मराठी मुख्य सूची|विधी|पूजा विधी|दत्त उपासना|
प्रातःस्मरण

प्रातःस्मरण

दत्तात्रेय पूर्ण अवतार असून, ब्रम्हा, विष्णू आणि महेश यांचे एकत्रीत रूप आहे.
Dattatrya is considered by some Hindus, to be god who is an incarnation of the Divine Trinity Brahma, Vishnu and Mahesh.


वक्रतुंड महाकाय कोटिसूर्यसमप्रभ ।

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥३॥

गणनाथसरस्वतीर्विशुक्रबृहस्पतीन् ।

पंचैतानि स्मरेन्नित्यं वेदवाणीप्रवृत्तये ॥४॥

विनायकं गुरुं भानुं ब्रह्माविष्णुमहेश्वरान् ।

सरस्वतिं प्रणम्यादौ सर्वकार्यार्थसिद्धये ॥५॥

अभीप्सितार्थसिद्धयर्थ पूजितो यः सुरासुरैः ।

सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥६॥

सर्वेष्वारब्धकार्येषु त्रयस्तिभुवनेश्वराः ।

देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ॥७॥

यो देवः सवितास्माकं धियो धर्मादिगोचरे ।

प्रेरयेत्तस्य तद्भर्गस्तद् वरेण्यम् उपास्महे ॥८॥

शांताकारं भुजयशयनं पद्मनाभं सुरेशं ।

विश्वाधारं गगनसदृशं मेघवर्ण शुभांगम्

लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं

वंदे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥९॥

मूकं करोति वाचालं पंगु लंघयते गिरिम् ।

यत्कृपा तमहं वंदे परमानंदमाधवम् ॥१०॥

गुरुर्ब्रह्मा गुरुर्विष्णु र्गुरुर्देवो महेश्वरः ।

गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥११॥

ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्ति

द्वंद्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।

एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं

भावातीतं त्रिगुणरहितं सद्‌गुरुं तं नमामि ॥१२॥

पुण्यश्‍लोको नलो राजा पुण्यश्‍लोको युधिष्ठिरः ।

पुण्यश्‍लोको विदेहश्च पुण्यश्‍लोको जनार्दनः ॥१३॥

कर्कोटकस्य नागस्य दमयन्त्या नलस्य च ।

ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् ॥१४॥

अश्वत्थामा बलिर्व्यासो हनूमांश्च बिभीषणः ।

कृपः परशुरामश्च सप्तैते चिरजीविनः ॥१५॥

बलिर्बिभीषणो भीष्मः प्रहलादो नारदो ध्रुवः ।

षडैते वैष्णवास्तेषां स्मरणं पापनाशनम् ॥१६॥

अहल्या द्रौपदी सीता तारा मंदोदरी तथा ।

पंचकं ना स्मरेन्नित्यं महापातकनाशनम्॥१७॥

अयोध्या मथुरा माया काशी कांची अवंतिका ।

पुरी द्वारावती चैव सप्तैता मोक्षदायिकाः ॥१८॥

अर्जुनः फाल्गुनो विष्णुः किरीटी श्‍वेतवाहनः ।

बीभत्सुर्विजयः कृष्णः सव्यसाची धनंजयः ॥१९॥

ब्रह्मामुरारिस्त्रिपुरांतकारी भानुःशशी भूमिसुतो बुधश्च ।

गुरुश्चशुक्रःशनिराहुकेतवः कुर्वन्तु सर्वे मम सुप्रभातम् ॥२०॥

जले रक्षतु वाराहः स्थले रक्षतु वामनः ।

अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥२१॥

लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।

येषामिंदीवरश्यामो हृदयस्थो जनार्दनः ॥२२॥

सर्वदा सर्वकार्येषु नास्ति तेषाममंगलम् ।

येषां हृदिस्थो भगवान् मंगलायतनं हरिः ॥२३॥

न वासुदेवभक्तानामशुभं विद्यते क्वचित् ।

जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥२४॥

आदौ रामतपोअवनादिगमनं हत्त्वा मृगं कांचनम्

वैदेहीहरणं जटायुमरणं सुग्रीवसंभाषणम् ।
वालीनिग्रहणं समुद्रतरणं लंकापुरीदाहनम्

पश्चाद् रावणकुंभकर्णहननम् एतद्धि रामायणम् ॥२५॥

आदौ देवकिदेवगर्भजननं गोपीगृहे वर्धनम्

मायापूतनजीवितापहरणं गोवर्धनोद्धारणम् ।

कंसच्छेदनकौरवादिहननं कुंतीसुतःपालनं

एतद् भागवतं पुराणकथितं श्रीकृष्णलीलामृतम् ॥२६॥

आदावत्रि वरप्रदानमनसूयातो जनिर्बालक --

क्रीडार्थ हृदमज्जनं वरवधूलीलार्जुनानुग्रहः ।

रामाचार्यकसाध्यपिंगलयदुप्रह्लादबोधे तथा --

लर्कायुर्वरदानमित्यवगतं श्रीदत्तलीलामृतम् ॥२७॥

श्रीरामा पुरुषोत्तमा नरहरे नारायणा केशवा

गोविंदा गरुडध्वजा गुणनिधे दामोदरा माधवा ।

श्रीकृष्णा कमलापते यदुपते सीतापते श्रीपते

वैकुंठाधिपते चराचरपते लक्ष्मीपते पाहि माम् ॥२८॥

रामाय रामभद्राय रामचंद्राय वेधसे ।

रघुनाथाय नाथाय सीतायाः पतये नमः ॥२९॥

उत्तिष्ठोत्तिष्ठ गोविंद उत्तिष्ठ गरुडध्वज

उत्तिष्ठ कमलाकांत त्रैलोक्यं मंगलं कुरु ॥३०॥

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।

जगद्धिताय कृष्णाय गोविंदाय नमो नमः ॥३१॥

आकाशात्‌ पतितं तोयं यथा गच्छति सागरं ।

सर्वदेवनमस्कारः केशवं प्रति गच्छति ॥३२॥

कृष्णाय वासुदेवाय हरये परमात्मने ।

प्रणतक्लेशनाशाय गोविंदाय नमो नमः ॥३३॥

वसुदेवसुतं देवं कंसचाणूरमर्दनम्

देवकीपरमानन्दं कृष्णं वन्दे जगद्‌गुरुम् ॥३४॥

मंगलं भगवान्विष्णुर्मंगलं गरुडध्वजः ।

मंगलं पुण्डरीकाक्षो मंगलायतनं हरिः ॥३५॥

N/A

References : N/A
Last Updated : March 11, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP