनैव च तर्पयेत् । तदाज्ञाप्रेरितं तच्च गुरुषङ्क्तौ निवेदयेत् ॥१०६॥
तथैवार्घ्यं विशेषेण साधयेत् साधकोत्तमः । गुरुपादालिमापूज्य भैरवाय ददेत् पुनः ॥१०७॥
तदीयं शेषमादाय कामाग्नौ विश्व ॥।स्थुषि । पादुकां मूलविद्यां च जपन् होमं समाचरेत् ॥१०८॥
महाप्रकाशे विश्वस्य संहारवमनोद्यते । मरीचिवृत्तीर्जुहुयान्मनसा कुण्डलीमुखे ॥१०९॥
अहन्तेदन्तयोरैक्यमुन्मन्यां स्रुचि कल्पितम् । मथनोद्रेकसम्भूतं वस्तुरूपं महाहविः ॥११०॥
हुत्वा हुत्वा स्वयं चैवं महजानन्दविग्रहः । स्वप्रधाप्रसराकारं श्रीचक्रं पूजयेत् सुधीः ॥१११॥
गणेशं दूतरीं चैव क्षेत्रेशं दूतिकां तथा । बाह्यद्वरे यजेद् देवि देवीश्च स्वस्तिकादिकाः ॥११२॥
ततस्चान्तस्त्रिकोणऽपि गुरुपङ्क्तिं त्रिधा स्थिताम् । तदन्तश्च महादेवीं तामावाह्य यजेत् पुनः ॥११३॥
महापद्मवनान्तस्थां कारणानन्दविग्रहाम् । मदङ्कोपाश्रितां देवीमिच्छाकामफलप्रदाम् ॥११४॥
भवतीं त्वन्मयैरेव नैवेद्यादिभिरर्चयेत् । त्रिकोणे तत्स्फुरत्तायाः प्रतिबिम्बाकृतीः पुनः ॥११५॥
तत्तत्तिथिमयीर्नित्याः काम्यकर्मानुसारिणीः । तत्र प्रकटयोगिन्यश्चक्रे त्रैलोक्यमोहने ॥११६॥
मातृकास्थूलरूपत्वात्त्वगादिव्यापकत्वतः । योगिन्यः प्रकटा ज्ञेयाः स्थूलविश्वप्रधात्मनि ॥११७॥
अणिमाद्या महादेवि सिद्धयोऽष्टौ व्यवस्थिताः । तासु रक्ततरा बणैर्वराभयकरास्तथा ॥११८॥
धृतचिन्तामहारत्ना मनीषितफलप्रदाः । ब्राह्म्याद्या अपि तत्रैव यष्टव्याः क्रमतः प्रिये ॥११९॥
ब्रह्माणी पीतवर्णा च चतुर्भिः शोभिता मुखैः । वरदाऽभयहस्ता च कुण्डिका क्षलसत्करा ॥१२०॥
माहेश्वरी श्वेतवर्णा त्रिनेत्रा शूलधारिणी । कपालमेणं परशुं दधाना पाणिभिः प्रिये ॥१२१॥
[ऐन्द्री तु श्यामवर्णा च व्रजोत्पललसत्करा ] कौमारी पीतवर्णा च शक्तितोमरधरिणी ॥१२२॥
वरदाभयहस्ता च ध्यातव्या परमेश्वरी । वैष्णवी श्यामवर्णा च शङ्खचक्रवराभयान् ॥१२३॥
हस्तपद्मैस्तु विभ्राणा भूषिता दिव्यभूषणैः । वाराही श्यामलच्छाया पोत्रि वक्त्रसमुज्ज्वला ॥१२४॥
हलं च मुसलं खड्गं खेटकं दधाती भुजैः । [ऐन्द्री श्यामलवर्णा च वज्रद्वयलसत्करा ]॥१२५॥
चामुण्डा कृष्णवर्णा च शूलं डमरुकं तथा । खड्गं वेतालकं चैव दधाना दक्षिणैः करैः ॥१२६॥
नागखेटकघण्टा ख्यान् दधानान्यैः कपालकम् । महालक्ष्मीस्तु पीताभा पद्मदर्पणमेव च ॥१२७॥
मात लुङ्गफलं चैव दधान परमेश्वरी । एवं ध्यात्वा यजेदेताश्चक्रेशीं त्रिपुरां ततः ॥१२८॥
कर्मेन्द्रियाणां वैमल्यात् करशुद्धिकरी स्मृता । कायशुद्धिभवा सिद्धिरणिमा चात्र संस्थिता ॥१२९॥
षोडशस्पन्दसन्दोहे चमत्कृतिमयोः कलाः । प्राणादिषोडशानां तु वयुना प्राणनात्मिकाः ॥१३०॥
बीज भूताः स्वरात्मत्वात् कलनाद बीजरूपकाः । अन्तरङ्गतया गुप्ता योगिन्यः संव्यवस्थिताः ॥१३१॥
कामाकर्षणरूपाद्याः सृष्टेः प्राधान्यतः प्रिये । सर्वाशापूरणाख्ये तु चक्रे वामेन पूजयेत् ॥१३२॥
पाशाङ्कुशधरा ह्येता रक्ता रक्ताम्बरा वृताः । प्राणशुद्धिमयी सिद्धिर्लघिमा भोक्तुरात्मनः ॥१३३॥
त्रिपुरेशी च चक्रेशी पूज्या सर्वोपचारकैः । [कौलिकानुभवाविष्टभोगपुर्यष्टकाश्रिताः ॥१३४॥
वाग्भवाष्टकसम्बन्धसूक्ष्मा वर्गस्वरूपतः । तास्तु गुप्ततराः सर्वाः सर्वसंक्षोभणात्मके ॥१३५॥
अनङ्गकुसुमाद्यास्तु रक्तकञ्चुकशोभिताः ] [वेणीकृत लसत्केशाश्चापबाणधराः शुभाः ] ॥१३६॥
तत्तदाजारबुद्ध्यात्मबोग्यभोक्तुर्महेशितुः । पिण्डादिपदविश्रान्तिसौन्दर्यगुणसंयुता ॥१३७॥
चक्रेश्वरी बुद्धिशुद्धिरूपा च परमेश्वरी । महिमासिद्धिरूपा तु पूज्या सर्वोपचारकैः ॥१३८॥
द्वादशग्रन्थिभेदेन समुल्लसितसंविदः । विसर्गान्तदशवेशाच्छाक्तानुभवपूर्वकम् ॥१३९॥
उन्मेषषक्तिप्रसरैइरिच्छाशक्तिप्रधानकैः । तदेवाऽकुलसङ्घट्टरूपैर्वर्णचतुष्टयैः ॥१४०॥
वेद्योष्मरूपसावर्णैर्मिश्रेच्छाभावितैरपि । कुलशक्तिसमावेशरूपवर्णद्वयान्वितैः ॥१४१॥
शक्तेः सारमयत्वेन प्रसृतत्वान्महेश्वरि । स, प्रदायक्रमायाताश्चक्रे सौभाग्यदायके ॥१४२॥
निरन्तरओरधा रूपसौभाग्यं कलयोगतः । अन्तर्थसंज्ञिके देवि अणिमासदृशा: शुभाः ॥१४३॥
सर्वसङ्क्षोभिणीपूर्वा देहाक्षादिविशुद्धिदाः । ईशित्वसिद्धिरपि च प्रोतरूपे पुरत्रये ॥१४४॥
योगादिक्लेशभेदेन सिद्धा त्रिपुरवासिनीइ। एताः सम्पूजयेद देवि सर्वाः सर्वोपचारकैः ॥१४५॥
सदातनाना नादानां नवरन्ध्रस्थितात्मनाम् । महासामान्यरूपेण व्यावृत्तध्वनिरूपिणीइ ॥१४६॥
अस्थिरस्थिरवेद्यानां छायारूपैर्दशार्णकैः । कुलकौलिकयोगिन्यः सर्व्सिद्धिप्रदायिकाः ॥१४७॥
श्वेताम्ब्रधराः श्वेताः श्वेताभरणभूषिताः । मन्त्राणां स्वप्रधारूपयोगादन्वर्थसंज्ञ्के ॥१४८॥
सर्वसिद्धिप्रदाद्यास्तु चक्रे सर्वर्थसाधके । लोकत्रयसमृद्धीनां हेतुत्वाच्चक्रनायिका ॥१४९॥
त्रिपुरा श्रीर्महेशानि मन्त्रशुद्धिभवा पुनः । वशित्वसिद्धिराख्याता एताः सर्वाख़ समर्चयेत् ॥१५०॥
ऊर्ध्वाधोमुखया देवि कुण्डलिन्या प्रकाशिताः । कुलेच्छया बहिर्भावात् कादिवर्णप्रथामयी ॥१५१॥
निगर्भयोगिनीवाच्याः स्वरूपावेशरूपके । सर्वावेशकर चक्रे सर्वरक्षाकरे पराः ॥१५२॥
सर्वज्ञाद्याः स्थिता एताः सह पुस्ताक्षमालिकाः । मातृमानप्रमेयाणां पुराणां परिपोषिणी ॥१५३॥
त्रिपुरामालिनी ख्याता चक्रेशी त्रिपुरमोहिनी । निरूद्धवायुसङ्घट्टस्फटितग्रन्थिमूलतः ॥१५४॥
हृदयान्तरसंवित्तिशून्यपर्यष्टकात्मना । बीजरूपस्वरकलास्पृष्टवर्गानुसारतः ॥१५५॥
रह्स्ययोगिनीर्देवीः संसारदलनोज्ज्वले । सर्वरोगहरे चक्रे संस्थिता वीरवन्दिते ॥१५६॥
वशिन्याद्या रक्तवर्णा वरदाभयमुद्रिताः । पुस्तकं जपमालां च दधानाः सिद्धयोगिनीः ॥१५७॥
शुद्धिविद्याविशुद्धिं च भुक्तिसिद्धिं महेश्वरि । ईश्वरीं त्रिपुरां सिद्धां पूजयेद बिन्दुतर्पणैः ॥१५८॥
शक्तित्रयात्मिका देवि चिद्धामप्रसराः पुनाः । संवर्ताग्निकलारूपाः परमातिरहस्यकाः ॥१५९॥
पूर्णापुर्णस्वरूपायाः सिद्धेर्हेतुः सुरेश्वरि । सर्वासिद्धिमयाख्ये तु चक्रे त्वायुधभूषिताः ॥१६०॥
स्थिताः कामेश्वरीपूर्वाश्चतस्त्रः पीठदेवताः । आयुधास्त्वतिरक्ताभाः स्वायुधोज्ज्वलमस्तकाः ॥१६१॥
वरदाभयहस्ताश्च्च पूज्या व्रतफलप्रदाः । त्वदीयाश्च मदीयाश्च पुंस्त्रिवश्यविधायिनः ॥१६२॥
त्वगसृङ्मांसमेदोस्थिशुक्लानां च महेश्वरि । द्वितीयस्वरसंयुक्ता एते बाणास्त्वदीयकाः ॥१६३॥
वामादीनां पुराणां तु जननी त्रिपुर्म्बिका । परस्वातन्त्र्यरूपत्वादिच्छासिद्धिर्महेश्वरि ॥१६४॥
एताः सर्वोपचारेण पूजयेत्तु वरानने । सर्वानन्दमये देवि परब्रह्मात्मके परे ॥१६५॥
चक्रे संवित्तिरूपा च महात्रिपुरसुन्दरी । स्वैराचारेण सम्पूज्या त्वहन्तेदन्तयोः सम ॥१६६॥
महाकामकलारूपा पीठविद्यादिसिद्धिदा । महामुद्रामयी देवि पूज्या पञ्चदशात्मिका ॥१६७॥
तत्तत्तिथिमयी नित्या नवमी भैरवी परा । प्रतिचक्रं समुद्रास्तु चक्रसङ्केतचोदिताः ॥१६८॥
नित्यक्लिन्न्नादिकाश्चैव काम्यकर्मानुसारतः । चतुरस्रान्तराले वा त्रिकोणे वा यजेत् सुधीः ॥१६९॥
अलिना पिशितैर्गन्धैर्धूपैराराध्य देवताः । चक्रपूजां विधाएत्थं कुलदीपं निवेदयेत् ॥१७०॥
अन्तर्बहिर्भासमानं स्वप्रकाशोज्ज्वलं प्रिये । पुष्पाञ्जलिं ततः कृत्वा जपं कुर्यात् समाहितः ॥१७१॥
कूटत्रये महादेवि कुण्डलीत्रितयेऽपि च । चक्राणां पूर्वपूर्वेषां नादरूपेण योजिताम् ॥१७२॥
तेषु प्राणाग्निमायार्णकलाबिन्द्वर्धचन्द्रिकाः । रोधिनीनादनादान्ताः शक्तिव्यापिकलान्विताः ॥१७३॥
समना चोन्मना चेति द्वादशन्ते स्थिताः प्रिये । मूलकुण्डलिनीरूपे मध्यमे च ततः पुनः ॥१७४॥
सृष्ट्युन्मुखे च विश्वस्य स्थितिरूपे महेश्वरि । केवलं नादरूपेण उत्तरोत्तरयोजितम् ॥१७५॥
शबलाकारके देवि तृतीये द्वादशी कला । शून्यषट्कं तथा देवि ह्यवस्थापञ्चकं पुनः ॥१७६॥
विषुवं सप्तरूपं च भावयन् मनसा जपेत् । अग्न्यादिद्वादशान्तेषु त्रींस्त्रीन् त्यक्त्वा वरानने ॥१७७॥
शून्यत्रयं विजानीयादेकैकान्तरतः प्रिये । [शुन्यत्रयात् परे स्थाने महाशून्यं विभावयेत् ] प्रबोध करणस्याऽथ जागरत्वेन भावनम् ॥१७८॥
वह्नौ देवि महाजाग्रदवस्था त्विन्द्रियद्वयैः । आन्तरैः करणैरेव स्वप्नमायावबोधकः ॥१७९॥
गलदेशे सुषुप्तिस्तु लीनपूर्वस्य वेदनम् । अन्तःकरणवृओत्तीनां लयतो विषयस्य तु ॥१८०॥
पूर्वार्णानां विलोमेन भ्रूमध्ये बिन्दुसंस्थिता । तुर्यरूपं तथा चात्र वृत्तार्धादेस्तु सङ्ग्रहः ॥१८१॥
चैतन्यव्यक्तिहेतोस्तु नादरूपस्य वेदनम् । तुर्यातीतं सुखस्थानं नादान्तादिस्थितं प्रिये ॥१८२॥
अत्रैव जपकाले तु पञ्चावस्थाः स्मरेद बुधः । योगः प्राणात्ममनसां विषुवं प्राणसंज्ञितम् ॥१८३॥
आधारित्थितनादे तु लीनं बुद्ध्यात्मरूपकम् । संयोगेन वियोगेन मन्त्रार्णानां महेश्वरि ॥१८४॥
अनहताद्याधारान्तं नादात्मत्वविचिन्तनम् । नादसंस्पर्शनात्तस्य नाडीविषुवमुच्यते ॥१८५॥
द्वादशग्रन्थिभेदेन वर्णानामन्तरे प्रिये । नादयोगः प्रशान्तं तु प्रशान्तेन्द्रियगोचरम् ॥१८६॥
वह्निं मायां कलां चैव चेतनामर्धचन्द्रकम् । रोधिनीनादनादान्तान् शक्तौ लीनान् विभावयेत् ॥१८७॥
विषुवं शक्तिसंज्ञं तु तदुर्ध्वं नादचिन्तनम् । तदुर्ध्वं कालविषुवमुन्मनान्तं महेश्वरि ॥१८८॥
मुनिचन्द्राऽष्टदशभिस्त्रुटिभिर्नादवेदनम् । चैतन्यव्यक्तिहेतुश्च विषुवं तत्त्वसंज्ञितम् ॥१८९॥
परं स्थानं महादेवि निसर्गानन्दसुन्दरम् । एवं चितयमानस्य जपकालेषु पार्वति ॥१९०॥
सिद्धयः सकलास्तूर्णां सिद्ध्यन्ति त्वत्प्रसादतः । एवं कृत्वा जपं देव्या वामहस्ते निवेदयेत् ॥१९१॥
अनामाङ्गुष्ठयोगेन तर्पयेच्चक्रदेवताः । मद्यं मांसं तथा मत्स्यं देव्यास्तु विनिवेदयेत् ॥१९२॥
कौलाचारसमायुक्तैर्विरैर्स्तु सह पूजयेत् । पुष्यभेन तु वारे च सौरे च परमेश्वरि ॥१९३॥
गुरोर्दिने स्वनक्षत्रे चतुर्दश्यष्टमीषु च । चक्रपूजां विशेषेण योगिनीनां समाचरेत् ॥१९४॥
चतुःषष्टियुताः कोट्यो योगिनीनां महौजसाम् । चक्रमेतत् समाश्रित्य संस्थिता वीरवन्दिते ॥१९५॥
अष्टाष्टकं तु कर्तव्यं वित्तशाठ्यविवर्जितम् । त्वमेव तासां रूपेण क्रीडसे विश्वमोहिनी ॥१९६॥
अज्ञात्व तु कुलाचारमयष्ट्वा गुरुपादुकाम् । योऽस्मिन् शास्त्रे प्र्वर्तेत तं त्वं पीडयसि ध्रुवम् ॥१९७॥
एवं ज्ञात्वा वरारोहे कौलाचारपरः सदा । आवयोः शबलाकारं मद्यं तत्र निवेद्य च ॥१९८॥
त्वत्प्रधा प्रसराकारास्त्वामेव परिभावयेत् । वामिच्छाविग्रहां देवीं गुरुरूपां विभावयेत् ॥१९९॥
त्वन्मयस्य गुरोः शेषं निवेद्यात्मनि योजयेत् । योगिनीनां महादेवि बटुकायात्मरूपिणे ॥२००॥
क्षेत्राणां पतये मद्यं बलिं कुर्वित हेतुना । नित्यं पिबन् वमन् खादन् स्वेच्छाचारपरः स्वयम् ॥२०१॥
अहन्तेदन्तयोरौक्यं भावयन् विहरेत् सुखम् । एतत्ते कथितं सर्वं सङ्केतत्रयमुत्तमम् ॥२०२॥
गोपनीयं प्रयत्नेन स्वगुह्यमिव सुव्रते । चुम्बके ज्ञानलुब्धे च न प्रकाश्यं त्वयानघे ॥२०३॥
अन्यायेन न दातव्यं नास्तिकानां महेश्वरि । एवं त्वयाऽहमाज्ञप्तो मदिच्छारूपया प्रभो ॥२०४॥
अज्ञानेन तु यो दद्यात् स परेतो भविष्यति । सङ्केतं यो विजानाति योगिनीनां भवेत्प्रियः ॥२०५॥
सर्वेप्सितफलावाप्तिः सर्वकामफलाश्रयः । यतोऽपि दृश्यते देवि कथं विद्वान्न चिन्तयेत् ॥२०६॥
इति योगिनीहृदयम् स्तोत्रम्
Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-07-12T02:49:04.0170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

post-ovulatory

  • डिंबोत्सर्गोत्तर 
  • डिंबोत्सर्गाएत्तर 
RANDOM WORD

Did you know?

Are we transliterating everything? Do we copy that from some other websites?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.