TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|गीता|
पाराशरगीता

पाराशरगीता

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.

Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


पाराशरगीता

॥ पाराशरगीता॥
२७९
य्
अतः परं महाबाहो यच्छ्रेयस्तद्वदस्व मे ।
न तृप्याम्यमृतस्येव वससस्ते पितामह ॥१॥
किं कर्म पुरुषः कृत्वा शुभं पुरुषसत्तम ।
श्रेयः परमवाप्नोति प्रेत्य चेह च तद्वद ॥२॥
भी
अत्र ते वर्तयिष्यामि यथापूर्वं महायशः ।
पराशरं महात्मानं पप्रच्छ जनको नृपः ॥३॥
किं श्रेयः सर्वभूतानामस्मिँल्लोके परत्र च ।
यद्भवेत्प्रतिपत्तव्यं तद्भवान्प्रब्रवीतु मे ॥४॥
ततः स तपसा युक्तः सर्वधर्माविधानवित् ।
नृपायानुग्रह मना मुनिर्वाक्यमथाब्रवीत् ॥५॥
धर्म एव कृतः श्रेयानिह लोके परत्र च ।
तस्माद्धि परमं नास्ति यथा प्राहुर्मनीषिणः ॥६॥
प्रतिपद्य नरो धर्मं स्वर्गलोके महीयते ।
धर्मात्मकः कर्म विधिर्देहिनां नृपसत्तम ।
तस्मिन्नाश्रमिणः सन्तः स्वकर्माणीह कुर्वते ॥७॥
चतुर्विधा हि लोकस्य यात्रा तात विधीयते ।
मर्त्या यत्रावतिष्ठन्ते सा च कामात्प्रवर्तते ॥८॥
सुकृतासुकृतं कर्म निषेव्य विविधैः क्रमैः ।
दशार्ध प्रविभक्तानां भूतानां बहुधा गतिः ॥९॥
सौवर्णं राजतं वापि यथा भान्दं निषिच्यते ।
तथा निषिच्यते जन्तुः पूर्वकर्म वशानुगः ॥१०॥
नाबीजाज्जायते किं चिन्नाकृत्वा सुखमेधते ।
सुकृती विन्दति सुखं प्राप्य देहक्षयं नरः ॥११॥
दैवं तात न पश्यामि नास्ति दैवस्य साधनम् ।
स्वभावतो हि संसिद्धा देवगन्धर्वदानवाः ॥१२॥
प्रेत्य जातिकृतं कर्म न स्मरन्ति सदा जनाः ।
ते वै तस्य फलप्राप्तौ कर्म चापि चतुर्विधम् ॥१३॥
लोकयात्राश्रयश्चैव शब्दो वेदाश्रयः कृतः ।
शान्त्यर्थं मनसस्तात नैतद्वृद्धानुशासनम् ॥१४॥
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् ।
कुरुते यादृशं कर्म तादृशं प्रतिपद्यते ॥१५॥
निरन्तरं च मिश्रं च फलते कर्म पार्थिव ।
कल्यानं यदि वा पापं न तु नाशोऽस्य विद्यते ॥१६॥
कदा चित्सुकृतं तात कूतस्थमिव तिष्ठति ।
मज्जमानस्य संसारे यावद्दुःखाद्विमुच्यते ॥१७॥
ततो दुःखक्षयं कृत्वा सुकृतं कर्म सेवते ।
सुकृतक्षयाद्दुष्कृतं च तद्विद्धि मनुजाधिप ॥१८॥
दमः क्षमा धृतिस्तेजः सन्तोषः सत्यवादिता ।
ह्रीरहिंसाव्यसनिता दाक्ष्यं चेति सुखावहाः ॥१९॥
दुष्कृते सुकृते वापि न जन्तुरयतो भवेत् ।
नित्यं मनः समाधाने प्रयतेत विचक्षणः ॥२०॥
नायं परस्य सुकृतं दुष्कृतं वापि सेवते ।
करोति यादृशं कर्म तादृशं प्रतिपद्यते ॥२१॥
सुखदुःखे समाधाय पुमानन्येन गच्छति ।
अन्येनैव जनः सर्वः सङ्गतो यश्च पार्थिव ॥२२॥
परेषां यदसूयेत न तत्कुर्यात्स्वयं नरः ।
यो ह्यसूयुस्तथायुक्तः सोऽवहासं नियच्छति ॥२३॥
भीरू राजन्यो ब्राह्मणः सर्वभक्षो
वैश्योऽनीहावान्हीनवर्णोऽलसश् च ।
विद्वांश्चाशीलो वृत्तहीनः कुलीनः
सत्याद्भ्रष्टो ब्राह्मणः स्त्री च दुष्टा ॥२४॥
रागी मुक्तः पचमानोऽऽत्महेतोर्
मूर्खो वक्ता नृप हीनं च रास्त्रम् ।
एते सर्वे शोच्यतां यान्ति राजन्
यश्चायुक्तः स्नेहहीनः प्रजासु ॥२५॥
२८०
पराज़र
मनोरथरथं प्राप्य इन्द्रियार्थ हयं नरः ।
रश्मिभिर्ज्ञानसम्भूतैर्यो गच्छति स बुद्धिमान् ॥१॥
सेवाश्रितेन मनसा वृत्ति हीनस्य शस्यते ।
द्विजातिहस्तान्निर्वृत्ता न तु तुल्यात्परस्परम् ॥२॥
आयुर्नसुलभं लब्ध्वा नावकर्षेद्विशां पते ।
उत्कर्षार्थं प्रयतते नरः पुण्येन कर्मणा ॥३॥
वर्णेभ्योऽपि परिभ्रष्टः स वै संमानमर्हति ।
न तु यः सत्क्रियां प्राप्य राजसं कर्म सेवते ॥४॥
वर्णोत्कर्षमवाप्नोति नरः पुण्येन कर्मणा ।
दुर्लभं तमलब्धा हि हन्यात्पापेन कर्मणा ॥५॥
अज्ञानाद्धि कृतं पापं तपसैवाभिनिर्नुदेत् ।
पापं हि कर्मफलति पापमेव स्वयं कृतम् ।
तस्मात्पापं न सेवेत कर्म दुःखफलोदयम् ॥६॥
पापानुबन्धं यत्कर्म यद्यपि स्यान्महाफलम् ।
न तत्सेवेत मेधावी शुचिः कुसलिलं यथा ॥७॥
किं कस्तमनुपश्यामि फलं पापस्य कर्मणः ।
प्रत्यापन्नस्य हि सतो नात्मा तावद्विरोचते ॥८॥
प्रत्यापत्तिश्च यस्येह बालिशस्य न जायते ।
तस्यापि सुमहांस्तापः प्रस्थितस्योपजायते ॥९॥
विरक्तं शोध्यते वस्त्रं न तु कृष्णोपसंहितम् ।
प्रयत्नेन मनुष्येन्द्र पापमेवं निबोध मे ॥१०॥
स्वयं कृत्वा तु यः पापं शुभमेवानुतिष्ठति ।
प्रायश्चित्तं नरः कर्तुमुभयं सोऽश्नुते पृथक् ॥११॥
अजानात्तु कृतां हिंसामहिंसा व्यपकर्षति ।
ब्राह्मणाः शास्त्रनिर्देशादित्याहुर्ब्रह्मवादिनः ॥१२॥
कथा कामकृतं चास्य विहिंसैवापकर्षति ।
इत्याहुर्धर्मशास्त्रज्ञा ब्राह्मणा वेदपारगाः ॥१३॥
अहं तु तावत्पश्यामि कर्म यद्वर्तते कृतम् ।
गुणयुक्तं प्रकाशं च पापेनानुपसंहितम् ॥१४॥
यथा सूक्ष्माणि कर्माणि फलन्तीह यथातथम् ।
बुद्धियुक्तानि तानीह कृतानि मनसा सह ॥१५॥
भवत्यल्पफलं कर्म सेवितं नित्यमुल्बनम् ।
अबुद्धिपूर्वं धर्मज्ञ कृतमुग्रेण कर्मणा ॥१६॥
कृतानि यानि कर्माणि दैवतैर्मुनिभिस्तथा ।
नाचरेत्तानि धर्मात्मा श्रुत्वा चापि न कुत्सयेत् ॥१७॥
सञ्चिन्त्य मनसा राजन्विदित्वा शक्तिमात्मनः ।
करोति यः शुभं कर्म स वै भद्राणि पश्यति ॥१८॥
नवे कपाले सलिलं संन्यस्तं हीयते यथा ।
नवेतरे तथा भावं प्राप्नोति सुखभावितम् ॥१९॥
सतोयेऽन्यत्तु यत्तोयं तस्मिन्नेव प्रसिच्यते ।
वृद्धे वृद्धिमवाप्नोति सलिले सलिलं यथा ॥२०॥
एवं कर्माणि यानीह बुद्धियुक्तानि भूपते ।
नसमानीह हीनानि तानि पुण्यतमान्यपि ॥२१॥
राज्ञा जेतव्याः सायुधाश्चोन्नताश् च
सम्यक्कर्तव्यं पालनं च प्रजानाम् ।
अग्निश्चेयो बहुभिश्चापि यज्ञैर्
अन्ते मध्ये वा वनमाश्रित्य स्थेयम् ॥२२॥
दमान्वितः पुरुषो धर्मशीलो
भूतानि चात्मानमिवानुपश्येत् ।
गरीयसः पूजयेदात्मशक्त्या
सत्येन शीलेन सुखं नरेन्द्र ॥२३॥
२८१
पराज़र
कः कस्य चोपकुरुते कश् च कस्मै प्रयच्छति ।
प्रानी करोत्ययं कर्म सर्वमात्मार्थमात्मना ॥१॥
गौरवेण परित्यक्तं निःस्नेहं परिवर्जयेत् ।
सोदर्यं भ्रातरमपि किमुतान्यं पृथग्जनम् ॥२॥
विशिष्टस्य विशिष्टाच्च तुल्यौ दानप्रतिग्रहौ ।
तयोः पुण्यतरं दानं तद्द्विजस्य प्रयच्छतः ॥३॥
न्यायागतं धनं वर्णैर्न्यायेनैव विवर्धितम् ।
संरक्ष्यं यत्नमास्थाय धर्मार्थमिति निश्चयः ॥४॥
न धर्मार्थी नृशंसेन कर्मणा धनमर्जयेत् ।
शक्तितः सर्वकार्याणि कुर्यान्नर्द्धिमनुस्मरेत् ॥५॥
अपो हि प्रयतः शीतास्तापिता ज्वलनेन वा ।
शक्तितोऽतिथये दत्त्वा क्षुधार्तायाश्नुते फलम् ॥६॥
रन्तिदेवेन लोकेष्टा सिद्धिः प्राप्ता महात्मना ।
फलपत्रैरथो मूलैर्मुनीनर्चितवानसौ ॥७॥
तैरेव फलपत्रैश्च स माथरमतोषयत् ।
तस्माल्लेभे परं स्थानं शैब्योऽपि पृथिवीपतिः ॥८॥
देवतातिथिभृत्येभ्यः पितृभ्योऽथात्मनस्तथा ।
ऋणवाञ्जायते मर्त्यस्तस्मादनृणतां व्रजेत् ॥९॥
स्वाध्यायेन महर्षिभ्यो देवेभ्यो यज्ञकर्मणा ।
पितृभ्यः श्राद्धदानेन नृणाम् अभ्यर्चनेन च ॥१०॥
वाचः शेषावहार्येण पालनेनात्मनोऽपि च ।
यथावद्धृत्य वर्गस्य चिकीर्षेद्धर्ममादितः ॥११॥
प्रयत्नेन च संसिद्धा धनैरपि विवर्जिताः ।
सम्यग्घुत्वा हुतवहं मुनयः सिद्धिमागताः ॥१२॥
विश्वामित्रस्य पुत्रत्वमृचीक तनयोऽगमत् ।
ऋग्भिः स्तुत्वा महाभागो देवान्वै यज्ञभागिनः ॥१३॥
गतः शुक्रत्वमुशना देवदेव प्रसादनात् ।
देवीं स्तुत्वा तु गगने मोदते तेजसा वृतः ॥१४॥
असितो देवलश्चैव तथा नारद पर्तवौ ।
कक्षीवाञ्जामदग्न्यश्च रामस्तान्द्यस्तथांशुमान् ॥१५॥
वसिष्ठो जमदग्निश्च विश्वामित्रोऽत्रिरेव च ।
भरद्वाजो हरिश्मश्रुः कुन्दधारः श्रुतश्रवाः ॥१६॥
एते महर्षयः स्तुत्वा विष्णुमृग्भिः समाहिताः ।
लेभिरे तपसा सिद्धिं प्रसादात्तस्य धीमतः ॥१७॥
अनर्हाश्चार्हतां प्राप्ताः सन्तः स्तुत्वा तमेव ह ।
न तु वृद्धिमिहान्विच्छेत्कर्मकृत्वा जुगुप्सितम् ॥१८॥
येऽर्था धर्मेण ते सत्या येऽधर्मेण धिगस्तु तान् ।
धर्मं वै शाश्वतं लोके न जह्याद्धनकाङ्क्षया ॥१९॥
आहिताग्निर्हि धर्मात्मा यः स पुण्यकृदुत्तमः ।
वेदा हि सर्वे राजेन्द्र स्थितास्त्रिष्वग्निषु प्रभो ॥२०॥
स चाप्यग्न्याहितो विप्रः क्रिया यस्य न हीयते ।
श्रेयो ह्यनाहिताग्नित्वमग्निहोत्रं न निष्क्रियम् ॥२१॥
अग्निरात्मा च माता च पिता जनयिता तथा ।
गुरुश्च नरशार्दूल परिचर्या यथातथम् ॥२२॥
मानं त्यक्त्वा यो नरो वृद्धसेवी
विद्वान्क्लीबः पश्यति प्रीतियोगात् ।
दाक्ष्येणाहीनो धर्मयुक्तो नदान्तो
लोकेऽस्मिन्वै पूज्यते सद्भिरार्यः ॥२३॥
२८२
पराज़र
वृत्तिः सकाशाद्वर्णेभ्यस्त्रिभ्यो हीनस्य शोभना ।
प्रीत्योपनीता निर्दिष्टा धर्मिष्ठान्कुरुते सदा ॥१॥
वृत्तिश्चेन्नास्ति शूद्रस्य पितृपैतामही ध्रुवा ।
न वृत्तिं परतो मार्गेच्छुश्रूसां तु प्रयोजयेत् ॥२॥
सद्भिस्तु सह संसर्गः शोभते धर्मदर्शिभिः ।
नित्यं सर्वास्ववस्थासु नासद्भिरिति मे मतिः ॥३॥
यथोदय गिरौ द्रव्यं संनिकर्षेण दीप्यते ।
तथा सत्संनिकर्षेण हीनवर्णोऽपि दीप्यते ॥४॥
यादृशेन हि वर्णेन भाव्यते शुक्लमम्बरम् ।
तादृशं कुरुते रूपमेतदेवमवैहि मे ॥५॥
तस्माद्गुणेषु रज्येथा मा दोषेषु कदा चन ।
अनित्यमिह मर्त्यानां जीवितं हि चलाचलम् ॥६॥
सुखे वा यदि वा दुःखे वर्तमानो विचक्षणः ।
यश्चिनोति शुभान्येव स भद्राणीह पश्यति ॥७॥
धर्मादपेतं यत्कर्म यद्यपि स्यान्महाफलम् ।
न तत्सेवेत मेधावी न तद्धितमिहोच्यते ॥८॥
यो हृत्वा गोसहस्राणि नृपो दद्यादरक्षिता ।
स शब्दमात्रफलभाग्राजा भवति तस्करः ॥९॥
स्वयम्भूरसृजच्चाग्रे धातारं लोकपूजितम् ।
धातासृजत्पुत्रमेकं प्रजानां धारणे रतम् ॥१०॥
तमर्चयित्वा वैश्यस्तु कुर्यादत्यर्थमृद्धिमत् ।
रक्षितव्यं तु राजन्यैरुपयोज्यं द्विजातिभिः ॥११॥
अजिह्मैरशथ क्रोधैर्हव्यकव्य प्रयोक्तृभिः ।
शूद्रैर्निर्मार्जनं कार्यमेवं धर्मो न नश्यति ॥१२॥
अप्रनस्ते ततो धर्मे भवन्ति सुखिताः प्रजाः ।
सुखेन तासां राजेन्द्र मोदन्ते दिवि देवताः ॥१३॥
तस्माद्यो रक्षति नृपः स धर्मेणाभिपूज्यते ।
अधीते चापि यो विप्रो वैश्यो यश्चार्जने रतः ॥१४॥
यश्च शुश्रूसते शूद्रः सततं नियतेन्द्रियः ।
अतोऽन्यथा मनुष्येन्द्र स्वधर्मात्परिहीयते ॥१५॥
प्राण सन्तापनिर्दिष्टाः काकिन्योऽपि महाफलाः ।
न्यायेनोपार्जिता दत्ताः किमुतान्याः सहस्रशः ॥१६॥
सत्कृत्य तु द्विजातिभ्यो यो ददाति नराधिप ।
यादृशं तादृशं नित्यमश्नाति फलमूर्जितम् ॥१७॥
अभिगम्य दत्तं तुष्ट्या यद्धन्यमाहुरभिष्टुतम् ।
याचितेन तु यद्दत्तं तदाहुर्मध्यमं बुधाः ॥१८॥
अवज्ञया दीयते यत्तथैवाश्रद्धयापि च ।
तदाहुरधमं दानं मुनयः सत्यवादिनः ॥१९॥
अतिक्रमे मज्जमानो विविधेन नरः सदा ।
तथा प्रयत्नं कुर्वीत यथा मुच्येत संशयात् ॥२०॥
दमेन शोभते विप्रः क्षत्रियो विजयेन तु ।
धनेन वैश्यः शूद्रस्तु नित्यं दाक्ष्येण शोभते ॥२१॥
२८३
पराज़र
प्रतिग्रहागता विप्रे क्षत्रिये शस्त्रनिर्जिताः ।
वैश्ये न्यायार्जिताश्चैव शूद्रे शुश्रूसयार्जिताः ।
स्वलाप्यर्थाः प्रशस्यन्ते धर्मस्यार्थे महाफलाः ॥१॥
नित्यं त्रयाणां वर्णानां शूद्रः शुश्रूसुरुच्यते ।
क्षत्रधर्मा वैश्य धर्मा नावृत्तिः पतति द्विजः ।
शूद्र कर्मा यदा तु स्यात्तदा पतति वै द्विजः ॥२॥
वानिज्यं पाशुपाल्यं च तथा शिल्पोपजीवनम् ।
शूद्रस्यापि विधीयन्ते यदा वृत्तिर्न जायते ॥३॥
रङ्गावतरणं चैव तथारूपोपजीवनम् ।
मद्य मांसोपजीव्यं च विक्रयो लोहचर्मणोः ॥४॥
अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम् ।
कृतपूर्विणस्तु त्यजतो महान्धर्म इति श्रुतिः ॥५॥
संसिद्धिः पुरुषो लोके यदाचरति पापकम् ।
मदेनाभिप्लुत मनास्तच्च न ग्राह्यमुच्यते ॥६॥
श्रूयन्ते हि पुराणे वै प्रजा धिग्दन्द शासनाः ।
दान्ता धर्मप्रधानाश्च न्यायधर्मानुवर्तकाः ॥७॥
धर्म एव सदा नॄणामिह राजन्प्रशस्यते ।
धर्मवृद्धा गुणानेव सेवन्ते हि नरा भुवि ॥८॥
तं धर्ममसुरास्तात नामृष्यन्त जनाधिप ।
विवर्धमानाः क्रमशस्तत्र तेऽन्वाविशन्प्रजाः ॥९॥
तेषां दर्पः समभवत्प्रजानां धर्मनाशनः ।
दर्पात्मनां ततः क्रोधः पुनस्तेषामजायत ॥१०॥
ततः क्रोधाभिभूतानां वृत्तं लज्जा समन्वितम् ।
ह्रीश्चैवाप्यनशद्राजंस्ततो मोहो व्यजायत ॥११॥
ततो मोहपरीतास्ते नापश्यन्त यथा पुरा ।
परस्परावमर्देन वर्तयन्ति यथासुखम् ॥१२॥
तान्प्राप्य तु स धिग्दण्डो न कारणमतोऽभवत् ।
ततोऽभ्यगच्छन्देवांश्च ब्राह्मणांश्चावमन्य ह ॥१३॥
एतस्मिन्नेव काले तु देवा देववरं शिवम् ।
अगच्छञ्शरणं वीरं बहुरूपं गणाधिपम् ॥१४॥
तेन स्म ते गगनगाः सपुराः पातिताः क्षितौ ।
तिस्रोऽप्येकेन बानेन देवाप्यायित तेजसा ॥१५॥
तेषामधिपतिस्त्वासीद्भीमो भीमपराक्रमः ।
देवतानां भयकरः स हतः शूलपाणिना ॥१६॥
तस्मिन्हतेऽथ स्वं भावं प्रत्यपद्यन्त मानवाः ।
प्रावर्तन्त च वेदा वै शास्त्राणि च यथा पुरा ॥१७॥
ततोऽभ्यसिञ्चन्राज्येन देवानां दिवि वासवम् ।
सप्तर्षयश्चान्वयुञ्जन्नराणां दन्द धारणे ॥१८॥
सप्तर्षीणामथोर्ध्वं च विपृथुर्नाम पार्थिवः ।
राजानः क्षत्रियाश्चैव मन्दलेषु पृथक्पृथक् ॥१९॥
महाकुलेषु ये जाता वृत्ताः पूर्वतराश् च ये ।
तेषामथासुरो भावो हृदयान्नापसर्पति ॥२०॥
तस्मात्तेनैव भावेन सानुषङ्गेन पार्थिवाः ।
आसुराण्येव कर्माणि न्यसेवन्भीमविक्रमाः ॥२१॥
प्रत्यतिष्ठंश्च तेष्वेव तान्येव स्थापयन्ति च ।
भजन्ते तानि चाद्यापि ये बालिशतमा नराः ॥२२॥
तस्मादहं ब्रवीमि त्वां राजन्सञ्चिन्त्य शास्त्रतः ।
संसिद्धाधिगमं कुर्यात्कर्म हिंसात्मकं त्यजेत् ॥२३॥
न सङ्करेण द्रविणं विचिन्वीत विचक्षणः ।
धर्मार्थं न्यायमुत्सृज्य न तत्कल्यानमुच्यते ॥२४॥
स त्वमेवंविधो दान्तः क्षत्रियः प्रियबान्धवः ।
प्रजा भृत्यांश्च पुत्रांश्च स्वधर्मेणानुपालय ॥२५॥
इष्टानिष्ट समायोगो वैरं सौहार्दमेव च ।
अथ जातिसहस्राणि बहूनि परिवर्तते ॥२६॥
तस्माद्गुणेषु रज्येथा मा दोषेषु कदा चन ।
निर्गुणो यो हि दुर्बुद्धिरात्मनः सोऽरिरुच्यते ॥२७॥
मानुषेषु महाराज धर्माधर्मौ प्रवर्ततः ।
न तथान्येषु भूतेषु मनुष्यरहितेष्विह ॥२८॥
धर्मशीलो नरो विद्वानीहकोऽनीहकोऽपि वा ।
आत्मभूतः सदा लोके चरेद्भूतान्यहिंसयन् ॥२९॥
यदा व्यपेतद्धृल्लेखं मनो भवति तस्य वै ।
नानृतं चैव भवति तदा कल्यानमृच्छति ॥३०॥
२८४
पराज़र
एष धर्मविधिस्तात गृहस्थस्य प्रकीर्तितः ।
तपस्विधिं तु वक्ष्यामि तन्मे निगदतः शृणु ॥१॥
प्रायेन हि गृहस्थस्य ममत्वं नाम जायते ।
सङ्गागतं नरश्रेष्ठ भावैस्तामसराजसैः ॥२॥
गृहाण्याश्रित्य गावश्च क्षेत्राणि च धनानि च ।
दाराः पुत्राश्च भृत्याश्च भवन्तीह नरस्य वै ॥३॥
एवं तस्य प्रवृत्तस्य नित्यमेवानुपश्यतः ।
रागद्वेषौ विवर्धेते ह्यनित्यत्वमपश्यतः ॥४॥
रागद्वेषाभिभूतं च नरं द्रव्यवशानुगम् ।
मोहजाता रतिर्नाम समुपैति नराधिप ॥५॥
कृतार्थो भोगतो भूत्वा स वै रतिपरायनः ।
लाभं ग्राम्यसुखादन्यं रतितो नानुपश्यति ॥६॥
ततो लोभाभिभूतात्मा सङ्गाद्वर्धयते जनम् ।
पुष्ट्यर्थं चैव तस्येह जनस्यार्थं चिकीर्षति ॥७॥
स जानन्नपि चाकार्यमर्थार्थं सेवते नरः ।
बाल स्नेहपरीतात्मा तत्क्षयाच्चानुतप्यते ॥८॥
ततो मानेन सम्पन्नो रक्षन्नात्मपराजयम् ।
करोति येन भोगी स्यामिति तस्माद्विनश्यति ॥९॥
तपो हि बुद्धियुक्तानां शाश्वतं ब्रह्म दर्शनम् ।
अन्विच्छतां शुभं कर्म नराणां त्यजतां सुखम् ॥१०॥
स्नेहायतन नाशाच्च धननाशाच्च पार्थिव ।
आधिव्याधि प्रतापाच्च निर्वेदमुपगच्छति ॥११॥
निर्वेदादात्मसम्बोधः सम्बोधाच्छास्त्र दर्शनम् ।
शास्त्रार्थदर्शनाद्राजंस्तप एवानुपश्यति ॥१२॥
दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान् ।
यो वै प्रिय सुखे क्षीणे तपः कर्तुं व्यवस्यति ॥१३॥
तपः सर्वगतं तात हीनस्यापि विधीयते ।
जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रदेशकम् ॥१४॥
प्रजापतिः प्रजाः पूर्वमसृजत्तपसा विभुः ।
क्व चित्क्व चिद्व्रतपरो व्रतान्यास्थाय पार्थिव ॥१५॥
आदित्या वसवो रुद्रास्तथैवाग्न्यश्विमारुताः ।
विश्वेदेवास्तथा साध्याः पितरोऽथ मरुद्गणाः ॥१६॥
यक्षराक्षस गन्धर्वाः सिद्धाश्चान्ये दिवौकसः ।
संसिद्धास्तपसा तात ये चान्ये स्वर्गवासिनः ॥१७॥
ये चादौ ब्रह्मणा सृष्टा ब्राह्मणास्तपसा पुरा ।
ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा ॥१८॥
मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः ।
महाकुलेषु दृश्यन्ते तत्सर्वं तपसः फलम् ॥१९॥
कौशिकानि च वस्त्राणि शुभान्याभरणानि च ।
वाहनासन यानानि सर्वं तत्तपसः फलम् ॥२०॥
मनोऽनुकूलाः प्रमदा रूपवत्यः सहस्रशः ।
वासः प्रासादपृष्ठे च तत्सर्वं तपसः फलम् ॥२१॥
शयनानि च मुख्यानि भोज्यानि विविधानि च ।
अभिप्रेतानि सर्वाणि भवन्ति कृतकर्मणाम् ॥२२॥
नाप्राप्यं तपसा किं चित्त्रैलोक्येऽस्मिन्परन्तप ।
उपभोग परित्यागः फलान्यकृतकर्मणाम् ॥२३॥
सुखितो दुःखितो वापि नरो लोभं परित्यजेत् ।
अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम ॥२४॥
असन्तोषोऽसुखायैव लोभादिन्द्रियविभ्रमः ।
ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यास वर्जिता ॥२५॥
नष्ट प्रज्ञो यदा भवति तदा न्यायं न पश्यति ।
तस्मात्सुखक्षये प्राप्ते पुमानुग्रं तपश् चरेत् ॥२६॥
यदिष्टं तत्सुखं प्राहुर्द्वेष्यं दुःखमिहोच्यते ।
कृताकृतस्य तपसः फलं पश्यस्व यादृशम् ॥२७॥
नित्यं भद्राणि पश्यन्ति विषयांश्चोपभुञ्जते ।
प्राकाश्यं चैव गच्छन्ति कृत्वा निष्कल्मषं तपः ॥२८॥
अप्रियाण्यवमानांश्च दुःखं बहुविधात्मकम् ।
फलार्थी तत्पथत्यक्तः प्राप्नोति विषयात्मकम् ॥२९॥
धर्मे तपसि दाने च विचिकित्सास्य जायते ।
स कृत्वा पापकान्येव निरयं प्रतिपद्यते ॥३०॥
सुखे तु वर्तमानो वै दुःखे वापि नरोत्तम ।
स्ववृत्ताद्यो न चलति शास्त्रचक्षुः स मानवः ॥३१॥
इषुप्रपात मात्रं हि स्पर्शयोगे रतिः स्मृता ।
रसने दर्शने घ्राणे श्रवणे च विशां पते ॥३२॥
ततोऽस्य जायते तीव्रा वेदना तत्क्षयात्पुनः ।
बुधा येन प्रशंसन्ति मोक्षं सुखमनुत्तमम् ॥३३॥
ततः फलार्थं चरति भवन्ति ज्यायसो गुणाः ।
धर्मवृत्त्या च सततं कामार्थाभ्यां न हीयते ॥३४॥
अप्रयत्नागताः सेव्या गृहस्थैर्विषयाः सदा ।
प्रयत्नेनोपगम्यश्च स्वधर्म इति मे मतिः ॥३५॥
मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम् ।
धर्मक्रिया वियुक्तानामशक्त्या संवृतात्मनाम् ॥३६॥
क्रियमाणं यदा कर्म नाशं गच्छति मानुषम् ।
तेषां नान्यदृते लोके तपसः कर्म विद्यते ॥३७॥
सर्वात्मना तु कुर्वीत गृहस्थः कर्म निश्चयम् ।
दाक्ष्येण हव्यकव्यार्थं स्वधर्मं विचरेन्नृप ॥३८॥
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितम् ।
एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितम् ॥३९॥
२८५
जनक
वर्णो विशेषवर्णानां महर्षे केन जायते ।
एतदिच्छाम्यहं श्रोतुं तद्ब्रूहि वदतां वर ॥१॥
यदेतज्जायतेऽपत्यं स एवायमिति श्रुतिः ।
कथं ब्राह्मणतो जातो विशेषग्रहणं गतः ॥२॥
पराज़र
एवमेतन्महाराज येन जातः स एव सः ।
तपसस्त्वपकर्षेण जातिग्रहणतां गतः ॥३॥
सुक्षेत्राच्च सुबीजाच्च पुण्यो भवति सम्भवः ।
अतोऽन्यतरतो हीनादवरो नाम जायते ॥४॥
वक्राद्भुजाभ्यामूरुभ्यां पद्भ्यां चैवाथ जज्ञिरे ।
सृजतः प्रजापतेर्लोकानिति धर्मविदो विदुः ॥५॥
मुखजा ब्राह्मणास्तात बाहुजाः क्षत्रबन्धवः ।
ऊरुजा धनिनो राजन्पादजाः परिचारकाः ॥६॥
चतुर्णामेव वर्णानामागमः पुरुषर्षभ ।
अतोऽन्ये त्वतिरिक्ता ये ते वै सङ्करजाः स्मृताः ॥७॥
क्षत्रजातिरथाम्बस्था उग्रा वैदेहकास्तथा ।
श्वपाकाः पुल्कसाः स्तेना निषादाः सूतमागधाः ॥८॥
आयोगाः करणा व्रात्याश्चन्दालाश्च नराधिप ।
एते चतुर्भ्यो वर्णेभ्यो जायन्ते वै परस्परम् ॥९॥
जनक
ब्रह्मणैकेन जातानां नानात्वं गोत्रतः कथम् ।
बहूनीह हि लोके वै गोत्राणि मुनिसत्तम ॥१०॥
यत्र तत्र कथं जाताः स्वयोनिं मुनयो गताः ।
शूद्रयोनौ समुत्पन्ना वियोनौ च तथापरे ॥११॥
पराज़र
राजन्नेतद्भवेद्ग्राह्यमपकृष्टेन जन्मना ।
महात्मानं समुत्पत्तिस्तपसा भावितात्मनाम् ॥१२॥
उत्पाद्य पुत्रान्मुनयो नृपतौ यत्र तत्र ह ।
स्वेनैव तपसा तेषामृषित्वं विदधुः पुनः ॥१३॥
पितामहश्च मे पूर्वमृश्यशृङ्गश्च काश्यपः ।
वतस्तान्द्यः कृपश्चैव कक्षीवान्कमथादयः ॥१४॥
यवक्रीतश्च नृपते द्रोणश्च वदतां वरः ।
आयुर्मतङ्गो दत्तश् च द्रुपदो मत्स्य एव च ॥१५॥
एते स्वां प्रकृतिं प्राप्ता वैदेह तपसोऽऽश्रयात् ।
प्रतिष्ठिता वेदविदो दमे तपसि चैव हि ॥१६॥
मूलगोत्राणि चत्वारि समुत्पन्नानि पार्थिव ।
अङ्गिराः कश्यपश्चैव वसिष्ठो भृगुरेव च ॥१७॥
कर्मतोऽन्यानि गोत्राणि समुत्पन्नानि पार्थिव ।
नामधेयानि तपसा तानि च ग्रहणं सताम् ॥१८॥
जनक
विशेषधर्मान्वर्णानां प्रब्रूहि भगवन्मम ।
तथा सामान्य धर्मांश्च सर्वत्र कुशलो ह्यसि ॥१९॥
परा
प्रतिग्रहो याजनं च तथैवाध्यापनं नृप ।
विशेषधर्मो विप्राणां रक्षा क्षत्रस्य शोभना ॥२०॥
कृषिश्च पाशुपाल्यं च वानिज्यं च विशाम् अपि ।
द्विजानां परिचर्या च शूत्र कर्म नराधिप ॥२१॥
विशेषधर्मा नृपते वर्णानां परिकीर्तिताः ।
धर्मान्साधारणांस्तात विस्तरेण शृणुष्व मे ॥२२॥
आनृशंस्यमहिंसा चाप्रमादः संविभागिता ।
श्राद्धकर्मातिथेयं च सत्यमक्रोध एव च ॥२३॥
स्वेषु दारेषु सन्तोषः शौचं नित्यानसूयता ।
आत्मज्ञानं तितिक्षा च धर्माः साधारणा नृप ॥२४॥
ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः ।
अत्र तेषामधीकारो धर्मेषु द्विपदां वर ॥२५॥
विकर्मावस्थिता वर्णाः पतन्ति नृपते त्रयः ।
उन्नमन्ति यथा सन्तमाश्रित्येह स्वकर्मसु ॥२६॥
न चापि शूद्रः पततीति निश्चयो
न चापि संस्कारमिहार्हतीति वा ।
श्रुतिप्रवृत्तं न च धर्ममाप्नुते
न चास्य धर्मे प्रतिषेधनं कृतम् ॥२७॥
वैदेहकं शूद्रमुदाहरन्ति
द्विजा महाराज श्रुतोपपन्नाः ।
अहं हि पश्यामि नरेन्द्र देवं
विश्वस्य विष्णुं जगतः प्रधानम् ॥२८॥
सतां वृत्तमनुष्ठाय निहीना उज्जिहीर्षवः ।
मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीः क्रियाः ॥२९॥
यथा यथा हि सद्वृत्तमालम्बन्तीतरे जनाः ।
तथा तथा सुखं प्राप्य प्रेत्य चेह च शेरते ॥३०॥

किं कर्म दूसयत्येनमथ जातिर्महामुने ।
सन्देहो मे समुत्पन्नस्तन्मे व्याख्यातुमर्हसि ॥३१॥
परा
असंशयं महाराज उभयं दोषकारकम् ।
कर्म चैव हि जातिश्च विशेषं तु निशामय ॥३२॥
जात्या च कर्मणा चैव दुष्टं कर्म निषेवते ।
जात्या दुष्टश्च यः पापं न करोति स पूरुषः ॥३३॥
जात्या प्रधानं पुरुषं कुर्वाणं कर्म धिक्कृतम् ।
कर्म तद्दूसयत्येनं तस्मात्कर्म न शोभनम् ॥३४॥

कानि कर्माणि धर्म्याणि लोकेऽस्मिन्द्विजसत्तम ।
न हिंसन्तीह भूतानि क्रियमाणानि सर्वदा ॥३५॥
परा
शृणु मेऽत्र महाराज यन्मां त्वं परिपृच्छसि ।
यानि कर्माण्यहिंस्राणि नरं त्रायन्ति सर्वदा ॥३६॥
संन्यस्याग्नीनुपासीनाः पश्यन्ति विगतज्वराः ।
नैःश्रेयसं धर्मपथं समारुह्य यथाक्रमम् ॥३७॥
प्रश्रिता विनयोपेता दमनित्याः सुसंशिताः ।
प्रयान्ति स्थानमजरं सर्वकर्म विवर्जिताः ॥३८॥
सर्वे वर्णा धर्मकार्याणि सम्यक्
कृत्वा राजन्सत्यवाक्यानि चोक्त्वा ।
त्यक्त्वाधर्मं दारुणं जीवलोके
यान्ति स्वर्गं नात्र कार्यो विचारः ॥३९॥
२८६
पराज़र
पिता सुखायो गुरवः स्त्रियश् च
न निर्गुणा नाम भवन्ति लोके ।
अनन्यभक्ताः प्रियवादिनश् च
हिताश्च वश्याश्च तथैव राजन् ॥१॥
पिता परं दैवतं मानवानां
मातुर्विशिष्टं पितरं वदन्ति ।
ज्ञानस्य लाभं परमं वदन्ति
जितेन्द्रियार्थाः परमाप्नुवन्ति ॥२॥
रणाजिरे यत्र शराग्निसंस्तरे
नृपात्मजो घातमवाप्य दह्यते ।
प्रयाति लोकानमरैः सुदुर्लभान्
निषेवते स्वर्गफलं यथासुखम् ॥३॥
श्रान्तं भीतं भ्रष्ट शस्त्रं रुदन्तं
पराङ्मुखं परिबर्हैश्च हीनम् ।
अनुद्यतं रोगिणं याचमानं
न वै हिंस्याद्बालवृद्धौ च राजन् ॥४॥
परिबर्हैः सुसम्पन्नमुद्यतं तुल्यतां गतम् ।
अतिक्रमेत नृपतिः सङ्ग्रामे क्षत्रियात्मजम् ॥५॥
तुल्यादिह वधः श्रेयान्विशिष्टाच्चेति निश्चयः ।
निहीनात्कातराच्चैव नृपाणां गर्हितो वधः ॥६॥
पापात्पापसमाचारान्निहीनाच्च नराधिप ।
पाप एव वधः प्रोक्तो नरकायेति निश्चयः ॥७॥
न कश्चित्त्राति वै राजन्दिष्टान्त वशमागतम् ।
सावशेषायुषं चापि कश्चिदेवापकर्षति ॥८॥
स्निग्धैश्च क्रियमाणानि कर्माणीह निवर्तयेत् ।
हिंसात्मकानि कर्माणि नायुरिच्छेत्परायुषा ॥९॥
गृहस्थानां तु सर्वेषां विनाशमभिकाङ्क्षिताम् ।
निधनं शोभनं तात पुलिनेषु क्रियावताम् ॥१०॥
आयुषि क्षयमापन्ने पञ्चत्वमुपगच्छति ।
नाकारणात्तद्भवति कारणैरुपपादितम् ॥११॥
तथा शरीरं भवति देहाद्येनोपपादितम् ।
अध्वानं गतकश्चायं प्राप्तश्चायं गृहाद्गृहम् ॥१२॥
द्वितीयं कारणं तत्र नान्यत्किं चन विद्यते ।
तद्देहं देहिनां युक्तं मोक्षभूतेषु वर्तते ॥१३॥
सिरा स्नाय्वस्थि सङ्घातं बीभत्सा मेध्य सङ्कुलम् ।
भूतानामिन्द्रियाणां च गुणानां च समागतम् ॥१४॥
त्वगन्तं देहमित्याहुर्विद्वांसोऽध्यात्मचिन्तकाः ।
पुनैरपि परिक्षीणं शरीरं मर्त्यतां गतम् ॥१५॥
शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम् ।
भूतैः प्रकृतमापन्नैस्ततो भूमौ निमज्जति ॥१६॥
भावितं कर्मयोगेन जायते तत्र तत्र ह ।
इदं शरीरं वैदेह म्रियते यत्र तत्र ह ।
तत्स्वभावोऽपरो दृष्टो विसर्गः कर्मणस्तथा ॥१७॥
न जायते तु नृपते कं चित्कालमयं पुनः ।
परिभ्रमति भूतात्मा द्यामिवाम्बुधरो महान् ॥१८॥
स पुनर्जायते राजन्प्राप्येहायतनं नृप ।
मनसः परमो ह्यात्मा इन्द्रियेभ्यः परं मनः ॥१९॥
द्विविधानां च भूतानां जङ्गमाः परमा नृप ।
जङ्गमानामपि तथा द्विपदाः परमा मताः ।
द्विपदानामपि तथा द्विजा वै परमाः स्मृताः ॥२०॥
द्विजानामपि राजेन्द्र प्रज्ञावन्तः परा मताः ।
प्राज्ञानामात्मसम्बुद्धाः सम्बुद्धानाममानिनः ॥२१॥
जातमन्वेति मरणं नृणामिति विनिश्चयः ।
अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः ॥२२॥
आपन्ने तूत्तरां काष्ठां सूर्ये यो निधनं व्रजेत् ।
नक्षत्रे च मुहूर्ते च पुण्ये राजन्स पुण्यकृत् ॥२३॥
अयोजयित्वा क्लेशेन जनं प्लाव्य च दुष्कृतम् ।
मृत्युनाप्राकृतेनेह कर्मकृत्वात्मशक्तितः ॥२४॥
विषमुद्बन्धनं दाहो दस्यु हस्तात्तथा वधः ।
दंस्त्रिभ्यश्च पशुभ्यश्च प्राकृतो वध उच्यते ॥२५॥
न चैभिः पुण्यकर्माणो युज्यन्ते नाभिसन्धिजैः ।
एवंविधैश्च बहुभिरपरैः प्राकृतैरपि ॥२६॥
ऊर्ध्वं हित्वा प्रतिष्ठन्ते प्रानाः पुण्यकृतां नृप ।
मध्यतो मध्यपुण्यानामधो दुष्कृत कर्मणाम् ॥२७॥
एकः शत्रुर्न द्वितीयोऽस्ति शत्रुर्
अज्ञानतुल्यः पुरुषस्य राजन् ।
येनावृतः कुरुते सम्प्रयुक्तो
घोराणि कर्माणि सुदारुणानि ॥२८॥
प्रबोधनार्थं श्रुतिधर्मयुक्तं
वृद्द्धानुपास्यं च भवेत यस्य ।
प्रयत्नसाध्यो हि स राजपुत्र
प्रज्ञाशरेणोन्मथितः परैति ॥२९॥
अधीत्य वेदांस्तपसा ब्रह्मचारी
यज्ञाञ्शक्त्या संनिसृज्येह पञ्च ।
वनं गच्छेत्पुरुषो धर्मकामः
श्रेयश्चित्वा स्थापयित्वा स्ववंशम् ॥३०॥
उपभोगैरपि त्यक्तं नात्मानमवसादयेत् ।
चन्दालत्वेऽपि मानुष्यं सर्वथा तात दुर्लभम् ॥३१॥
इयं हि योनिः प्रथमा यां प्राप्य जगतीपते ।
आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः ॥३२॥
कथं न विप्रनश्येम योनीतोऽस्या इति प्रभो ।
कुर्वन्ति धर्मं मनुजाः श्रुतिप्रामान्य दर्शनात् ॥३३॥
यो दुर्लभतरं प्राप्य मानुष्यमिह वै नरः ।
धर्मावमन्ता कामात्मा भवेत्स खलु वञ्च्यते ॥३४॥
यस्तु प्रीतिपुरोगेण चक्षुषा तात पश्यति ।
दीपोपमानि भूतानि यावदर्चिर्न नश्यति ॥३५॥
सान्त्वेनानुप्रदानेन प्रियवादेन चाप्युत ।
समदुःखसुखो भूत्वा स परत्र महीयते ॥३६॥
दानं त्यागः शोभना मूर्तिरद्भ्यो
भूयः प्लाव्यं तपसा वै शरीरम् ।
सरस्वती नैमिषपुष्करेषु
ये चाप्यन्ये पुण्यदेशाः पृथिव्याम् ॥३७॥
गृहेषु येषामसवः पतन्ति
तेषामथो निर्हरनं प्रशस्तम् ।
यानेन वै प्रापनं च श्मशाने
शौचेन नूनं विधिना चैव दाहः ॥३८॥
इष्टिः पुष्टिर्यजनं याजनं च
दानं पुण्यानां कर्मणां च प्रयोगः ।
शक्त्या पित्र्यं यच्च किं चित्प्रशस्तं
सर्वाण्यात्मार्थे मानवो यः करोति ॥३९॥
धर्मशास्त्राणि वेदाश्च षडङ्गानि नराधिप ।
श्रेयसोऽर्थे विधीयन्ते नरस्याक्लिष्ट कर्मणः ॥४०॥
भी
एवद्वै सर्वमाख्यातं मुनिना सुमहात्मना ।
विदेहराजाय पुरा श्रेयसोऽर्थे नराधिप ॥४१॥
२८७
भी
पुनरेव तु पप्रच्छ जनको मिथिलाधिपः ।
पराशरं महात्मानं धर्मे परमनिश्चयम् ॥१॥
किं श्रेयः का गतिर्ब्रह्मन्किं कृतं न विनश्यति ।
क्व गतो न निवर्तेत तन्मे ब्रूहि महामुने ॥२॥
परा
असङ्गः श्रेयसो मूलं ज्ञानं ज्ञानगतिः परा ।
चीर्णं तपो न प्रनश्येद्वापः क्षेत्रे न नश्यति ॥३॥
छित्त्वाधर्ममयं पाशं यदा धर्मेऽभिरज्यते ।
दत्त्वाभय कृतं दानं तदा सिद्धिमवाप्नुयात् ॥४॥
यो ददाति सहस्राणि गवामश्वशतानि च ।
अभयं सर्वभूतेभ्यस्तद्दानमतिवर्तते ॥५॥
वसन्विषयमध्येऽपि न वसत्येव बुद्धिमान् ।
संवसत्येव दुर्बुद्धिरसत्सु विषयेष्वपि ॥६॥
नाधर्मः श्लिष्यते प्राज्ञमापः पुष्कर पर्णवत् ।
अप्राज्ञमधिकं पापं श्लिष्यते जतु काष्ठवत् ॥७॥
नाधर्मः कारणापेक्षी कर्तारमभिमुञ्चति ।
कर्ता खलु यथाकालं तत्सर्वमभिपद्यते ।
न भिद्यन्ते कृतात्मान आत्मप्रत्यय दर्शिनः ॥८॥
बुद्धिकर्मेन्द्रियाणां हि प्रमत्तो यो न बुध्यते ।
शुभाशुभेषु सक्तात्मा प्राप्नोति सुमहद्भयम् ॥९॥
वीतरागो जितक्रोधः सम्यग्भवति यः सदा ।
विषये वर्तमानोऽपि न स पापेन युज्यते ॥१०॥
मर्यादायां धर्मसेतुर्निबद्धो नैव सीदति ।
पुष्टस्रोत इवायत्तः स्फीतो भवति सञ्चयः ॥११॥
यथा भानुगतं तेजो मनिः शुद्धः समाधिना ।
आदत्ते राजशार्दूल तथा योगः प्रवर्तते ॥१२॥
यथा तिलानामिह पुष्पसंश्रयात्
पृथक्पृथग्यानि गुणोऽतिसौम्यताम् ।
तथा नराणां भुवि भावितात्मनां
यथाश्रयं सत्त्वगुणः प्रवर्तते ॥१३॥
जहाति दारानिहते न सम्पदः
सदश्वयानं विविधाश्च याः क्रियाः ।
त्रिविष्टपे जातमतिर्यदा नरस्
तदास्य बुद्धिर्विषयेषु भिद्यते ॥१४॥
प्रसक्तबुद्धिर्विषयेषु यो नरो
यो बुध्यते ह्यात्महितं कदा चन ।
स सर्वभावानुगतेन चेतसा
नृपामिषेणेव झषो विकृष्यते ॥१५॥
सङ्घातवान्मर्त्यलोकः परस्परमपाश्रितः ।
कदली गर्भनिःसारो नौरिवाप्सु निमज्जति ॥१६॥
न धर्मकालः पुरुषस्य निश्चितो
नापि मृत्युः पुरुषं प्रतीक्षते ।
क्रिया हि धर्मस्य सदैव शोभना
यदा नरो मृत्युमुखेऽभिवर्तते ॥१७॥
यथान्धः स्वगृहे युक्तो ह्यभ्यासादेव गच्छति ।
तथायुक्तेन मनसा प्राज्ञो गच्छति तां गतिम् ॥१८॥
मरणं जन्मनि प्रोक्तं जन्म वै मरणाश्रितम् ।
अविद्वान्मोक्षधर्मेषु बद्धोभ्रमति चक्रवत् ॥१९॥
यथा मृणालोऽनुगतमाशु मुञ्चति कर्दमम् ।
तथात्मा पुरुषस्येह मनसा परिमुच्यते ।
मनः प्रनयतेऽऽत्मानं स एनमभियुञ्जति ॥२०॥
परार्थे वर्तमानस्तु स्वकार्यं योऽभिमन्यते ।
इन्द्रियार्थेषु सक्तः सन्स्वकार्यात्परिहीयते ॥२१॥
अधस्तिर्यग्गतिं चैव स्वर्गे चैव परां गतिम् ।
प्राप्नोति स्वकृतैरात्मा प्राज्ञस्येहेतरस्य च ॥२२॥
मृन्मये भाजने पक्वे यथा वै न्यस्यते द्रवः ।
तथा शरीरं तपसा तप्तं विषयमश्नुते ॥२३॥
विषयानश्नुते यस्तु न स भोक्ष्यत्यसंशयम् ।
यस्तु भोगांस्त्यजेदात्मा स वै भोक्तुं व्यवस्यति ॥२४॥
नीहारेण हि संवीतः शिश्नोदर परायनः ।
जात्यन्ध इव पन्थानमावृतात्मा न बुध्यते ॥२५॥
वणिग्यथा समुद्राद्वै यथार्थं लभते धनम् ।
तथा मर्त्यार्णवे जन्तोः कर्म विज्ञानतो गतिः ॥२६॥
अहोरात्र मये लोके जरा रूपेण सञ्चरन् ।
मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा ॥२७॥
स्वयं कृतानि कर्माणि जातो जन्तुः प्रपद्यते ।
नाकृतं लभते कश्चित्किं चिदत्र प्रियाप्रियम् ॥२८॥
शयानं यान्तमासीनं प्रवृत्तं विषयेषु च ।
शुभाशुभानि कर्माणि प्रपद्यन्ते नरं सदा ॥२९॥
न ह्यन्यत्तीरमासाद्य पुनस्तर्तुं व्यवस्यति ।
दुर्लभो दृश्यते ह्यस्य विनिपातो महार्णवे ॥३०॥
यथा भारावसक्ता हि नौर्महाम्भसि तन्तुना ।
तथा मनोऽभियोगाद्वै शरीरं प्रतिकर्षति ॥३१॥
यथा समुद्रमभितः संस्यूताः सरितोऽपराः ।
तथाद्या प्रकृतिर्योगादभिसंस्यूयते सदा ॥३२॥
स्नेहपाशैर्बहुविभैरासक्तमनसो नराः ।
प्रकृतिष्ठा विषीदन्ति जले सैकत वेश्मवत् ॥३३॥
शरीरगृह संस्थस्य शौचतीर्थस्य देहिनः ।
बुद्धिमार्ग प्रयातस्य सुखं त्विह परत्र च ॥३४॥
विस्तराः क्लेशसंयुक्ताः सङ्क्षेपास्तु सुखावहाः ।
परार्थं विस्तराः सर्वे त्यागमात्महितं विदुः ॥३५॥
सङ्कल्पजो मित्रवर्गो ज्ञातयः कारणात्मकाः ।
भार्या दासाश्च पुत्राश्च स्वमर्थमनुयुञ्जते ॥३६॥
न माता न पिता किं चित्कस्य चित्प्रतिपद्यते ।
दानपथ्योदनो जन्तुः स्वकर्मफलमश्नुते ॥३७॥
मातापुत्रः पिता भ्राता भार्या मित्र जनस्तथा ।
अष्टापद पदस्थाने त्वक्षमुद्रेव न्यस्यते ॥३८॥
सर्वाणि कर्माणि पुरा कृतानि
शुभाशुभान्यात्मनो यान्ति जन्तोर् ।
उपस्थितं कर्मफलं विदित्वा
बुद्धिं तथा चोदयतेऽन्तरात्मा ॥३९॥
व्यवसायं समाश्रित्य सहायान्योऽधिगच्छति ।
न तस्य कश्चिदारम्भः कदा चिदवसीदति ॥४०॥
अद्वैध मनसं युक्तं शूरं धीरं विपश्चितम् ।
न श्रीः सन्त्यजते नित्यमादित्यमिव रश्मयः ॥४१॥
आस्तिक्य व्यवसायाभ्यामुपायाद्विस्मयाद्धिया ।
यमारभत्यनिन्द्यात्मा न सोऽर्थः परिषीदति ॥४२॥
सर्वैः स्वानि शुभाशुभानि नियतं कर्माणि जन्तुः स्वयं
गर्भात्सम्प्प्रतिपद्यते तदुभयं यत्तेन पूर्वं कृतम् ।
मृत्युश्चापरिहारवान्समगतिः कालेन विच्छेदिता
दारोश्चूर्णमिवाश्मसारविहितं कर्मान्तिकं प्रापयेत् ॥४३॥
स्वरूपतामात्मकृतं च विस्तरं
कुलान्वयं द्रव्यसमृद्धि सञ्चयम् ।
नरो हि सर्वो लभते यथाकृतं
शुभशुभेनात्म कृतेन कर्मणा ॥४४॥
भी
इत्युक्तो जनको राजन्यथातथ्यं मनीसिना ।
श्रुत्वा धर्मविदां श्रेष्ठः परां मुदमवाप ह ॥४५॥

॥ इति पाराशरगीता समाप्ता ॥

Translation - भाषांतर
N/A

N/A
Last Updated : 2010-10-15T15:12:30.9530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

semipolar bond

  • co-ordinate bond 
RANDOM WORD

Did you know?

दत्तकपुत्र घेण्याविषयी कांही धर्मशास्त्रीय निर्णय आहेत काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.