संस्कृत सूची|संस्कृत साहित्य|गीता|
बोध्यगीता

बोध्यगीता


गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.

Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.

॥ बोध्यगीता॥

भीम उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । गीतं विदेहराजेन जनकेन प्रशाम्यता ॥५७॥
अनन्तं बत मे वित्तं यस्य मे नास्ति किं चन । मिथिलायां प्रदीप्तायां न मे दह्यति किं चन ॥५८॥
अत्रैवोदाहरन्तीमं बोध्यस्य पदसञ्चयम् । निर्वेदं प्रति विन्यस्तं प्रतिबोध युधिष्ठिर ॥५९॥
बोध्यं दान्तमृषिं राजा नहुषः पर्यपृच्छत । निर्वेदाच्छान्तिमापन्नं शान्तं प्रज्ञान तर्पितम् ॥६०॥
उपदेशं महाप्राज्ञ शमस्योपदिशस्व मे । कां बुद्धिं समनुध्याय शान्तश्चरसि निर्वृतः ॥६१॥
बोध्य उवाच ।
उपदेशेन वर्तामि नानुशास्मीह कञ्चन । लक्षणं तस्य वक्ष्येऽहं तत्स्वयं परिमृश्यताम् ॥६२॥
पिङ्गला कुररः सर्पः सारङ्गान्वेषणं वने । इषुकारः कुमारी च षडेते गुरवो मम॥६२॥
भीम उवाच ।
आशा बलवती राजन्नैराश्यं परमं सुखम् । आशां निराशां कृत्वा तु सुखं स्वपिति पिङ्गला ॥६४॥
सामिषं कुररं दृष्ट्वा वध्यमानं निरामिषैः । आमिषस्य परित्यागात् कुररः सुखमेधते ॥६५॥
गृहारम्भो हि दुःखाय न सुखाय कदाचन । सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ॥६६॥
सुखं जीवन्ति मुनयो भैक्ष्यवृत्तिं समाश्रिताः । अद्रोहेनैव भूतानां सारङ्गा इव पक्षिणः ॥६७॥
इषुकारो नरः कश्चिदिषावासक्तमानसः । समीपेनापि गच्छन्तं राजानं नावबुद्धवान् ॥६८॥
बहूनां कलहो नित्यं द्वयोः संकथनं भवेत् । एकाकी विचरिष्यामि कुमारीशंखको यथा ॥६९॥
इति बोद्ध्यगीता समाप्ता ॥

N/A

N/A
Last Updated : August 29, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP