योगी

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


कृतार्थौ पितरौ तेन धन्यो देशः कुलं च तत् ।

जायते योगवान् यत्र दत्तमक्षयतां व्रजेत् ॥१४॥

भेदाभेदौ सपदि गलितौ पुण्यपापे विशीर्णे

मायामोहौ क्षयमुपगतौ नष्टसन्देहवृत्तेः ।

शब्दातीतं त्रिगुणरहितं प्राप्य तत्त्वावबोधं

निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥१५॥

कस्मात्कोऽहंकिमपि च भवान् कोऽयमत्र प्रपञ्चः

स्वं स्वं वेद्यं गगनसदृशं पूर्णतत्त्वप्रकाशम् ।

आनन्दाख्यं समरसवने बाह्यमन्त्रैर्विहीने

निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः ॥१६॥

धैर्यं यस्य पिता क्षमा च जननी शान्तिश्‍चिरं गेहिनी

सत्यं सू नुरयं दया च भगिनी भ्राता मनः संयमः ।

शय्या भूमितलं दिशोऽपि वसनं ज्ञानामृतं भोजन-

मेते यस्य कुटुम्बिनो वद सखे कस्माद्भयं योगिनः ॥१७॥

N/A

References : N/A
Last Updated : March 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP