स्त्रीधर्माः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


बाल्ये पितुर्वशे तिष्ठेत्पाणिग्राहस्य यौवने ।

पुत्राणां भर्तरि प्रेते न भजेत्स्त्री स्वतन्त्रताम् ॥३९॥

सदा प्रहृष्टया भाव्यं गृहकार्येषु दक्षया ।

सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ॥४०॥

नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम् ।

पतिं शुश्रूषते येन तेन स्वर्गे महीयते ॥४१॥

अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत् ।

शौचे धर्मेऽन्नपक्‍त्यां च परिणाह्यस्य वेक्षणे ॥४२॥

पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम् ।

स्वप्नोऽन्यगेहवासश्च नारीणां दूषणानि षट् ॥४३॥

चलन्ति तारारविचन्द्रमण्डलं चलेच्च मेरुर्विचलेच्च मन्दरम् ।

कदापि काले पृथिवी चलेच्च वै चलेन्न धर्मः सुजनस्य वाक्यम् ॥४४॥

अनित्यानि शरीराणि विभवो नैव शाश्वतः ।

नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसंग्रहः ॥४५॥

N/A

References : N/A
Last Updated : March 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP