संस्कृत सूची|संस्कृत साहित्य|गीता|
वामदेवगीता

वामदेवगीता

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.

Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


॥ वाअमदेवगीता॥
९३
कथं धर्मे स्थातुमिच्छन्राजा वर्तेत धार्मिकः ।
पृच्छामि त्वा कुरुश्रेष्ठ तन्मे ब्रूहि पिता मह ॥१॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
गीतं दृष्टार्थतत्त्वेन वामदेवेन धीमता ॥२॥
राजा वसु मना नाम कौसल्यो बलवाञ्शुचिः ।
महर्षिं परिपप्रच्छ वामदेवं यशो विनम् ॥३॥
धर्मार्थसहितं वाक्यं भगवन्ननुशाधि माम् ।
येन वृत्तेन वै तिष्ठन्न च्यवेयं स्वधर्मतः ॥४॥
तमब्रवीद्वामदेवस्तपस्वी जपतां वरः ।
हेमवर्णमुपासीनं ययातिमिव नाहुषम् ॥५॥
धर्ममेवानुवर्तस्व न धर्माद्विद्यते परम् ।
धर्मे स्थिता हि राजानो जयन्ति पृथिवीमिमाम् ॥६॥
अर्थसिद्धेः परं धर्मं मन्यते यो महीपतिः ।
ऋतां च कुरुते बुद्धिं स धर्मेण विरोचते ॥७॥
अधर्मदर्शी यो राजा बलादेव प्रवर्तते ।
क्षिप्रमेवापयातोऽस्मादुभौ प्रथममध्यमौ ॥८॥
असत्पापिष्ठ सचिवो वध्यो लोकस्य धर्महा ।
सहैव परिवारेण क्षिप्रमेवावसीदति ॥९॥
अर्थानामननुष्ठाता कामचारी विकत्थनः ।
अपि सर्वां महीं लब्ध्वा क्षिप्रमेव विनश्यति ॥१०॥
अथाददानः कल्याणमनसूयुर्जितेन्द्रियः ।
वर्धते मतिमान्राजा स्रोतोभिरिव सागरः ॥११॥
न पूर्णोऽस्मीति मन्येत धर्मतः कामतोऽर्थतः ।
बुद्धितो मित्र तश्चापि सततं वसुधाधिपः ॥१२॥
एतेष्वेव हि सर्वेषु लोकयात्रा प्रतिष्ठिता ।
एतानि शृण्वँल्लभते यशः कीर्तिं श्रियः प्रजाः ॥१३॥
एवं यो धर्मसंरम्भी धर्मार्थपरिचिन्तकः ।
अर्थान्समीक्ष्यारभते स ध्रुवं महदश्नुते ॥१४॥
अदाता ह्यनति स्नेहो दण्डेनावर्तयन्प्रजाः ।
साहस प्रकृतीराजा क्षिप्रमेव विनश्यति ॥१५॥
अथ पापं कृतं बुद्ध्या न च पश्यत्यबुद्धि मान् ।
अकीर्त्यापि समायुक्तो मृतो नरकमश्नुते ॥१६॥
अथ मानयितुर्दातुः शुक्लस्य रसवेदिनः ।
व्यसनं स्वमिवोत्पन्नं विजिघांसन्ति मानवाः ॥१७॥
यस्य नास्ति गुरुर्धर्मे न चान्याननुपृच्छति ।
सुखतन्त्रोऽर्थलाभेषु नचिरं महदश्नुते ॥१८॥
गुरु प्रधानो धर्मेषु स्वयमर्थान्ववेक्षिता ।
धर्मप्रधानो लोकेषु सुचिरं महदश्नुते ॥१९॥
९४
यत्राधर्मं प्रणयते दुर्बले बलवत्तरः ।
तां वृत्तिमुपजीवन्ति ये भवन्ति तदन्वयाः ॥१॥
राजानमनुवर्तन्ते तं पापाभिप्रवर्तकम् ।
अविनीत मनुष्यं तत्क्षिप्रं राष्ट्रं विनश्यति ॥२॥
यद्वृत्तिमुपजीवन्ति प्रकृतिस्थस्य मानवाः ।
तदेव विषमस्थस्य स्वजनोऽपि न मृष्यते ॥३॥
साहस प्रकृतिर्यत्र कुरुते किं चिदुल्बणम् ।
अशास्त्रलक्षणो राजा क्षिप्रमेव विनश्यति ॥४॥
योऽत्यन्ताचरितां वृत्तिं क्षत्रियो नानुवर्तते ।
जितानामजितानां च क्षत्रधर्मादपैति सः ॥५॥
द्विषन्तं कृतकर्माणं गृहीत्वा नृपती रणे ।
यो न मानयते द्वेषात्क्षत्रधर्मादपैति सः ॥६॥
शक्तः स्यात्सुमुखो राजा कुर्यात्कारुण्यमापदि ।
प्रियो भवति भूतानां न च विभ्रश्यते श्रियः ॥७॥
अप्रियं यस्य कुर्वीत भूयस्तस्य प्रियं चरेत् ।
नचिरेण प्रियः स स्याद्योऽप्रियः प्रियमाचरेत् ॥८॥
मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः ।
न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् ॥९॥
नापत्रपेत प्रश्नेषु नाभिभव्यां गिरं सृजेत् ।
न त्वरेत न चासूयेत्तथा सङ्गृह्यते परः ॥१०॥
प्रिये नातिभृशं हृष्येदप्रिये न च सञ्ज्वरेत् ।
न मुह्येदर्थकृच्छ्रेषु प्रजाहितमनुस्मरन् ॥११॥
यः प्रियं कुरुते नित्यं गुणतो वसुधाधिपः ।
तस्य कर्माणि सिध्यन्ति न च सन्त्यज्यते श्रिया ॥१२॥
निवृत्तं प्रतिकूलेभ्यो वर्तमानमनुप्रिये ।
भक्तं भजेत नृपतिस्तद्वै वृत्तं सताम् इह ॥१३॥
अप्रकीर्णेन्द्रियं प्राज्ञमत्यन्तानुगतं शुचिम् ।
शक्तं चैवानुरक्तं च युञ्ज्यान्महति कर्मणि ॥१४॥
एवमेव गुणैर्युक्तो यो न रज्यति भूमिपम् ।
भर्तुरर्थेष्वसूयन्तं न तं युञ्जीत कर्मणि ॥१५॥
मूढमैन्द्रियकं लुब्धमनार्य चरितं शठम् ।
अनतीतोपधं हिंस्रं दुर्बुद्धिमबहुश्रुतम् ॥१६॥
त्यक्तोपात्तं मद्य रतं द्यूतस्त्री मृगया परम् ।
कार्ये महति यो युञ्ज्याद्धीयते स नृपः श्रियः ॥१७॥
रक्षितात्मा तु यो राजा रक्ष्यान्यश्चानुरक्षति ।
प्रजाश्च तस्य वर्धन्ते ध्रुवं च महदश्नुते ॥१८॥
ये के चिद्भूमिपतयस्तान्सर्वानन्ववेक्षयेत् ।
सुहृद्भिरनभिख्यातैस्तेन राजा न रिष्यते ॥१९॥
अपकृत्य बलस्थस्य दूरस्थोऽस्मीति नाश्वसेत् ।
श्येनानुचरितैर्ह्येते निपतन्ति प्रमाद्यतः ॥२०॥
दृढमूलस्त्वदुष्टात्मा विदित्वा बलमात्मनः ।
अबलानभियुञ्जीत न तु ये बलवत्तराः ॥२१॥
विक्रमेण महीं लब्ध्वा प्रजा धर्मेण पालयन् ।
आहवे निधनं कुर्याद्राजा धर्मपरायणः ॥२२॥
मरणान्तमिदं सर्वं नेह किं चिदनामयम् ।
तस्माद्धर्मे स्थितो राजा प्रजा धर्मेण पालयेत् ॥२३॥
रक्षाधिकरणं युद्धं तथा धर्मानुशासनम् ।
मन्त्रचिन्त्यं सुखं काले पञ्चभिर्वर्धते मही ॥२४॥
एतानि यस्य गुप्तानि स राजा राजसत्तम ।
सततं वर्तमानोऽत्र राजा भुङ्क्ते महीमिमाम् ॥२५॥
नैतान्येकेन शक्यानि सातत्येनान्ववेक्षितुम् ।
एतेष्वाप्तान्प्रतिष्ठाप्य राजा भुङ्क्ते महीं चिरम् ॥२६॥
दातारं संविभक्तारं मार्दवोपगतं शुचिम् ।
असन्त्यक्त मनुष्यं च तं जनाः कुर्वते प्रियम् ॥२७॥
यस्तु निःश्रेयसं ज्ञात्वा ज्ञानं तत्प्रतिपद्यते ।
आत्मनो मतमुत्सृज्य तं लोकोऽनुविधीयते ॥२८॥
योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते ।
शृणोति प्रतिकूलानि वि मना नचिरादिव ॥२९॥
अग्राम्यचरितां बुद्धिमत्यन्तं यो न बुध्यते ।
जितानामजितानां च क्षत्रधर्मादपैति सः ॥३०॥
मुख्यानमात्यान्यो हित्वा निहीनान्कुरुते प्रियान् ।
स वै व्यसनमासाद्य गाध मार्तो न विन्दति ॥३१॥
यः कल्याण गुणाञ्ज्ञातीन्द्वेषान्नैवाभिमन्यते ।
अदृढात्मा दृढक्रोधो नास्यार्थो रमतेऽन्तिके ॥३२॥
अथ यो गुणसम्पन्नान्हृदयस्याप्रियानपि ।
प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति ॥३३॥
नाकाले प्रणयेदर्थान्नाप्रिये जातु सञ्ज्वरेत् ।
प्रिये नातिभृशं हृष्येद्युज्येतारोग्य कर्मणि ॥३४॥
के मानुरक्ता राजानः के भयात्समुपाश्रिताः ।
मध्यस्थ दोषाः के चैषामिति नित्यं विचिन्तयेत् ॥३५॥
न जातु बलवान्भूत्वा दुर्बले विश्वसेत्क्व चित् ।
भारुण्ड सदृशा ह्येते निपतन्ति प्रमाद्यतः ॥३६॥
अपि सर्वैर्गुणैर्युक्तं भर्तारं प्रियवादिनम् ।
अभिद्रुह्यति पापात्मा तस्माद्धि विभिषेज्जनात् ॥३७॥
एतां राजोपनिषदं ययातिः स्माह नाहुषः ।
मनुष्यविजये युक्तो हन्ति शत्रूननुत्तमान् ॥३८॥
९५
अयुद्धेनैव विजयं वर्धयेद्वसुधाधिपः ।
जघन्यमाहुर्विजयं यो युद्धेन नराधिप ॥१॥
न चाप्यलब्धं लिप्सेत मूले नातिदृढे सति ।
न हि दुर्बलमूलस्य राज्ञो लाभो विधीयते ॥२॥
यस्य स्फीतो जनपदः सम्पन्नः प्रिय राजकः ।
सन्तुष्टपुष्टसचिवो दृढमूलः स पार्थिवः ॥३॥
यस्य योधाः सुसन्तुष्टाः सान्त्विताः सूपधास्थिताः ।
अल्पेनापि स दण्डेन महीं जयति भूमिपः ॥४॥
पौरजानपदा यस्य स्वनुरक्ताः सुपूजिताः ।
सधना धान्यवन्तश्च दृढमूलः स पार्थिवः ॥५॥
प्रभावकालावधिकौ यदा मन्येत चात्मनः ।
तदा लिप्सेत मेधा वी परभूमिं धनान्युत ॥६॥
भोगेष्वदयमानस्य भूतेषु च दया वतः ।
वर्धते त्वरमाणस्य विषयो रक्षितात्मनः ॥७॥
तक्षत्यात्मानमेवैष वनं परशुना यथा ।
यः सम्यग्वर्तमानेषु स्वेषु मिथ्या प्रवर्तते ॥८॥
न वै द्विषन्तः क्षीयन्ते राज्ञो नित्यमपि घ्नतः ।
क्रोधं नियन्तुं यो वेद तस्य द्वेष्टा न विद्यते ॥९॥
यदार्य जनविद्विष्टं कर्म तन्नाचरेद्बुधः ।
यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् ॥१०॥
नैनमन्येऽवजानन्ति नात्मना परितप्यते ।
कृत्यशेषेण यो राजा सुखान्यनुबुभूषति ॥११॥
इदं वृत्तं मनुष्येषु वर्तते यो महीपतिः ।
उभौ लोकौ विनिर्जित्य विजये सम्प्रतिष्ठते ॥१२॥
इत्युक्तो वामदेवेन सर्वं तत्कृतवान्नृपः ।
तथा कुर्वंस्त्वमप्येतौ लोकौ जेता न संशयः ॥१३॥

॥ इति वाअमदेवगीता समाप्ता ॥

N/A

N/A
Last Updated : July 12, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP