TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|गीता|
वृत्रगीता

वृत्रगीता

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.

Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


वृत्रगीता

॥ वृत्रगीता ॥
२७०
य्
धन्या धन्या इति जनाः सर्वेऽस्मान्प्रवदन्त्युत ।
न दुःखिततरः कश्चित्पुमानस्माभिरस्ति ह ॥१॥
लोकसम्भावितैर्दुःखं यत्प्राप्तं कुरुसत्तम ।
प्राप्य जातिं मनुष्येषु देवैरपि पितामह ॥२॥
कदा वयं करिष्यामः संन्यासं दुःखसञ्ज्ञकम् ।
दुःखमेतच्छरीराणां धारणं कुरुसत्तम ॥३॥
विमुक्ताः सप्तदशभिर्हेतुभूतैश्च पञ्चभिः ।
इन्द्रियार्थैर्गुणैश्चैव अस्ताभिः प्रपितामह ॥४॥
न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः ।
कदा वयं भविष्यामो राज्यं हित्वा परन्तप ॥५॥
भी
नास्त्यनन्तं महाराज सर्वं सङ्ख्यान गोचरम् ।
पुनर्भावोऽपि सङ्ख्यातो नास्ति किं चिदिहाचलम् ॥६॥
न चापि गम्यते राजन्नैष दोषः प्रसङ्गतः ।
उद्योगादेव धर्मज्ञ कालेनैव गमिष्यथ ॥७॥
ईशोऽयं सततं देही नृपते पुण्यपापयोः ।
तत एव समुत्थेन तमसा रुध्यतेऽपि च ॥८॥
यथाञ्जन मयो वायुः पुनर्मानः शिलं रजः ।
अनुप्रविश्य तद्वर्णो दृश्यते रञ्जयन्दिशः ॥९॥
तथा कर्मफलैर्देही रञ्जितस्तमसावृतः ।
विवर्णो वर्ममाश्रित्य देहेषु परिवर्तते ॥१०॥
ज्ञानेन हि यदा जन्तुरज्ञानप्रभवं तमः ।
व्यपोहति तदा ब्रह्म प्रकाशेत सनातनम् ॥११॥
अयत्न साध्यं मुनयो वदन्ति
ये चापि मुक्तास्त उपासितव्याः ।
त्वया च लोकेन च सामरेण
तस्मान्न शाम्यन्ति महर्षिसङ्घाः ॥१२॥
अस्मिन्नर्थे पुरा गीतं शृणुष्वैक मना नृप ।
यथा दैत्येन वृत्रेण भ्रष्टैश्वर्येण चेष्टितम् ॥१३॥
निर्जितेनासहायेन हृतराज्येन भारत ।
अशोचता शत्रुमध्ये बुद्धिमास्थाय केवलाम् ॥१४॥
भ्रष्टैश्वर्यं पुरा वृत्रमुशना वाक्यमब्रवीत् ।
कच्चित्पराजितस्याद्य न व्यथा तेऽस्ति दानव ॥१५॥
व्र्त्र
सत्येन तपसा चैव विदित्वा सङ्क्षयं ह्यहम् ।
न शोचामि न हृष्यामि भूतानामागतिं गतिम् ॥१६॥
कालसञ्चोदिता जीवा मज्जन्ति नरकेऽवशाः ।
परिदृष्टानि सर्वाणि दिव्यान्याहुर्मनीषिणः ॥१७॥
क्षपयित्वा तु तं कालं गणितं कालचोदिताः ।
सावशेषेण कालेन सम्भवन्ति पुनः पुनः ॥१८॥
तिर्यग्योनिसहस्राणि गत्वा नरकमेव च ।
निर्गच्छन्त्यवशा जीवाः कालबन्धन बन्धनाः ॥१९॥
एवं संसरमाणानि जीवान्यहमदृष्टवान् ।
यथा कर्म तथा लाभ इति शास्त्रनिदर्शनम् ॥२०॥
तिर्यग्गच्छन्ति नरकं मानुष्यं दैवमेव च ।
सुखदुःखे प्रियद्वेष्ये चरित्वा पूर्वमेव च ॥२१॥
कृतान्तविधिसंयुक्तं सर्वलोकः प्रपद्यते ।
गतं गच्छन्ति चाध्वानं सर्वभूतानि सर्वदा ॥२२॥
भी
कालसङ्ख्यान सङ्ख्यातं सृष्टि स्थिति परायनम् ।
तं भासमानं भगवानुशनाः प्रत्यभासत ।
भीमान्दुष्टप्रलापांस्त्वं तात कस्मात्प्रभाससे ॥२३॥
व्र्त्र
प्रत्यक्षमेतद्भवतस्तथान्येषां मनीसिनाम् ।
मया यज्जय लुब्धेन पुरा तप्तं महत्तपः ॥२४॥
गन्धानादाय भूतानां रसांश्च विविधानपि ।
अवर्धं त्रीन्समाक्रम्य लोकान्वै स्वेन तेजसा ॥२५॥
ज्वालामाला परिक्षिप्तो वैहायसचरस्तथा ।
अजेयः सर्वभूतानामासं नित्यमपेतभीः ॥२६॥
ऐश्वर्यं तपसा प्राप्तं भ्रष्टं तच्च स्वकर्मभिः ।
धृतिमास्थाय भगवन्न शोचामि ततस्त्वहम् ॥२७॥
युयुत्सता महेन्द्रेण पुरा सार्धं महात्मना ।
ततो मे भगवान्दृष्टो हरिर्नारायणः प्रभुः ॥२८॥
वैकुण्ठः पुरुषो विष्णुः शुक्लोऽनन्तः सनातनः ।
मुञ्जकेशो हरिश्मश्रुः सर्वभूतपितामहः ॥२९॥
नूनं तु तस्य तपसः सावशेषं ममास्ति वै ।
यदहं प्रस्तुमिच्छामि भवन्तं कर्मणः फलम् ॥३०॥
ऐश्वर्यं वै महद्ब्रह्मन्कस्मिन्वर्णे प्रतिष्ठितम् ।
निवर्तते चापि पुनः कथमैश्वर्यमुत्तमम् ॥३१॥
कस्माद्भूतानि जीवन्ति प्रवर्तन्तेऽथ वा पुनः ।
किं वा फलं परं प्राप्य जीवस्तिष्ठति शाश्वतः ॥३२॥
केन वा कर्मणा शक्यमथ ज्ञानेन केन वा ।
ब्रह्मर्षे तत्फलं प्राप्तुं तन्मे व्याख्यातुमर्हसि ॥३३॥
इतीदमुक्तः स मुनिस्तदानीं
प्रत्याह यत्तच्छृणु राजसिंह ।
मयोच्यमानं पुरुषर्षभ त्वम्
अनन्यचित्तः सह सोदरीयैः ॥३४॥
२७१
उज़नस्
नमस्तस्मै भगवते देवाय प्रभविष्णवे ।
यस्य पृथ्वी तलं तात साकाशं बाहुगोचरम् ॥१॥
मूर्धा यस्य त्वनन्तं च स्थानं दानव सत्तम ।
तस्याहं ते प्रवक्ष्यामि विष्णोर्माहात्म्यमुत्तमम् ॥२॥
भी
तयोः संवदतोरेवमाजगाम महामुनिः ।
सनत्कुमारो धर्मात्मा संशय छेदनाय वै ॥३॥
स पूजितोऽसुरेन्द्रेण मुनिनोशनसा तथा ।
निषसादासने राजन्महार्हे मुनिपुङ्गवः ॥४॥
तमासीनं महाप्राज्ञमुशना वाक्यमब्रवीत् ।
ब्रूह्यस्मै दानवेन्द्राय विन्सोर्माहात्म्यमुत्तमम् ॥ ५॥
सनत्कुमारस्तु ततः श्रुत्वा प्राह वचोऽर्थवत् ।
विष्णोर्माहात्म्य संयुक्तं दानवेन्द्राय धीमते ॥ ६॥
शृणु सर्वमिदं दैत्य विन्सोर्माहात्म्यमुत्तमम् ।
विष्णौ जगत्स्थितं सर्वमिति विद्धि परन्तप ॥ ७॥
सृजत्येष महाबाहो भूतग्रामं चराचरम् ।
एष चाक्षिपते काले काले विसृजते पुनः ।
अस्मिन्गच्छन्ति विलयमस्माच्च प्रभवन्त्युत ॥ ८॥
नैष दानवता शक्यस्तपसा नैव चेज्यया ।
सम्प्राप्तुमिन्द्रियाणां तु संयमेनैव शक्यते ॥ ९॥
बाह्ये चाभ्यन्तरे चैव कर्मणा मनसि स्थितः ।
निर्मली कुरुते बुद्ध्या सोऽमुत्रानन्त्यमश्नुते ॥१०॥
यथा हिरण्यकर्ता वै रूप्यमग्नौ विशोधयेत् ।
बहुशोऽतिप्रयत्नेन महतात्म कृतेन ह ॥११॥
तद्वज्जातिशतैर्जीवः शुध्यतेऽल्पेन कर्मणा ।
यत्नेन महता चैवाप्येकजातौ विशुध्यते ॥१२॥
लीलयाल्पं यथा गात्रात्प्रमृज्यादात्मनो रजः ।
बहु यत्नेन महता दोषनिर्हरनं तथा ॥१३॥
यथा चाल्पेन माल्येन वासितं तिलसर्षपम् ।
न मुञ्चति स्वकं गन्धं तद्वत्सूक्ष्मस्य दर्शनम् ॥१४॥
तदेव बहुभिर्माल्यैर्वास्यमानं पुनः पुनः ।
विमुञ्चति स्वकं गन्धं माल्यगन्धेऽवतिष्ठति ॥१५॥
एवं जातिशतैर्युक्तो गुणैरेव प्रसङ्गिषु ।
बुद्ध्या निवर्तते दोषो यत्नेनाभ्यासजेन वै ॥१६॥
कर्मणा स्वेन रक्तानि विरक्तानि च दानव ।
यथा कर्मविशेषांश्च प्राप्नुवन्ति तथा शृणु ॥१७॥
यथा च सम्प्रवर्तन्ते यस्मिंस्तिष्ठन्ति वा विभो ।
तत्तेऽनुपूर्व्या व्याख्यास्ये तदिहैकमनाः शृणु ॥१८॥
अनादि निधनं श्रीमान्हरिर्नारायणः प्रभुः ।
स वै सृजति भूतानि स्थावराणि चराणि च ॥१९॥
एष सर्वेषु भूतेषु क्षरश्चाक्षर एव च ।
एकादश विकारात्मा जगत्पिबति रश्मिभिः ॥२०॥
पादौ तस्य महीं विद्धि मूर्धानं दिवमेव च ।
बाहवस्तु दिशो दैत्य श्रोत्रमाकाशमेव च ॥२१॥
तस्य तेजोमयः सूर्यो मनश् चन्द्रमसि स्थितम् ।
बुद्धिर्ज्ञानगता नित्यं रसस्त्वाप्सु प्रवर्तते ॥२२॥
भ्रुवोरनन्तरास्तस्य ग्रहा दानव सत्तम ।
नक्षत्रचक्रं नेत्राभ्यां पादयोर्भूश्च दानव ॥२३॥
रजस्तमश्च सत्त्वं च विद्धि नारायणात्मकम् ।
सोऽऽश्रमाणां मुखं तात कर्मणस्तत्फलं विदुः ॥२४॥
अकर्मणः फलं चैव स एव परमव्ययः ।
छन्दांसि तस्य रोमाणि अक्षरं च सरस्वती ॥२५॥
बह्वाश्रयो बहु मुखो धर्मो हृदि समाश्रितः ।
स ब्रह्म परमो धर्मस्तपश्च सदसच्च सः ॥२६॥
श्रुतिशास्त्रग्रहोपेतः षोडशर्त्विक्क्रतुश्च सः ।
पितामहश्च विष्णुश्च सोऽश्विनौ स पुरन्दरः ॥२७॥
मित्रश्च वरुणश्चैव यमोऽथ धनदस्तथा ।
ते पृथग्दर्शनास्तस्य संविदन्ति तथैकताम् ।
एकस्य विद्धि देवस्य सर्वं जगदिदं वशे ॥२८॥
नाना भूतस्य दैत्येन्द्र तस्यैकत्वं वदत्ययम् ।
जन्तुः पश्यति ज्ञानेन ततः सत्त्वं प्रकाशते ॥२९॥
संहार विक्षेपसहस्रकोतीस्
तिष्ठन्ति जीवाः प्रचरन्ति चान्ये ।
प्रजा विसर्गस्य च पारिमाण्यं
वापी सहस्राणि बहूनि दैत्य ॥३०॥
वाप्यः पुनर्योजनविस्तृतास्ताः
क्रोशं च गम्भीरतयावगाधाः ।
आयामतः पञ्चशताश्च सर्वाः
प्रत्येकशो योजनतः प्रवृत्थाः ॥३१॥
वाप्या जलं क्षिप्यति वालकोत्या
त्वह्ना सकृच्चाप्यथ न द्वितीयम् ।
तासां क्षये विद्धि कृतं विसर्गं
संहारमेकं च तथा प्रजानाम् ॥३२॥
सो जीव वर्गाः परमं प्रमाणं
कृष्णो धूम्रो नीलमथास्य मध्यम् ।
रक्तं पुनः सह्यतरं सुखं तु
हारिद्र वर्णं सुसुखं च शुक्लम् ॥३३॥
परं तु शुक्लं विमलं विशोकं
गतक्लमं सिध्यति दानवेन्द्र ।
गत्वा तु योनिप्रभवानि दैत्य
सहस्रशः सिद्धिमुपैति जीवः ॥३४॥
गतिं च यां दर्शनमाह देवो
गत्वा शुभं दर्शनमेव चाह ।
गतिः पुनर्वर्णकृता प्रजानां
वर्णस्तथा कालकृतोऽसुरेन्द्र ॥३५॥
शतं सहस्राणि चतुर्दशेह
परा गतिर्जीव गुणस्य दैत्य ।
आरोहणं तत्कृतमेव विद्धि
स्थानं तथा निःसरणं च तेषाम् ॥३६॥
कृष्णस्य वर्णस्य गतिर्निकृष्टा
स मज्जते नरके पच्यमानः ।
स्थानं तथा दुर्गतिभिस्तु तस्य
प्रजा विसर्गान्सुबहून्वदन्ति ॥३७॥
शतं सहस्राणि ततश्चरित्वा
प्राप्नोति वर्णं हरितं तु पश्चात् ।
स चैव तस्मिन्निवसत्यनीशो
युगक्षये तमसा संवृतात्मा ॥३८॥
स वै यदा सत्त्वगुणेन युक्तस्
तमो व्यपोहन्घतते स्वबुद्ध्या ।
स लोहितं वर्णमुपैति नीलो
मनुष्यलोके परिवर्तते च ॥३९॥
स तत्र संहार विसर्गमेव
स्वकर्मजैर्बन्धनैः क्लिश्यमानः ।
ततः स हारिद्रमुपैति वर्णं
संहार विक्षेपशते व्यतीते ॥४०॥
हारिद्र वर्णस्तु प्रजा विसर्गान्
सहस्रशस्तिष्ठति सञ्चरन्वै ।
अविप्रमुक्तो निरये च दैत्य
ततः सहस्राणि दशापरानि ॥४१॥
गतीः सहस्राणि च पञ्च तस्य
चत्वारि संवर्तकृतानि चैव ।
विमुक्तमेनं निरयाच्च विद्धि
सर्वेषु चान्येषु च सम्भवेषु ॥४२॥
स देवलोके विहरत्यभीक्ष्णं
ततश्च्युतो मानुषताम् उपैति ।
संहार विक्षेपशतानि चाष्टौ
मर्त्येषु तिष्ठन्नमृतत्वमेति ॥४३॥
सोऽस्मादथ भ्रश्यति कालयोगात्
कृष्णे तले तिष्ठति सर्वकस्ते ।
यथा त्वयं सिध्यति जीवलोकस्
तत्तेऽभिधास्याम्यसुरप्रवीर ॥४४॥
दैवानि स व्यूह शतानि सप्त
रक्तो हरिद्रोऽथ तथैव शुक्लः ।
संश्रित्य सन्धावति शुक्लमेतम्
अस्तापरानर्च्यतमान्स लोकान् ॥४५॥
अष्टौ च षष्टिं च शतानि यानि
मनो विरुद्धानि महाद्युतीनाम् ।
शुक्लस्य वर्णस्य परा गतिर्या
त्रीण्येव रुद्धानि महानुभाव ॥४६॥
संहार विक्षेपमनिष्टमेकं
चत्वारि चान्यानि वसत्यनीशः ।
सस्थस्य वर्णस्य परा गतिर्या
सिद्धा विशिष्टस्य गतक्लमस्य ॥४७॥
सप्तोत्तरं तेषु वसत्यनीशः
संहार विक्षेपशतं सशेषम् ।
तस्मादुपावृत्य मनुष्यलोके
ततो महान्मानुषताम् उपैति ॥४८॥
तस्मादुपावृत्य ततः क्रमेण
सोऽग्रे स्म सन्तिष्ठति भूतसर्गम् ।
स सप्तकृत्वश्च परैति लोकान्
संहार विक्षेपकृतप्रवासः ॥४९॥
सप्तैव संहारमुपप्लवानि
सम्भाव्य सन्तिष्ठति सिद्धलोके ।
ततोऽव्ययं स्थानमनन्तमेति
देवस्य विष्णोरथ ब्रह्मणश् च ।
शेषस्य चैवाथ नरस्य चैव
देवस्य विष्णोः परमस्य चैव ॥५०॥
संहार काले परिदग्ध काया
ब्रह्माणमायान्ति सदा प्रजा हि ।
चेष्टात्मनो देवगणाश् च सर्वे
ये ब्रह्मलोकादमराः स्म तेऽपि ॥५१॥
प्रजा विसर्गं तु सशेषकालं
स्थानानि स्वान्येव सरन्ति जीवाः ।
निःशेषाणां तत्पदं यान्ति चान्ते
सर्वापदा ये सदृशा मनुष्याः ॥५२॥
ये तु च्युताः सिद्धलोकात्क्रमेण
तेषां गतिं यान्ति तथानुपूर्व्या ।
जीवाः परे तद्बलवेषरूपा
विधिं स्वकं यान्ति विपर्ययेन ॥५३॥
स यावदेवास्ति सशेषभुक्ते
प्रजाश्च देवौ च तथैव शुक्ले ।
तावत्तदा तेषु विशुद्धभावः
संयम्य पञ्चेन्द्रिय रूपमेतत् ॥५४॥
शुद्धां गतिं तां परमां परैति
शुद्धेन नित्यं मनसा विचिन्वन् ।
ततोऽव्ययं स्थानुमुपैति ब्रह्म
दुष्प्रापमभ्येति स शाश्वतं वै ।
इत्येतदाख्यातमहीनसत्त्व
नारायणस्येह बलं मया ते ॥५५॥
व्र्त्र
एवङ्गते मे न विषादोऽस्ति कश् चित्
सम्यक्च पश्यामि वचस्तवैतत् ।
श्रुत्वा च ते वाचमदीनसत्त्व
विकल्मषोऽस्म्यद्य तथा विपाप्मा ॥५६॥
प्रवृत्तमेतद्भगवन्महर्षे
महाद्युतेश्चक्रमनन्व वीर्यम् ।
विष्णोरनन्तस्य सनातनं तत्
स्थानं सर्गा यत्र सर्वे प्रवृत्ताः ।
स वै महात्मा पुरुषोत्तमो वै
तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितम् ॥५७॥
भी
एवमुक्त्वा स कौन्तेय वृत्रः प्रानानवासृजत् ।
योजयित्वा तथात्मानं परं स्थानमवाप्तवान् ॥५८॥
य्
अयं स भगवान्देवः पितामह जनार्दनः ।
सनत्कुमारो वृत्राय यत्तदाख्यातवान्पुरा ॥५९॥
भी
मूलस्थायी स भगवान्स्वेनानन्तेन तेजसा ।
तत्स्थः सृजति तान्भावान्नानारूपान्महातपः ॥६०॥
तुरीयार्धेन तस्येमं विद्धि केशवमच्युतम् ।
तुरीयार्धेन लोकांस्त्रीन्भावयत्येष बुद्धिमान् ॥६१॥
अर्वाक्स्थितस्तु यः स्थायी कल्पान्ते परिवर्तते ।
स शेते भगवानप्सु योऽसावतिबलः प्रभुः ।
तान्विधाता प्रसन्नात्मा लोकांश्चरति शाश्वतान् ॥६२॥
सर्वाण्यशून्यानि करोत्यनन्तः
सनत्कुमारः सञ्चरते च लोकान् ।
स चानिरुद्धः सृजते महात्मा
तत्स्थं जगत्सर्वमिदं विचित्रम् ॥६३॥
य्
वृत्रेण परमार्थज्ञ दृष्टा मन्येऽऽत्मनो गतिः ।
शुभा तस्मात्स सुखितो न शोचति पितामह ॥६४॥
शुक्लः शुक्लाभिजातीयः साध्यो नावर्ततेऽनघ ।
तिर्यग्गतेश्च निर्मुक्तो निरयाच्च पितामह ॥६५॥
हारिद्र वर्णे रक्ते वा वर्तमानस्तु पार्थिव ।
तिर्यगेवानुपश्येत कर्मभिस्तामसैर्वृतः ॥६६॥
वयं तु भृशमापन्ना रक्ताः कस्त मुखेऽसुखे ।
कां गतिं प्रतिपत्स्यामो नीलां कृष्णाधमाम् अथ ॥६७॥
भी
शुद्धाभिजनसम्पन्नाः पाण्डवाः संशितव्रताः ।
विहृत्य देवलोकेषु पुनर्मानुष्यमेष्यथ ॥६८॥
प्रजा विसर्गं च सुखेन काले
प्रत्येत्य देवेषु सुखानि भुक्त्वा ।
सुखेन संयास्यथ सिद्धसङ्ख्यां
मा वो भयं भूद्विमलाः स्थ सर्वे ॥६९॥

॥ इति वृत्रगीता समाप्ता ॥

Translation - भाषांतर
N/A

N/A
Last Updated : 2010-10-15T15:12:35.1270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

विकतखोकला-घोर

  • m -श्राद्ध 
  • n  A term for a trouble procured through one's own money or measures. 
RANDOM WORD

Did you know?

In Hinduism, are women and men treated as equals?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.