श्री सत्यदत्तव्रत पूजा प्रारम्भः

योगीश्वर श्रीदत्तप्रभूंचे श्रेष्‍ठ व पापनाशक असे माहात्म्य, श्रीसत्यदत्तव्रतातून व्यक्त होणारे असून मनुष्यांना तात्काळ सिद्धी देणारे आहे.


॥श्रीगुरुःशरणम्‌॥

श्रीगणेशाय नमः।

आचम्य । प्राणानायम्य । व्रती प्रातः तिलामलककल्केन स्नात्वा ।

सङ्कल्प्य । कृतोपोषणः सायं पुनः स्नात्वा वाससी परिधाय गोमयोपलिप्ते

रङ्गवल्लयादिरञ्जिते प्रदेशे कल्पितं शुभं पूजास्थानं आगत्य सम्भृतपूजासम्भारः

आसने उपविश्य आचम्य प्राणानायम्य कृतदेवगुर्वादिवन्दनः पुनः स्वासने

उपविश्य । आचम्य पवित्रं धृत्वा प्राणानायम्य ॥

श्रीमन्महागणाधिपतये नमः । लक्ष्मीनारायणाभ्यां नमः । उमामहेश्वराभ्यां नमः ।

शचीपुरन्दराभ्यां नमः । मातापितृभ्यां नमः । इष्‍टदेवताभ्यो नमः ।

कुलदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः । स्थानदेवताभ्यो नमः ।

वास्तुदेवताभ्यो नमः । आदित्यादिनवग्रहदेवताभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः ।

सर्वेभ्यो ब्राह्मणेभ्यो नमो नमः । एतत्कर्मप्रधानदेवताभ्यो नमः । अविघ्नमस्तु ।

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ।

धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः । द्वादशैतानि नामानि यः पठेच्छृणुयादपि ।

विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । संग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ।

शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ।

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोस्तु ते ।

सर्वदा सर्वकार्येषु नास्ति तेषाममङगलम् । येषां ह्रुदिस्थो भगवान् मङ्गलायतनं हरिः ।

तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव । विद्याबलं दैवबलं तदेव लक्ष्मीपते तेंऽघ्रियुगं स्मरामि ।

लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः । येषामिन्दीवरश्यामो ह्रदयस्थो जनार्दनः ॥

विनायकं गुरुं भानुं ब्रह्मविष्णुमहेश्वरान् । सरस्वतीं प्रणौम्यादौ सर्वकार्यार्थसिद्धये ॥

अभीप्सितार्थसिद्धयर्थं पूजितो यः सुरासुरैः । सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥

सर्वेष्वारब्धकार्येषु त्रयस्त्रिभुवनेश्वराः । देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ॥

श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणो द्वितीये परार्धे

श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे कलियुगे प्रथमचरणे भरतवर्षे भरतखण्डे

जम्बूद्वीपे दण्डकारण्ये देशे गोदावर्याः दक्षिणे तीरे (वा उत्तरे तीरे) शालिवाहनशके

बौद्धावतारे रामक्षेत्रे अस्मिन् वर्तमाने (अमुक) नाम संवत्सरे (अमुक) अयने (अमुक)

ऋतौ (अमुक) मासे (अमुक) पक्षे (अमुक) तिथौ (अमुक) वासरे (अमुक) दिननक्षत्रे (अमुक)

स्थिते वर्तमाने चन्द्रे (अमुक) स्थिते श्रीसूर्ये (अमुक) स्थिते देवगुरौ शेषेषु ग्रहेषु यथायथं

राशिस्थानस्थितेषु सत्सुएवंगुणविशेषेणविशिष्‍टायां शुभपुण्यतिथौ मम आत्मनः

श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं मम समस्तसम्भावितदुरितोपशमपूर्वकसकलमनोरथसिद्धयर्थं

यथामिलितोपचारद्रव्यैः श्रीसत्यदत्तस्यसाङ्गस्य सपरिवारस्य पूजनं करिष्ये ।

तत्रादौ निर्विघ्नतासिध्यर्थं गणपतिपूजनं शरीरशुद्धयर्थं षडङ्गन्यासांश्च

कलशशङ्खघण्टापूजनं च करिष्ये । इति सङ्कल्प्य ।

(अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ।)

(ततः पीठे) - ॐगणानां त्वा शौनको गृत्समदो गणपतिर्जगती । गणपत्यावाहने विनियोगः ॥

ॐगणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रबस्तमं ।

ज्येष्‍ठराजं ब्रह्मणांब्रह्मणस्पत आनः शृण्वन्नूतिभिः सीद सादनं ॥

श्रीऋद्धिबुद्धिसिद्धिसहितं साङंग सपरिवारं सायुधं सशक्तिकं गणपतिं अस्मिन् पूगीफले

ॐ भूर्भुवःस्वर्महागणपतये नमः आवाहयामि । आसनार्थे अक्षतान् समर्पयामि ।

पादयोः पाद्यं समर्पयामि ॥ हस्तयोः अर्घ्यं समर्पयामि ॥ आचमनीयं समर्पयामि ॥

स्नानीयं समर्पयामि ॥ स्नानान्तरं आचमनीयं समर्पयामि ॥

पयोदधिघृतमधुशर्करास्नानं (पयआदिपञ्चामृतस्नानं ) समर्पयामि ॥

शुद्धोदकस्नानं समर्पयामि ॥ स्नानानन्तर आचमनीयं समर्पयामि ॥

सुप्रतिष्‍ठितमस्तु ॥ वस्त्रोपवस्त्रं समर्पयामि ॥ वस्त्रानन्तरं आचमनीयं समर्पयामि ॥

यज्ञोपवितं समर्पयामि ॥ यज्ञोपवीतानन्तरं आचमनीयं समर्पयामि ॥

विलेपनार्थे चन्दनं समर्पयामि ॥ अलङ्कारार्थे अक्षतान् समर्पयामि ॥

ऋद्धयै नमः । सिद्धयै नमः । हरिद्रां कुंकुमं च सौभाग्यद्रव्याणि समर्पयामि ॥

सिन्दूरं नानापरिमलद्रव्याणि च समर्पयामि ॥ ऋतुकालोद्भवपुष्पाणि दूर्वाङ्कुरांश्च समर्पयामि ॥

धूपं समर्पयामि ॥ दीपं दर्शयामि ॥ नैवेद्यं समर्पयामि ॥ परिषिञ्चामि ।

अमृतोपस्तरणमसि स्वाहा । ॐप्राणाय स्वाहा । ॐअपनाय स्वाहा ॥

ॐव्यानाय स्वाहा ॥ ॐउदानाय स्वाहा ॥ ॐसमानाय स्वाहा ॥ ॐब्रह्मणे स्वाहा ॥

मध्ये प्राशनार्थे पानीयं समर्पयामि ॥ उत्तरापोशनं समर्पयामि ॥ हस्तप्रक्षालनं समर्पयामि ॥

मुखप्रक्षालनं समर्पयामि ॥ करोद्वर्तनार्थे चन्दनं समर्पयामि ॥ आचमनीयं समर्पयामि ॥

मुखवासार्थे पूगीफलताम्बूलं समर्पयामि ॥ सुवर्णपुष्पार्थे दक्षिणां समर्पयामि ॥

फलानि समर्पयामि ॥ महामङ्गलनीराञ्‍जनदीपं समर्पयामि ॥ कर्पूरार्तिक्यदीपं समर्पयामि ॥

प्रदक्षिणां नमस्कारांश्च समर्पयामि ॥ ॐ निषुसीद गणपते गणेषुत्वामाहुर्विप्रतमं कवीनां ।

न ऋते त्वत्क्रियते किञ्चनारे महामर्कं मघवन्चित्रमर्चं । मन्त्रपुष्पाञ्जलिं समर्पयामि ।

नमस्कारं करोमि । वक्रतुन्ड महाकाय कोटिसूर्यसमप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

प्रार्थनां समर्पयामि ॥ अनया पूजया सकलविघ्नहर्ता महागणपतिः प्रीयताम् ।

पृथ्वीतिमन्त्रस्य मेरुपृष्‍ठऋषिः । कूर्मो देवता सुतलं छन्दः । आसने विनियोगः ॥

ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ॥ त्वं च धारय मां देवि पवित्रं कुरु चासनं ॥

ऊर्ध्वकेशि विरुपाक्षि मांसशोणितभक्षणे ॥ तिष्‍ठ देवि शिखाबन्धे चामुण्डे ह्यपराजिते ।

अपसर्पंतु वामदेवो भूतान्यनुष्‍टुप् ॥ भूतोत्सादने विनियोगः ॥

ॐअपसर्पंतु ते भूता ये भूता भूमिसंस्थिताः ॥ ये भूता विघ्नकर्तारस्ते गच्छन्तु शिवाज्ञया ॥

अपक्रामन्तु भूतानि पिशाचाः सर्वतोदिशं ॥ सर्वेषामविरोधेन पूजाकर्म समारभे ।

तीक्ष्णदंष्‍ट्र महाकाय कल्पान्तदहनोपम । भैरवाय नमस्तुभ्यं अनुज्ञां दातुमर्हसि ॥

इति भैरवं नमस्कृत्य ॥ समुद्रवसने देवि पर्वतस्तनमण्डिते ।

विष्णुपत्नी नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥ इति वामपादतलेन भूमिं त्रिःप्रहृत्य ॥

देवा आयान्तु ॥ यातुधाना अपयान्तु । विष्णो देवयजनं रक्षस्व ॥ भूमौ प्रादेशं कुर्यात् ॥

येभ्यो मातेत्यस्य गयःप्‍लातो विश्वेदेवा जगती ॥ एवापित्र इत्यस्य वामदेवो बृहस्पतिर्विश्वेदेवास्त्रिष्‍टुप् ॥

मनुष्यगन्धनिवारणे विनियोगः ॥ ॐयेभ्यो माता मधुमत्पिन्वते पयः पीयूषं द्यौरदितिरद्रिबर्हाः ॥

उक्थशुष्मान्वृषभरान्त्स्वप्रसस्ताँ आदित्यां अनुमदा स्वस्तये ॥ ॐएवापित्रे विश्वदेवायवृष्णे

यज्ञैर्विधेमनमसाहविर्भिः बृहस्पते सुप्रजावीरवन्तोवयंस्यामपतयोरयीणाम् ॥

षडङगन्यासांश्च करिष्ये ॥ ॐयत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।

मुखं किमस्य कौ बाहू का ऊरुपादा उच्येते ॥ ह्रदयाय नमः ॥

ॐब्राह्मणोस्य मुखमासीद्बाहू राजन्यः कृतः । ऊरु तदस्य यद्वैश्यः पद्‌भ्यां शूद्रो अजायत ॥

शिरसे स्वाहा ॥ ॐचन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।

मुखादिन्द्रश्चग्निश्च प्राणाद्वायुरजायत ॥ शिखायै वषट् ॥

ॐनाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत । पद्‌भ्यां भूमिर्दिशः श्रोत्रात्तथालोकाँ अकल्पयन् ॥

कवचाय हुं ॥ ॐसप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः ।

देवायद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुं ॥ नेत्रत्रयाय वौषट् ॥

ॐयज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यसन् ।

तेहनाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ अस्त्राय फट् ॥

ॐ भूर्भुवः स्वः इति दिग्बन्धः । कलशशङखघण्टार्चनं च करिष्ये ॥

कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः ॥ मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥

कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा । ऋगवेदोथ यजुर्वेदा सामवेदो ह्यथर्वणः ।

अङैगश्च सहिताः सर्वेकलशाम्बुसमाश्रिताः ॥ अत्र गायत्री सावित्री शान्तिपुष्‍टीकरी तथा ॥

आयान्तु देवपूजार्थं दुरितक्षयकारकाः ॥ गङेगच यमुने चैव गोदावरी सरस्वती ॥

नर्मदे सिन्धु कावेरी जलेऽस्मिन्सन्निधिं कुरु । कलशे गङगादितीर्थान्यावाहयामि ।

कलशदेवताभ्योनमः । सर्वोपचारार्थे गन्धाक्षतपुष्पं समर्पयामि ।

कलशे धेनुमुद्रां प्रदर्श्य ॥ प्रक्षालितं शङंख प्रणवेनापूर्य ॥

ॐ शङखादौ चन्द्रदैवत्यं कुक्षौ वरुणदेवता ॥ पृष्ठे प्रजापतिं विद्यदग्रे गङगासरस्वती ॥

त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया । शङेख तिष्‍ठन्ति विप्रेन्द्र तस्माच्छङंख प्रपूजयेत ॥

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ॥ निर्मितः सर्वदेवैश्च पाञ्चजन्य नमोस्तुते ते ॥

ॐपाञ्चजन्याय विद्महे । पावमानाय धीमहि ॥ तं नः शङखः प्रचोदयात् ॥

शङखदेवताभ्यो नमः ॥ सर्वोपचारार्थे चन्दनं पुष्पं समर्पयामि ॥

शङखमुद्रां प्रदर्श्य ॥ आगमार्थं तु देवानां गमनार्थं तु रक्षसां ।

कुर्वे घण्टारवं तत्र देवताह्वानलक्षणम् । घण्टायै नमः ॥

सर्वोपचारार्थे गन्धाक्षतपुष्पं समर्पयामि ॥ घण्टामुद्रां प्रदर्श्य ॥

ॐ दिवे दिवे सदृशीरन्यमर्धं कृष्णा असेधदपसद्मनोजाः ॥

अहंदासा वृषभो वस्त्रयन्तोदव्रजे वर्तिनं शम्बरं च ॥

दीपदेवताभ्यो नमः ॥ सर्वोपचारार्थे गन्धाक्षतपुष्पं समर्पयामि ॥

कलशशङखोदकेन, अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा ॥

यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥

इत्यात्मानं प्रोक्ष्य पूजाद्रव्याणि सम्प्रोक्षेत् ॥

सत्यदत्तव्रताङगत्वेन कलशस्थापनं पीठदेवतावाहनं पूजनं च करिष्ये ॥ ततः पीठे -

ॐमहीद्यौः पृथिवीचन इमंयज्ञंमिमिक्षतां ॥ पिपृतान्नोभरीमभिः ॥

इति भूमिं स्पृष्टवा ॥ ॐओषधयः संवदन्ते सोमेन सहराज्ञा ।

यस्मै कृणोति ब्राह्मणरस्तं राजन्पारयामसि ॥ इति तन्दुलराशिं कृत्वा ॥

ॐआकलशेषु धावति पवित्रे परिषिच्यते ॥ उक्थैर्यज्ञेषु वर्धते ॥

इति कलशं निधाय ॥ ॐ इमं मे गङेग यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्ण्‍या ॥

असिक्रया मरुद्वृधे वितस्तयार्जीकीयेशृणुह्या सुषोमया ॥ इति जलेन पूरयित्वा ॥

ॐगन्धद्वारां दुराधर्षां नित्यपुष्‍टां करीषिणीं ॥ ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रिये ॥

इति गन्धं प्रक्षिप्य ॥ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषः परि ॥
एवानो दूर्वे प्रतनु सहस्त्रेण शतेन च ॥ इति दूर्वाः ॥

ॐअश्वत्थेवो निषदनं पर्णेवो वसतिष्कृता ॥

गोभाजइत्किला सतयत्सनवथपूरुषं इति पञ्च पल्लवान् ॥

ॐयाः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः ॥

बृहस्पति प्रसूतास्तानो मुञ्चंत्वं हसः ॥ इति फलं ॥

ॐसहिरत्नानि दाशुषे सुवाति सविता भगः ॥ तं भागं चित्रमीमहे ॥

इति रत्नानि ॥ ॐ हिरण्यरुपः सहिरण्यसन्दृगपान्न्पात्सेदु हिरण्यवर्णः ॥

हिरण्ययात्परियोनेर्निषद्याहिरण्यदा ददत्यन्नमस्मै ॥ इति हिरण्यं ॥

ॐयुवासुवासाः परिवीत आगात्स उ श्रेयान्भवति जायमानः ॥

तं धीरासः कवय उन्नयन्ति स्वाध्यो ३ मनसा देवयन्तः ॥

इति सूत्रेण वस्त्रेण या वेष्‍टयित्वा ॥ ॐ पूर्णादर्वि परापत सुपूर्णा पुनरापत ॥

वस्त्रेव विक्रीणावहाइषमूर्जं शतक्रतो ॥ इति सतन्दूलपूर्णपात्रं निधाय ॥

तत्त्वायामि शुनःशेपो वरुणस्त्रिष्‍टुप् ॥ अस्मिन् कलशे वरुणावाहने विनियोगः ॥

ॐतत्त्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः ॥

अहेळमानो वरुणेह बोध्युरुशंसमान आयुः प्रमोषीः ॥

इति कलशे वरुणं साङंग सपरिवारं सायुधं सशक्तिकं आवाहयामि ॥

ॐभूर्भुवः स्वः वरुणाय नमः विलेपनार्थे चन्दनं समर्पयामि ॥

पञ्चोपचारैः सम्पूज्य ॥ पुनः तत्त्वायामि इति मन्त्रेण पुष्पाञ्जलिं समर्प्य ॥

अनेन पूजनेन वरुणः प्रीयतां । कलशस्य मुखे विष्णु० शान्तिः पुष्‍टिकरी तथा ॥

आयान्तु मम शान्त्यर्थं दुरितक्षयकारकाः ॥ सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः ॥

आयान्तु मम शान्त्यर्थं दुरितक्षयकारकाः ॥ कलशे अक्षतान् क्षिपेत् ॥

मातृदेवो भव ॥ पितृदेवो भव ॥ आचार्यदेवो भव ॥ अतिथीदेवो भव ॥

सर्वेभ्यो देवेभ्यो ब्राह्मणेभ्यो नमः ॥ मह्यं सकुटुम्बिने महाजनान्नमस्कुर्वाणाय

आशीर्वचनमपेक्षमाणाय अद्य करिष्यमाणश्रीसत्यदत्तव्रताख्यस्य कर्मणः पुण्याहं भवन्तो ब्रुवन्तु ॥

ॐ अस्तु पुण्याहं इति त्रिः ॥ मह्यं० श्रीसत्यदत्तव्रताख्याय कर्मणे स्वस्ति भवन्तो ब्रुवन्तु ॥

आयुष्मते स्वस्ति ॥ मह्यं० श्रीसत्यदत्तव्रताख्यस्य कर्मणः ऋद्धिं भवन्तो ब्रुवन्तु ॥
कर्म ऋध्यतां इति त्रिः ॥ ऋद्धिः समृद्धिः । मह्यं० कर्मणः श्रीरस्त्विति भवन्तो ब्रुवन्तु ॥

अस्तु श्रीः इति त्रिः ॥ मह्यं० कर्मणः कल्याणं भवन्तो ब्रुवन्तु ॥

अस्तु कल्याणं त्रिः मङगलानि भवन्तु ॥ वर्षशतं पूर्णमस्तु ॥

अमुकगोत्रस्याभिवृद्धिरस्तु ॥ श्रीदत्तः प्रीयतां ॥ पूर्णपात्रे तन्दुलोपरि मध्ये -

ॐ आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतंमर्त्यंच ॥

हिरण्ययेन सविता रथेनादेवो याति भुवनानी पश्यन् ॥

ॐभूर्भुवः स्वः सूर्याय नमः सूर्यं आवाहयामि ॥ आग्नेय्यां चन्द्रं ॥

ॐआप्यायस्व समेतु ते विश्वतः सोमवृष्ण्यं ॥ भवावाजस्य सङगथे ॥

ॐभूर्भुवः स्वः चन्द्राय नमः चन्द्रं आवाहयामि ॥ दक्षिणे भौमं ॥

ॐअग्निमूर्धा दिवः ककुत्पतिः पृथिव्या अयं ॥ अपां रेतांसि जिन्वति ॥

ॐभूर्भुवः स्वः भौमाय नमः भौमं आवाहयामि ॥ ऐशान्यां बुधं -

ॐ उद्बुध्यध्वं समनसः सखायः समिग्निमिंध्व बहवः सनीळाः ॥

दधिक्रामग्रिमुषसं च देवीमिन्द्रावतोवसे निह्वयेवः ॥

ॐभूर्भुवः स्वः बुधाय नमः बुधं आवाहयामि ॥ उत्तरे गुरुं-

ॐबृहस्पते अतियदर्यो अर्हाद्दयुमद्विभाति क्रतुमज्जनेषु ।

यद्दीदयच्छवस ऋत प्रजाततदस्मासु द्रविणं धेहि चित्रं ॥

ॐभूर्भुवः स्वः गुरवे नमः गुरुं आवाहयामि ॥ पूर्वे शुक्रं-

ॐशुक्रःशुशुक्वाँउषोनजारःपप्रासमीची दिवोनज्योतिः ॥

ॐभूर्भुवः स्वः शुक्राय नमः शुक्रं आवाहयामि ॥ पश्चिमे शनैश्चरं ॥

ॐशमाग्रिरग्रिभिः करच्छन्नस्तपतु सूर्यः । शं वातोवात्वरपा अपस्त्रिधः ॥

ॐ भूर्भुवः स्वः शनैश्वराय नमः शनैश्वरं आवाहयामि ॥ नैऋत्ये राहुं-ॐकयानश्चित्र

आभुवदूती सदावृधः सखा । कयाशचिष्‍ठयावृता ॥

ॐभूर्भुव स्वः राहवे नमः राहुं आवाहयामि ॥

वायव्ये केतुं-ॐकेतुं कृण्वन्नकेतवेपेशोमर्या अपेशसे ॥

समुषद्भिरजायथा ॥ ॐभूर्भुवः स्वः केतवे नमः केतु आवाहयामि ॥

पूर्वे इन्द्रं-ॐइन्द्रं वोविश्वतस्परिहवामहे जनेभ्यः ॥ अस्माकमस्तु केवलः ॥

ॐभूर्भुवः स्वः इन्द्राय नमः इन्द्रं आवाहयामि ॥ आग्नेय्यामग्निं ॥

ॐअग्निंदूतं वृणीमहे होतारं विश्ववेदसं ॥ अस्य यज्ञस्य सुक्रतुं ॥

ॐभूर्भुवः स्वः अग्नये नमः अग्निं आवाहयामि ॥ दक्षिणे यमं ॥

ॐयमाय सोमंसुनुत यमाय जुहुताहविः ॥ यमंहयज्ञोगच्छत्यग्निदूतो अरङकृतः ॥

ॐ भूर्भुवःस्वः यमाय नमः यमं आवाहयामि ॥ नैऋत्यां निऋतिं ॥

ॐमोषुणः परापरा निऋतिर्दुर्हणावधीत् ॥ पदीष्‍टतृष्णयासह ॥

ॐभूर्भुवः स्वः निऋतये नमः निऋतिं आवाहयामि ॥ पश्चिमे वरुणं ।

ॐतत्त्वायामि ब्रह्मणा वन्दमानस्त्दाशास्ते यजमानो हविर्भिः ॥

अहेळमानो वरुणेह बोध्युरुशंसमान आयुः प्रमोषीः ॥

ॐभूर्भुवः स्वः वरुणाय नमः वरुणं आवाहयामि ॥

वायव्यां वायुं-ॐ तव वायवृतस्पते त्वष्‍टुर्जामातरद्भुत ॥

आवांस्या वृणीमहे ॥ ॐ भूर्भुवः स्वः वायवे नमः वायुं आवाहयामि ॥

उत्तरे सोमं ॐसोमंधेनुंसोमोअर्बत माशुं सोमोवीरं कर्मण्यं ददाति ॥

सादन्यं विदथ्यं सभेयं पितृश्रवणं योददाशदस्मै ॥ ॐभूर्भुवः स्वः सोमाय नमः सोमं आवाहयामि ॥

ईशान्यामीशान्यं ॐतमीशानं जगतस्तस्थुषस्पतिं धियंजिन्वमवसेहूमहे वयं ॥

पूषानो यथावेद सामसद्बृधेरक्षिता पायुरदब्धः स्वसतये ॥

ॐभूर्भुवः स्वः ईशानाय नमः ईशानं आवाहयामि ॥

ततः पीठप्राग्द्वारे-ॐलक्ष्मीनारायणाभ्यां नमः लक्ष्मीनारायणौ आवाहयामि ॥

दक्षिणेद्वारे-ॐपार्वतीपरमेश्वराभ्यां नमः पार्वतीपरमेश्वरौ आवाहयामि ॥

पश्चिमद्वारे-ॐरतिकम्दर्पाभ्यां नमः रतिकन्दपौं आवाहयामि ॥

उत्तरद्वारे ॐभूवराहाभ्यां नमः भूवराहौ आवाहयामि ॥

इति एकविंशतिदेवतावाहनं ॥ ॐसूर्याद्यावाहितपीठदेवताभ्यो नमः

इति षोडशोपचारैः सम्पूज्य ॥ ततः पीठमध्ये - "ॐनमो भगवते दत्तात्रेयाय"

इति मंत्रेण सत्यदत्तं-यन्त्रे-मूर्तौ-गुरुपादुकासु शालिग्रामादिषु वा आवाहयेत् ॥
अथ ध्यानं । श्रीदत्तं खेचरीमुद्रामुद्रितं योगिसद्गुरुम् ॥

सिद्धासनस्थं ध्यायेऽभीवरप्रदकरं हरिं ॥ ॐभूर्भुवः स्वः नमो भगवते दत्तात्रेयाय

साङगाय सपरिवाराय नमः ध्यायामि ध्यानम् समर्पयामि ॥

ॐ सहस्त्रशीर्षा पुरुषः सहस्त्रपात् ॥ स भूमिं विश्वतो वृत्वात्यतिष्‍ठद्दशाङगुलं ॥

दत्तात्रेयाह्वयाम्यत्र परिवारैः सहार्चने । श्रद्धाभक्तयेश्वरागच्छ ध्यातधाम्नाञ्जसा विभो ॥

ॐ नमो भगवते दत्तात्रेयाय साङगाय सपरिवाराय नमः आवाहयामि ॥

ॐपुरुष एवेदं सर्वं यद्भूतं यच्च भव्यं ॥ उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥

सौवर्ण रत्नजडितं कल्पितं देवतामयम् ॥ रम्यं सिंहासनं दत्त तत्रोपविश यंत्रिते ॥

ॐनमो भगवते दत्तात्रेयाय साङगाय सपरिवाराय नमः आसनं समर्पयामि ॥

ॐएतावानस्य महिमातोज्यायांश्च पुरुषः ॥ पादोस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥

पाद्यं चन्दनकर्पूरसुरभि स्वादु वारि ते ॥ गृहाण कल्पितं तेन दत्तांघ्री क्षालयामि ते ॥

ॐनमो भगवते दत्तात्रेयाय साङगाय सपरिवाराय नमः पाद्यं समर्पयामि ॥

ॐत्रिपादूर्ध्व उदैत्पुरुषः पादोस्येहाभवत्पुनः ॥ ततोविष्वङ्व्यक्रामत्साशनानशने अभि ॥

गन्धाब्जतुलसीबिल्वशमीपत्राक्षतान्वितम् ॥ सांब्वर्घ्यं स्वर्णपात्रेण कल्पितं दत्तं गृह्यताम् ॥

ॐनमो भगवते दत्तात्रेयाय० अर्घ्यं समर्पयामि ॥ ॐतस्माद्विराळजायत विराजो अधिपूरुषः ॥

स जातो अत्यरिच्यत पश्चाद्भूमिमथोपुरः ॥ सुस्वाद्वाचमनीयाम्बु हैमपात्रेण कल्पितम् ॥

तुभ्यमाचम्यतां दत्त मधुपर्कं गृहाण च ॥ ॐनमो भगवते दत्तात्रेयाय० आचमनीयं समर्पयामि ॥

ॐयत्पुरुषेण हविषा देवा यज्ञमतन्वत ॥ वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥
प्रवचनादि सुदुर्लभता श्रुतेस्त्र्यधिपते त इह श्रुतिविश्रुते ॥

परमभक्ति सुशीतलसज्जलं वपुषि सिक्तमथाप्लुतयेऽस्त्वलम् ॥

ॐनमो भगवते दत्तात्रेयाय० स्नानीयं समर्पयामि ॥ स्नानानन्तरं आचमनीयं समर्पयामि ॥

पञ्चामृतैः स्नपयिष्ये ॥ ॐआप्यायस्व समेतु ते विश्वतः सोमवृष्ण्यं ॥

भवावाजस्य सङगथे ॥ कामधेनोः समुद्भूतं देवर्षिपितृतृप्तिदम् ॥

पयो ददामि देवेश स्नानार्थं प्रतिगृह्यताम् ॥ ॐनमो भगवते दत्तात्रेयाय० पयःस्नानं समर्पयामि ॥

शुद्धोदकस्नानं सम० ॥ आचमनीयं सम० ॥ सकलपूजार्थे गन्धपुष्पं सम० ॥

ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः ॥ सुरभिनोमुखाकरत्प्रण आयूंषितारिषत् ॥

चन्द्रमण्डलसङकाशं सर्वदेवप्रियं दधि ॥ स्नानार्थं ते मया दत्तं प्रीत्यर्थं प्रतिगृह्यताम् ॥

ॐनमो भगवते दत्तात्रेयाय० दधिस्नानं सम०॥ शुद्धोदकस्नानं सम० ॥

स्नानानंतरं आचमनीयं सम० ॥ सकलपूजार्थे० ॥

ॐघृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम ॥

अनुष्वधमावह मादयस्वस्वाहा घृतं वृषभवक्षिहव्यं ॥

आज्यं सुराणामाहार आज्यं यज्ञे प्रतिष्‍ठितं । आज्यं पवित्रं परमं स्नानार्थं प्रतिगृह्यताम् ॥

ॐनमो भगवते० घृतस्नानं सम० ॥ शुद्धोदक० स्नाननं० आ० स० सकलपूजार्थे० ॥

ॐमधुवाताऋतायते मधु क्षरन्ति सिन्धवः ॥ माध्वीर्नः सन्त्वोषधीः ॥

मधुनक्तमुतोषसो मधुमत्पार्थिवं रजः ॥ मधुद्यौरस्तु नः पिता ॥

मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः ॥ माध्वीर्गावो भवन्तु नः ॥

सर्वोषधिसमुत्पन्नं पीयूषसदृशं मधु ॥ स्नानार्थं ते प्रयच्छामि गृहाण परमेश्वर ॥
ॐनमो० मधुस्नानं सम० शुद्धोदक० स्ना० आच० सकलपूजा० ॥

ॐ स्वादुः पवस्वदिव्यायजन्मनेस्वादुरिन्द्राय सुहवीतुनाम्ने ॥

स्वादुर्मित्राय वरुणाय वायवे बृहस्पतयेमधुमाँ अदाभ्यः ॥

इक्षुदण्डसमुद्भूतदिव्यशर्करया हरिम् ॥ स्नापयामि सदा भक्तया प्रीतो भव सुरेश्वर ॥

ॐनमो० शर्करास्नानं शुद्धोदक० स्ना० आच० सकलपूजा० ॥

ॐ गन्धद्वारां दुराधर्षां नित्यपुष्‍टां करीषिणीम् ॥ ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियं ॥

कर्पूंरैलासमायुक्तं सुगन्धिद्रव्यसंयुतम् ॥ गन्धोदकं मया दत्तं स्नानार्थं प्रतिगृह्यताम् ॥

ॐनमो० गन्धोदकस्नानं० ॥ ॐ आपोहिष्‍ठामयोभुवस्तानऊर्जेदधातन ॥

महेरणाय चक्षसे ॥ योवः शिवतमो रसस्तस्य भाजयते हनः ॥

उशतीरिवमातरः ॥ तस्मा अरङग मामवो यस्य क्षयायजिन्वथा ॥

आपोजन यथाचनः ॥ शुद्धोदकस्नानं समर्पयामि ॥

ॐनमो० विलेपनार्थे चन्दनं इति पञ्चोपचारैः सम्पूज्य ॥

उत्तरे निर्माल्यं विसृज्य पुरुषसूक्तरुद्रपवमानश्रीसूक्तादिभिः अभिषेकं कुर्यात् ॥

नमो० महाभिषेकस्नानं० स्नाना० आचमनीयं० ॥

ॐकनिक्रदज्जनुषं प्रब्रुवाण इयार्तिवाचमरितेव नावं ॥

सुमङगलश्चशकुने भवासि मात्वाकाचिदभिभा विश्व्याविदत्

मात्वाश्येन उद्बधीन् मासुपर्णो मात्वाविददिषुमान्वीरो अस्ता ॥

पित्र्यामनुप्रदिशङकनिक्रदत्सुमङगलो भद्रवादीवदेह ॥

अवक्रन्ददक्षिणतो गृहणां सुमङगलो भद्रवादी शङकुते ॥

मानस्तेन ईशतमाघशंसोबृहद्वदेम विदथे सुवीराः ॥१॥
प्रदक्षिणीदभिगृणं तिकारवोवयोवदन्त ऋतुथा शङकुतयः ॥

उभे वाचौ वदति सामगा इव गायत्रं चत्रैष्‍टुभं चानुराजति ॥

उदातेव शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु शंससि ॥

वृषेव वाजी शिशुमतोरपीत्या सर्वतो नः शकुने भद्रमावद विश्वतो नः

शकुने पुण्यमावद आवदन्स्त्वं शकुने भद्रमावदतूष्णीमासीनः सुमतिं चिकिद्धिनः ॥

यदुप्ततन्वदसि कर्करिर्यथा बृहद्वदेम विदथे सुवीराः ॥

ॐभूर्भुवः स्वः नमो भगवते दत्तात्रेयाय० तैलोद्वर्तनं उष्णोदकस्नानं समर्पयामि ॥

आचमनीयं० देव पीठे संस्थाप्य ॥ ॐतदस्तु मित्रावरुणातदग्नेशंयोरस्मभ्यमिदमस्तु शस्तं ।

अशीमही गाधमुत प्रतिष्‍ठां नमो दिवे बृहते सादनाय ॥

गृहावै प्रतिष्‍ठासूक्तं तत्प्रतिष्‍ठिततमयावाचा शंस्तव्यं तस्माद्यद्यपि दूर

इव पशूँल्लभते गृहाने वैनानाजिगमिषति गृहाहि पशूनां प्रतिष्‍ठा प्रतिष्‍ठा ॥

ॐनर्य प्रजां मे गोपाय ॥ अमृतत्वाय जीवसे ॥ जातां जनिष्यमाणां च ॥

अमृते सत्ये प्रतिष्‍ठितां ॥ सुप्रतिष्‍ठितमस्तु ॥ ॐतं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः ॥

तेनदेवा अयजन्त साध्या ऋषयश्च ये ॥ भक्तया दिगंबराचान्तजलेदं दत्त कल्पितं ॥

काषायपरिधानं तदृहाणाचमनीयकं ॥ ॐनमो० वस्त्रोपवस्त्रं सम० वस्त्रानन्तरं आचमनीयं सम० ॥

ॐतस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यं ॥ पशून्ताँश्चक्रे वायव्यानाराण्यान्ग्राम्याश्च ये ॥

नानासूत्रधरैते ते ब्रह्मसूत्रे प्रकल्पिते ॥ गृहाण दैवतमये श्रीदत्त नवतन्तुके ॥

ॐनमो० यज्ञोपवीतं सम० आचमनीयं० ॥ ॐतस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे ॥

छन्दांसि जज्ञिरे तस्मादयजुस्तस्मादजायत ॥ भूतिमृत्स्नासुकस्तूरी केशरान्वितचन्दनं ॥

रत्नाक्षताः कल्पितास्त्वामलङकुर्वेथ दत्त तैः ॥ ॐनमो० विलेपनार्थे चन्दनं अक्षतांश्च समर्पयामि ॥

हरिद्रा स्वर्णवर्णाभा सर्वसौभाग्यदायिनी । सर्वालङकारमुख्या हि देवि त्वं प्रतिगृह्यतां ॥

ॐनमो०हरिद्रां सम० ॥ हरिद्राचूर्णसंयुक्तंकुङकुमं कामदायकम्॥

वस्त्रालङकरणं सर्वं देवि त्वं प्रतिगृह्यतां ॥ ॐनमो० कुङकुमं सम० ॥

ॐअहिरिव भोगैः पर्येति बाहुञ्जायाहेतिंपरिबाधमानः ॥

हस्तघ्नो विश्वावयुनानि विद्वान् पुमान्पुमांसं परिपातु विश्वतः ॥

ज्योत्स्नापते नमस्तुभ्यं नमस्ते विश्वरुपिणे ॥ नानापरिमलद्रव्यंगृहाण परमेश्वर ॥

ॐनमो० नानापरिमलद्रव्याणि सम० ॥ ॐ तस्मादश्वा अजायन्त ये केचोभयादतः ॥

गावोह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥ सच्छमीबिल्वतुलसीपत्रैः सौगन्धिकैः सुमैः ॥

मनसा कल्पितैर्नानाविधैर्दत्तार्चयाम्यहम् ॥ ॐ नमो० नानाविधपुष्पाणि तुलसीपत्राणि बिल्वपत्राणि च सम० ॥

ततःसति भवे अष्टोत्तरशतनामभिः पुष्पतुलसीपत्रबिल्वपत्रादिभिः पूजयेत्॥

अथावरणपूजनं ॥ अद्येत्यादि० श्रीसत्यदत्तव्रताङगत्वेन आवरणदेवतापूजनं करिष्ये ॥

पीठे देवपरितः ॥ ॐशिक्षायै नमः ॥ ॐ कल्पाय नमः ॥ ॐव्याकरनाय नमः ॥

ॐनिरुक्ताय नमः ॥ ॐज्योतिषाय नमः ॥ ॐ छन्दसे नमः ॥ ॐवहृये नमः ॥

ॐईशाय नमः ॥ ॐरक्षसे नमः ॥ ॐवायवे नमः ॥

इति प्रथमावरणदेवता आवाह्य गन्धाक्षतपुष्पैः पूजयेत् हस्तं प्रक्षाल्य ॥

गन्धपुष्पं तर्जनीमध्यमाङगुष्‍ठैर्धृत्वा मध्ये शङखोदकं

गृहीत्वा-दयाब्धे त्राहि संसारसर्पान्मां शरणागतम्॥

भक्तया समर्पये तुभ्यं प्रथमावरणार्चनं ॥ एवं सर्वत्र ॥

ॐऋगवेदाय नमः ॥ ॐ यजुर्वेदाय नमः ॥ ॐसामवेदाय नमः ॥

ॐअथर्वणाय नमः ॥ ॐइतिहासपुराणेभ्यो नमः ॥ ॐमीमांसायै नमः ॥

ॐन्यायाय नमः ॥ इति द्वितीयावरणदेवता आवाह्य० ॥२॥

ॐसरस्वत्यै नमः ॥ ॐगणपतये नमः ॥ ॐशुकाय नमः ॥

ॐसमुन्तवे नमः ॥ ॐजैमिनये नमः ॥ ॐवैशम्पायनाय नमः ॥

ॐपैलाय नमः ॥ ॐगोभिलाय नमः ॥ इति तृतीयावरणदेवता आवाह्य० ॥३॥

ॐकश्यपाय नमः ॥ ॐअत्रये नमः ॥ ॐभरद्वाजाय नमः ॥

ॐविश्वामित्राय नमः ॥ ॐगौतमाय नमः ॥ ॐजमदग्नये नमः ॥
ॐ वसिष्ठाय नमः ॥ ॐ व्यासाय नमः ॥ इति चतुर्थावरणदेवता आवाह्य० ॥४॥

ॐ अणिमायै नमः ॥ ॐ महिमायै नमः ॥ ॐ गरिमायै नमः ॥

ॐ लघिमायै नमः ॥ ॐप्राप्त्यै नमः ॥ ॐप्राकाम्याय नमः ॥

ॐईशित्वाय नमः ॥ ॐवशित्वाय नमः ॥ इति पञ्चमावरणदेवता आवाह्य० ॥५॥

ॐनन्दनाथाय नमः ॥ ॐमत्स्येन्द्राय नमः ॥ ॐदलेन्द्राय नमः ॥

ॐगोरक्षाय नमः ॥ ॐगोगणेश्वराय नमः ॥ ॐनागार्जुनाय नमः ॥
ॐमेघनादाय नमः ॥ ॐभुजङगाय नमः ॥ ॐकुरुनायकाय नमः ॥

ॐभैरवाय नमः ॥ इति षष्‍ठावरणदेवता आवाह्य० ॥६॥

ॐइन्द्राय नमः ॥ ॐअग्नये नमः ॥ ॐयमाय नमः ॥

ॐ निऋतये नमः ॥ ॐवरुणाय नमः ॥ ॐवायवे नमः ॥

ॐसोमाय नमः ॥ ॐईशानाय नमः ॥ इति सप्तमावरणदेवता आवाह्य० ॥

दयाब्धे० अनेन आवरणदेवतापूजनेन श्रीदत्तात्रेय प्रीयतां ॥
ॐयत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ॥ मुखं किमस्य कौ बाहू का ऊरुपादा उच्येते ॥

लाक्षासिताभ्रश्रीवासश्रीखण्डागरुगुग्गुलैः ॥ युक्तोऽग्नियोजितो धूपो ह्रदा स्वीकुरुदत्त तम्॥

ॐनमो० धूपं आघ्रापयामि ॥ ॐब्राह्मणोस्य मुखमासीद्बाहू राजन्यः कृतः ॥

ऊरु तदस्य यद्वैश्यः पद्‌भ्यां शूद्रो अजायत ॥ स्वर्णपात्रे गोघृताक्तवर्तिप्रज्वालितं ह्रदा ॥

दीपं दत्तं सकर्पूरं गृहाण स्वप्रकाशक ॥ ॐ नमोः० दीपं दर्शयामि ॥

ॐचन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत ॥ मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥

सषड्रसं षड्‌विधान्नं नैवेद्यं गव्यसंयुतम् ॥ कल्पितं हैमपात्रे ते भुंक्ष्व दत्तांब्वदः पिब ॥
ॐनमो० नैवेद्यं समर्पयामि ॥ सत्यं त्वर्तेन परिषिञ्चामि ॥ अमृतोपस्तरणमसि स्वाहा ॥

ॐप्राणाय स्वाहा ॥ ॐअपानाय स्वाहा ॥ ॐव्यानाय स्वाहा ॥ ॐउदानाय स्वाहा ॥

ॐसमानाय स्वाहा ॥ ॐब्रह्मणे स्वाहा ॥ नैवेद्यमध्ये पानीयं समर्पयामि ॥

ॐप्राणाय स्वाहा इत्यादि पुनर्नैवेद्यं ॥ उत्तरापोशनं समर्प० ॥ हस्तप्रक्षालनं समर्प० ॥

मुखप्रक्षालनं समर्प० ॥ करोद्वर्तनार्थें चन्दनं समर्पयामि ॥

नैवेद्यानन्तरं आचमनीयं समर्पयामि ॥ त्रीश तेऽद्य परभक्तिवीटिका पञ्चमैकपुरुषार्थसाधिका ॥

निर्विकल्पकसमाधितः पुरा रञ्जिकाऽस्तु भवभञ्जिका वरा ॥

ॐनमो० ताम्बूलं समर्पयामि ॥ हिरण्य गर्भगर्भस्थं हेमबीजं विभावसोः ।

अनन्तपुण्यफलदमतः शान्तिंप्रयच्छ मे ॥ ॐ नमो० सुवर्णपुष्पार्थे दक्षिणां समर्प० ॥

इदंफलं मया देव स्थापितं पुरतस्तव ॥ तेन मे सुफला वाप्तिर्भवेज्जन्मनि जन्मनि ॥

ॐ नमो० नानाविधफलानि समर्प० ॥ ॐश्रिये जातः श्रिय आनिरियाय श्रियंवयो जरितृभ्यो ददाति ॥

श्रियं वसाना अमृतत्वमायन्भवन्ति सत्यासमिथामितदौ ॥ श्रियएवैनन्तछ्रियामादधाति सन्ततमृचावषट्‌कृत्यं

सन्तत्यै सन्धीयते प्रजया पशुभिर्य एवं वेद ॥ याज्ययायजति प्रज्ञत्तिर्वैं याज्या पुण्यैव लक्ष्मीः

पुण्यामेवतल्लक्ष्मीं सम्भावयति पुण्यां लक्ष्मीं संस्कुरुते ॥

N/A

References : N/A
Last Updated : December 09, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP