संक्षिप्त पुण्याहवाचन

ईश्वरोन्मुख होनेके बाद मनुष्यको परमात्माके वास्तविक तत्वक परिज्ञान होने लगता है और फिर वह सदा सर्वदाके लिये जीवमुक्त हो जाता है, इसीलिये सारे कर्म शास्त्रकी आज्ञाके अनुसार होने चाहिये ।


संक्षिप्त पुण्याहवाचन

यजमान-

ब्राह्मं पुण्यं महर्यच्च सृष्ट्युत्पादनकारकम् ।

वेदवृक्षोद्भवं नित्यं तत्पुण्याहं ब्रवन्तु नः ॥

भो ब्राह्मणाः मम सकुटुम्बस्य सपरिवारस्य गृहे अमुककर्मणः पुण्याहं भवन्तो ब्रुवन्तु ।

ब्राह्मण -

ॐ पुण्याहम्, ॐ पुण्याहम्, ॐ पुण्याहम् ।

ॐ पुनन्तु मा देवजनाः पुनन्तु मनसा धियः ।

पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा ॥

यजमान-

पृथिव्यामुद्धृतायां तु यत्कल्याणं पुरा कृतम् ।

ऋषिभिः सिद्धगन्धर्वैस्तत्कल्याणं ब्रुवन्तु नः ॥

भो ब्राह्मणाः मम सकुटुम्बस्य सपरिवारस्य गृहे अमुककर्मणः कल्याणं भवन्तो ब्रुवन्तु ।

ब्राह्मण -

ॐ कल्याणम्, ॐ कल्याणम्, ॐ कल्याणम् ।

ॐ यथेमां वाचं कल्याणीमावदानि जनेभ्यः ।

ब्रह्मराजन्याभ्या शूद्राय चार्याय च स्वाय चारणाय च ।

प्रियो देवानां दक्षिणायै दातुरिह भूयासमयं मे कामः समृद्ध्यतामुप मादो नमतु ।

यजमान -

सागरस्य तु या ऋद्धिर्महालक्ष्म्यादिभिः कृताः ।

सम्पूर्णा सुप्रभावा च तां च ऋद्धिं बुवन्तु नः ॥

भो ब्राह्मणाः मम सकुटुम्बस्य सपरिवारस्य गृहे अमुककर्मणः ऋद्धिं भवन्तो ब्रुवन्तु ।

ब्राह्मण -

ॐ कर्म ऋद्ध्यताम्, ॐ कर्म ऋद्ध्यताम्, ॐ कर्म ऋद्ध्यताम् ।

ॐ सत्रस्य ऋद्धिरस्यगन्म ज्योतिरमृता अभूम । दिवं पृथिव्याम् अध्याऽरुहामाविदाम देवान्त्स्वर्ज्योतिः ॥

यजमान -

स्वस्तिस्तु याऽविनाशाख्या पुण्यकल्याणवृद्धिदा ।

विनायकप्रिया नित्यं तां च स्वस्तिं ब्रुवन्तु नः ॥

भो ब्राह्मणाः मम सकुटुम्बस्य सपरिवारस्य गृहे अमुककर्मणे स्वस्ति भवन्तो ब्रुवन्तु ।

ब्राह्मण -

ॐ आयुष्मते स्वस्ति, ॐ आयुष्मते स्वस्ति, ॐ आयुष्मते स्वस्ति,

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्‍ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।

यजमान -

ॐ मृकण्डुसूनोरायुर्यद् ध्रुवलोमशयोस्तथा ।

आयुषा तेन संयुक्ता जीवेम शरदः शतम् ॥

ब्राह्मण -

जीवन्तु भवन्तः, जीवन्तु भवन्तः, जीवन्तु भवन्तः,

ॐ शतमिन्नु शरदो अन्ति देवा यत्रा नश्‍चक्रा जरसं तनूनाम् ।

पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥

यजमान -

समुद्रमथनाज्जाता जगदानन्दकारिका ।

हरिप्रिया च माङ्गल्या तां श्रियं च ब्रुवन्तु नः ॥

शिवगौरीविवाहे तु या श्रीरामे नृपात्मजे ।

धनदस्य गृहे या श्रीरस्माकं सास्तु सद्मनि ॥

ब्राह्मण-

अस्तु श्रीः, अस्तु श्रीः, अस्तु श्रीः ।

ॐ मनसः काममाकूतिं वाचः सत्यमशीय ।

पशूना रूपमन्नस्य रसो यशः श्रीः श्रयतां मयि स्वाहा ॥

यजमान -

प्रजापतिर्लोकपालो धाता ब्रह्मा च देवराट् ।

भगवाञ्छाश्‍वतो नित्यं नो वै रक्षतु सर्वतः ॥

योऽसौ प्रजापतिः पूर्वे यः करे पद्मसम्भवः ।

पद्मा वै सर्वलोकानां तन्नोऽस्तु प्रजापते ॥

-पश्चात हाथमें जल लेकर छोड़ दे और कहे-

भगवान प्रजापतिः प्रीयताम् ।

ब्राह्मण -

ॐ प्रजापते न त्वदेतान्यन्यो विश्‍वा रूपाणि परि ता बभूव ।

यत्कामास्ते जुहुमस्तन्नो अस्तुत्वयममुष्य पितासावस्य पिता वय स्याम पतयो रयीणाम् स्वाहा ॥

आयुष्मते स्वस्तिमते यजमानाय दाशुषे ।

कृताः सर्वाशिषः सन्तु ऋत्विग्भिर्वेदपारगैः ॥

या स्वस्तिर्ब्रह्मणो भूता या च देवे व्यवथिता ।

धर्मराजस्य या पत्नी स्वस्तिः शान्ति सदा तव ॥

देवेन्द्रस्य यथा स्वस्तिर्यथा स्वस्तिर्गुरोर्गृहे ।

एकलिंगे यथा स्वस्तिस्तथा स्वस्तिः सदा तव ॥

ॐ आयुष्मते स्वस्ति, ॐ आयुष्मते स्वस्ति, ॐ आयुष्मते स्वस्ति,

पुम प्रति पन्थामपद्महि स्वस्तिगामनेहसम् ।

येनविश्वाः परि द्विषो वृणक्ति विन्दते वसु ।

पुण्याहवाचनकर्मणः समृद्धिरस्तु ।

N/A

References : N/A
Last Updated : December 29, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP