TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|गीता|
अनुगीता

अनुगीता


गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.

अनुगीता

॥ अनुगीता ॥

१६
ज्
सभायां वसतोस्तस्यां निहत्यारीन्महात्मनोः ।
केशवार्जुनयोः का नु कथा समभवद्द्विज ॥१॥
व्
कृष्णेन सहितः पार्थः स्वराज्यं प्राप्य केवलम् ।
तस्यां सभायां रम्यायां विजहार मुदा युतः ॥२॥
ततः कं चित्सभोद्देशं स्वर्गोद्देश समं नृप ।
यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ ॥३॥
ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः ।
निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत् ॥४॥
विदितं ते महाबाहो सङ्ग्रामे समुपस्थिते ।
माहात्म्यं देवकी मातस्तच्च ते रूपमैश्वरम् ॥५॥
यत्तु तद्भवता प्रोक्तं तदा केशव सौहृदात् ।
तत्सर्वं पुरुषव्याघ्र नष्टं मे नष्टचेतसः ॥६॥
मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः प्रभो ।
भवांश्च द्वारकां गन्ता नचिरादिव माधव ॥७॥
एवमुक्तस्ततः कृष्णः फल्गुनं प्रत्यभाषत ।
परिष्वज्य महातेजा वचनं वदतां वरः ॥८॥
श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम् ।
धर्मं स्वरूपिणं पार्थ सर्वलोकांश्च शाश्वतान् ॥९॥
अबुद्ध्वा यन्न गृह्णीथास्तन्मे सुमहदप्रियम् ।
नूनमश्रद्दधानोऽसि दुर्मेधाश्चासि पाण्डव ॥१०॥
स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने ।
न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः ॥११॥
परं हि ब्रह्म कथितं योगयुक्तेन तन्मया ।
इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम् ॥१२॥
यथा तां बुद्धिमास्थाय गतिमग्र्यां गमिष्यसि ।
शृणु धर्मभृतां श्रेष्ठ गदतः सर्वमेव मे ॥१३॥
आगच्छद्ब्राह्मणः कश्चित्स्वर्गलोकादरिन्दम ।
ब्रह्मलोकाच्च दुर्धर्षः सोऽस्माभिः पूजितोऽभवत् ॥१४॥
अस्माभिः परिपृष्टश्च यदाह भरतर्षभ ।
दिव्येन विधिना पार्थ तच्छृणुष्वाविचारयन् ॥१५॥
ब्र्
मोक्षधर्मं समाश्रित्य कृष्ण यन्मानुपृच्छसि ।
भूतानामनुकम्पार्थं यन्मोहच्छेदनं प्रभो ॥१६॥
तत्तेऽहं सम्प्रवक्ष्यामि यथावन्मधुसूदन ।
शृणुष्वावहितो भूत्वा गदतो मम माधव ॥१७॥
कश्चिद्विप्रस्तपो युक्तः काश्यपो धर्मवित्तमः ।
आससाद द्विजं कं चिद्धर्माणामागतागमम् ॥१८॥
गतागते सुबहुशो ज्ञानविज्ञानपारगम् ।
लोकतत्त्वार्थ कुशलं ज्ञातारं सुखदुःखयोः ॥१९॥
जाती मरणतत्त्वज्ञं कोविदं पुण्यपापयोः ।
द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम् ॥२०॥
चरन्तं मुक्तवत्सिद्धं प्रशान्तं संयतेन्द्रियम् ।
दीप्यमानं श्रिया ब्राह्म्या क्रममाणं च सर्वशः ॥२१॥
अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः ।
तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह ॥२२॥
सम्भाषमाणमेकान्ते समासीनं च तैः सह ।
यदृच्छया च गच्छन्तमसक्तं पवनं यथा ॥२३॥
तं समासाद्य मेधावी स तदा द्विजसत्तमः ।
चरणौ धर्मकामो वै तपस्वी सुसमाहितः ।
प्रतिपेदे यथान्यायं भक्त्या परमया युतः ॥२४॥
विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तं द्विजोत्तमम् ।
परिचारेण महता गुरुं वैद्यमतोषयत् ॥२५॥
प्रीतात्मा चोपपन्नश्च श्रुतचारित्य संयुतः ।
भावेन तोषयच्चैनं गुरुवृत्त्या परन्तपः ॥२६॥
तस्मै तुष्टः स शिष्याय प्रसन्नोऽथाब्रवीद्गुरुः ।
सिद्धिं परामभिप्रेक्ष्य शृणु तन्मे जनार्दन ॥२७॥
विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः ।
गच्छन्तीह गतिं मर्त्या देवलोकेऽपि च स्थितिम् ॥२८॥
न क्व चित्सुखमत्यन्तं न क्व चिच्छाश्वती स्थितिः ।
स्थानाच्च महतो भ्रंशो दुःखलब्धात्पुनः पुनः ॥२९॥
अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात् ।
काममन्युपरीतेन तृष्णया मोहितेन च ॥३०॥
पुनः पुनश्च मरणं जन्म चैव पुनः पुनः ।
आहारा विविधा भुक्ताः पीता नानाविधाः स्तनाः ॥३१॥
मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः ।
सुखानि च विचित्राणि दुःखानि च मयानघ ॥३२॥
प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह ।
धननाशश्च सम्प्राप्तो लब्ध्वा दुःखेन तद्धनम् ॥३३॥
अवमानाः सुकष्टाश्च परतः स्वजनात्तथा ।
शारीरा मानसाश्चापि वेदना भृशदारुणाः ॥३४॥
प्राप्ता विमाननाश्चोग्रा वधबन्धाश्च दारुणाः ।
पतनं निरये चैव यातनाश्च यमक्षये ॥३५॥
जरा रोगाश्च सततं वासनानि च भूरिशः ।
लोकेऽस्मिन्ननुभूतानि द्वन्द्वजानि भृशं मया ॥३६॥
ततः कदा चिन्निर्वेदान्निकारान्निकृतेन च ।
लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया ।
ततः सिद्धिरियं प्राप्ता प्रसादादात्मनो मया ॥३७॥
नाहं पुनरिहागन्ता लोकानालोकयाम्यहम् ।
आ सिद्धेरा प्रजा सर्गादात्मनो मे गतिः शुभा ॥३८॥
उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमा ।
इतः परं गमिष्यामि ततः परतरं पुनः ।
ब्रह्मणः पदमव्यग्रं मा तेऽभूदत्र संशयः ॥३९॥
नाहं पुनरिहागन्ता मर्त्यलोके परन्तप ।
प्रीतोऽस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते ॥४०॥
यदीप्सुरुपपन्नस्त्वं तस्य कालोऽयमागतः ।
अभिजाने च तदहं यदर्थं मा त्वमागतः ।
अचिरात्तु गमिष्यामि येनाहं त्वामचूचुदम् ॥४१॥
भृशं प्रीतोऽस्मि भवतश्चारित्रेण विचक्षण ।
परिपृच्छ यावद्भवते भाषेयं यत्तवेप्सितम् ॥४२॥
बहु मन्ये च ते बुद्धिं भृशं सम्पूजयामि च ।
येनाहं भवता बुद्धो मेधावी ह्यसि काश्यप ॥४३॥
१७
वा
ततस्तस्योपसङ्गृह्य पादौ प्रश्नान्सुदुर्वचान् ।
पप्रच्छ तांश्च सर्वान्स प्राह धर्मभृतां वरः ॥१॥
काज़्यप
कथं शरीरं च्यवते कथं चैवोपपद्यते ।
कथं कष्टाच्च संसारात्संसरन्परिमुच्यते ॥२॥
आत्मानं वा कथं युक्त्वा तच्छरीरं विमुञ्चति ।
शरीरतश्च निर्मुक्तः कथमन्यत्प्रपद्यते ॥३॥
कथं शुभाशुभे चायं कर्मणी स्वकृते नरः ।
उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठति ॥४॥
ब्र्
एवं सञ्चोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत ।
आनुपूर्व्येण वार्ष्णेय यथा तन्मे वचः शृणु ॥५॥
सिद्ध
आयुः कीर्तिकराणीह यानि कर्माणि सेवते ।
शरीरग्रहणेऽन्यस्मिंस्तेषु क्षीणेषु सर्वशः ॥६॥
आयुः क्षयपरीतात्मा विपरीतानि सेवते ।
बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते ॥७॥
सत्त्वं बलं च कालं चाप्यविदित्वात्मनस्तथा ।
अतिवेलमुपाश्नाति तैर्विरुद्धान्यनात्मवान् ॥८॥
यदायमतिकष्टानि सर्वाण्युपनिषेवते ।
अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदा चन ॥९॥
दुष्टान्नं विषमान्नं च सोऽन्योन्येन विरोधि च ।
गुरु वापि समं भुङ्क्ते नातिजीर्णेऽपि वा पुनः ॥१०॥
व्यायाममतिमात्रं वा व्यवायं चोपसेवते ।
सततं कर्म लोभाद्वा प्राप्तं वेगविधारणम् ॥११॥
रसातियुक्तमन्नं वा दिवा स्वप्नं निषेवते ।
अपक्वानागते काले स्वयं दोषान्प्रकोपयन् ॥१२॥
स्वदोषकोपनाद्रोगं लभते मरणान्तिकम् ।
अथ चोद्बन्धनादीनि परीतानि व्यवस्यति ॥१३॥
तस्य तैः कारणैर्जन्तोः शरीराच्च्यवते यथा ।
जीवितं प्रोच्यमानं तद्यथावदुपधारय ॥१४॥
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ।
शरीरमनुपर्येति सर्वान्प्राणान्रुणद्धि वै ॥१५॥
अत्यर्थं बलवानूष्मा शरीरे परिकोपितः ।
भिनत्ति जीव स्थानानि तानि मर्माणि विद्धि च ॥१६॥
ततः स वेदनः सद्यो जीवः प्रच्यवते क्षरन् ।
शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु ।
वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम ॥१७॥
जातीमरणसंविग्नाः सततं सर्वजन्तवः ।
दृश्यन्ते सन्त्यजन्तश्च शरीराणि द्विजर्षभ ॥१८॥
गर्भसङ्क्रमणे चापि मर्मणामतिसर्पणे ।
तादृशीमेव लभते वेदनां मानवः पुनः ॥१९॥
भिन्नसन्धिरथ क्लेदमद्भिः स लभते नरः ।
यथा पञ्चसु भूतेषु संश्रितत्वं निगच्छति ।
शैत्यात्प्रकुपितः काये तीव्रवायुसमीरितः ॥२०॥
यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः ।
स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणम् ॥२१॥
शरीरं च जहात्येव निरुच्छ्वासश्च दृश्यते ।
निरूष्मा स निरुच्छ्वासो निःश्रीको गतचेतनः ॥२२॥
ब्रह्मणा सम्परित्यक्तो मृत इत्युच्यते नरः ।
स्रोतोभिर्यैर्विजानाति इन्द्रियार्थाञ्शरीरभृत् ।
तैरेव न विजानाति प्राणमाहारसम्भवम् ॥२३॥
तत्रैव कुरुते काये यः स जीवः सनातनः ।
तेषां यद्यद्भवेद्युक्तं संनिपाते क्व चित्क्व चित् ।
तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा ॥२४॥
तेषु मर्मसु भिन्नेषु ततः स समुदीरयन् ।
आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै ।
ततः स चेतनो जन्तुर्नाभिजानाति किं चन ॥२५॥
तमसा संवृतज्ञानः संवृतेष्वथ मर्मसु ।
स जीवो निरधिष्ठानश्चाव्यते मातरिश्वना ॥२६॥
ततः स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम् ।
निष्क्रामन्कम्पयत्याशु तच्छरीरमचेतनम् ॥२७॥
स जीवः प्रच्युतः कायात्कर्मभिः स्वैः समावृतः ।
अङ्कितः स्वैः शुभैः पुण्यैः पापैर्वाप्युपपद्यते ॥२८॥
ब्राह्मणा ज्ञानसम्पन्ना यथावच्छ्रुत निश्चयाः ।
इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः ॥२९॥
यथान्ध कारे खद्योतं लीयमानं ततस्ततः ।
चक्षुष्मन्तः प्रपश्यन्ति तथा तं ज्ञानचक्षुषः ॥३०॥
पश्यन्त्येवंविधाः सिद्धा जीवं दिव्येन चक्षुषा ।
च्यवन्तं जायमानं च योनिं चानुप्रवेशितम् ॥३१॥
तस्य स्थानानि दृष्टानि त्रिविधानीह शास्त्रतः ।
कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः ॥३२॥
ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः ।
इहैवोच्चावचान्भोगान्प्राप्नुवन्ति स्वकर्मभिः ॥३३॥
इहैवाशुभ कर्मा तु कर्मभिर्निरयं गतः ।
अवाक्स निरये पापो मानवः पच्यते भृशम् ।
तस्मात्सुदुर्लभो मोक्ष आत्मा रक्ष्यो भृशं ततः ॥३४॥
ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः ।
कीर्त्यमानानि तानीह तत्त्वतः संनिबोध मे ।
तच्छ्रुत्वा नैष्ठिकीं बुद्धिं बुध्येथाः कर्म निश्चयात् ॥३५॥
तारा रूपाणि सर्वाणि यच्चैतच्चन्द्रमण्डलम् ।
यच्च विभ्राजते लोके स्वभासा सूर्यमण्डलम् ।
स्थानान्येतानि जानीहि नराणां पुण्यकर्मणाम् ॥३६॥
कर्म क्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः ।
तत्रापि च विशेषोऽस्ति दिवि नीचोच्चमध्यमः ॥३७॥
न तत्राप्यस्ति सन्तोषो दृष्ट्वा दीप्ततरां श्रियम् ।
इत्येता गतयः सर्वाः पृथक्त्वे समुदीरिताः ॥३८॥
उपपत्तिं तु गर्भस्य वक्ष्याम्यहमतः परम् ।
यथावत्तां निगदतः शृणुष्वावहितो द्विज ॥३९॥
१८
ब्र्
शुभानामशुभानां च नेह नाशोऽस्ति कर्मणाम् ।
प्राप्य प्राप्य तु पच्यन्ते क्षेत्रं क्षेत्रं तथा तथा ॥१॥
यथा प्रसूयमानस्तु फली दद्यात्फलं बहु ।
तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम् ॥२॥
पापं चापि तथैव स्यात्पापेन मनसा कृतम् ।
पुरोधाय मनो हीह कर्मण्यात्मा प्रवर्तते ॥३॥
यथा कत्म समादिष्टं काममन्युसमावृतः ।
नरो गर्भं प्रविशति तच्चापि शृणु चोत्तरम् ॥४॥
शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम् ।
क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाशुभम् ॥५॥
सौक्ष्म्यादव्यक्तभावाच्च न स क्व चन सज्जते ।
सम्प्राप्य ब्रह्मणः कायं तस्मात्तद्ब्रह्म शाश्वतम् ।
तद्बीजं सर्वभूतानां तेन जीवन्ति जन्तवः ॥६॥
स जीवः सर्वगात्राणि गर्भस्याविश्य भागशः ।
दधाति चेतसा सद्यः प्राणस्थानेष्ववस्थितः ।
ततः स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः ॥७॥
यथा हि लोहनिष्यन्दो निषिक्तो बिम्बविग्रहम् ।
उपैति तद्वज्जानीहि गर्भे जीव प्रवेशनम् ॥८॥
लोहपिण्डं यथा वह्निः प्रविशत्यभितापयन् ।
तथा त्वमपि जानीहि गर्भे जीवोपपादनम् ॥९॥
यथा च दीपः शरणं दीप्यमानः प्रकाशयेत् ।
एवमेव शरीराणि प्रकाशयति चेतना ॥१०॥
यद्यच्च कुरुते कर्म शुभं वा यदि वाशुभम् ।
पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते ॥११॥
ततस्तत्क्षीयते चैव पुनश्चान्यत्प्रचीयते ।
यावत्तन्मोक्षयोगस्थं धर्मं नैवावबुध्यते ॥१२॥
तत्र धर्मं प्रवक्ष्यामि सुखी भवति येन वै ।
आवर्तमानो जातीषु तथान्योन्यासु सत्तम ॥१३॥
दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम् ।
दमः प्रशान्तता चैव भूतानां चानुकम्पनम् ॥१४॥
संयमश्चानृशंस्यं च परस्वादान वर्जनम् ।
व्यलीकानामकरणं भूतानां यत्र सा भुवि ॥१५॥
मातापित्रोश्च शुश्रूषा देवतातिथिपूजनम् ।
गुरु पूजा घृणा शौचं नित्यमिन्द्रियसंयमः ॥१६॥
प्रवर्तनं शुभानां च तत्सतां वृत्तमुच्यते ।
ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः ॥१७॥
एवं सत्सु सदा पश्येत्तत्र ह्येषा ध्रुवा स्थितिः ।
आचारो धर्ममाचष्टे यस्मिन्सन्तो व्यवस्थिताः ॥१८॥
तेषु तद्धर्मनिक्षिप्तं यः स धर्मः सनातनः ।
यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात् ॥१९॥
अतो नियम्यते लोकः प्रमुह्य धर्मवर्त्मसु ।
यस्तु योगी च मुक्तश्च स एतेभ्यो विशिष्यते ॥२०॥
वर्तमानस्य धर्मेण पुरुषस्य यथातथा ।
संसारतारणं ह्यस्य कालेन महता भवेत् ॥२१॥
एवं पूर्वकृतं कर्म सर्वो जन्तुर्निषेवते ।
सर्वं तत्कारणं येन निकृतोऽयमिहागतः ॥२२॥
शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम् ।
इत्येवं संशयो लोके तच्च वक्ष्याम्यतः परम् ॥२३॥
शरीरमात्मनः कृत्वा सर्वभूतपितामहः ।
त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम् ॥२४॥
ततः प्रधानमसृजच्चेतना सा शरीरिणाम् ।
यया सर्वमिदं व्याप्तं यां लोके परमां विदुः ॥२५॥
इह तत्क्षरमित्युक्तं परं त्वमृतमक्षरम् ।
त्रयाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक् ॥२६॥
असृजत्सर्वभूतानि पूर्वसृष्टः प्रजापतिः ।
स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः ॥२७॥
तस्य कालपरीमाणमकरोत्स पितामहः ।
भूतेषु परिवृत्तिं च पुनरावृत्तिमेव च ॥२८॥
यथात्र कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि ।
यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते ॥२९॥
सुखदुःखे सदा सम्यगनित्ये यः प्रपश्यति ।
कायं चामेध्य सङ्घातं विनाशं कर्म संहितम् ॥३०॥
यच्च किं चित्सुखं तच्च सर्वं दुःखमिति स्मरन् ।
संसारसागरं घोरं तरिष्यति सुदुस्तरम् ॥३१॥
जाती मरणरोगैश्च समाविष्टः प्रधानवित् ।
चेतनावत्सु चैतन्यं समं भूतेषु पश्यति ॥३२॥
निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम् ।
तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम ॥३३॥
शाश्वतस्याव्ययस्याथ पदस्य ज्ञानमुत्तमम् ।
प्रोच्यमानं मया विप्र निबोधेदमशेषतः ॥३४॥
१९
ब्र्
यः स्यादेकायने लीनस्तूष्णीं किं चिदचिन्तयन् ।
पूर्वं पूर्वं परित्यज्य स निरारम्भको भवेत् ॥१॥
सर्वमित्रः सर्वसहः समरक्तो जितेन्द्रियः ।
व्यपेतभयमन्युश्च कामहा मुच्यते नरः ॥२॥
आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः ।
अमानी निरभीमानः सर्वतो मुक्त एव सः ॥३॥
जीवितं मरणं चोभे सुखदुःखे तथैव च ।
लाभालाभे प्रिय द्वेष्ये यः समः स च मुच्यते ॥४॥
न कस्य चित्स्पृहयते नावजानाति किं चन ।
निर्द्वन्द्वो वीतरागात्मा सर्वतो मुक्त एव सः ॥५॥
अनमित्रोऽथ निर्बन्धुरनपत्यश्च यः क्व चित् ।
त्यक्तधर्मार्थकामश्च निराकाङ्क्षी स मुच्यते ॥६॥
नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः ।
धातुक्षयप्रशान्तात्मा निर्द्वन्द्वः स विमुच्यते ॥७॥
अकर्मा चाविकाङ्क्षश्च पश्यञ्जगदशाश्वतम् ।
अस्वस्थमवशं नित्यं जन्म संसारमोहितम् ॥८॥
वैराग्य बुद्धिः सततं तापदोषव्यपेक्षकः ।
आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव ॥९॥
अगन्ध रसमस्पर्शमशब्दमपरिग्रहम् ।
अरूपमनभिज्ञेयं दृष्ट्वात्मानं विमुच्यते ॥१०॥
पञ्च भूतगुणैर्हीनममूर्ति मदलेपकम् ।
अगुणं गुणभोक्तारं यः पश्यति स मुच्यते ॥११॥
विहाय सर्वसङ्कल्पान्बुद्ध्या शारीर मानसान् ।
शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः ॥१२॥
विमुक्तः सर्वसंस्कारैस्ततो ब्रह्म सनातनम् ।
परमाप्नोति संशान्तमचलं दिव्यमक्षरम् ॥१३॥
अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम् ।
यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिनः ॥१४॥
तस्योपदेशं पश्यामि यथावत्तन्निबोध मे ।
यैर्द्वारैश्चारयन्नित्यं पश्यत्यात्मानमात्मनि ॥१५॥
इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत् ।
तीव्रं तप्त्वा तपः पूर्वं ततो योक्तुमुपक्रमेत् ॥१६॥
तपस्वी त्यक्तसङ्कल्पो दम्भाहङ्कारवर्जितः ।
मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि ॥१७॥
स चेच्छक्नोत्ययं साधुर्योक्तुमात्मानमात्मनि ।
तत एकान्तशीलः स पश्यत्यात्मानमात्मनि ॥१८॥
संयतः सततं युक्त आत्मवान्विजितेन्द्रियः ।
तथायमात्मनात्मानं साधु युक्तः प्रपश्यति ॥१९॥
यथा हि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति ।
तथारूपमिवात्मानं साधु युक्तः प्रपश्यति ॥२०॥
इषीकां वा यथा मुञ्जात्कश्चिन्निर्हृत्य दर्शयेत् ।
योगी निष्कृष्टमात्मानं यथा सम्पश्यते तनौ ॥२१॥
मुञ्जं शरीरं तस्याहुरिषीकामात्मनि श्रिताम् ।
एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम् ॥२२॥
यदा हि युक्तमात्मानं सम्यक्पश्यति देहभृत् ।
तदास्य नेशते कश्चित्त्रैलोक्यस्यापि यः प्रभुः ॥२३॥
अन्योन्याश्चैव तनवो यथेष्टं प्रतिपद्यते ।
विनिवृत्य जरामृत्यू न हृष्यति न शोचति ॥२४॥
देवानामपि देवत्वं युक्तः कारयते वशी ।
ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम् ॥२५॥
विनश्यत्ष्वपि लोकेषु न भयं तस्य जायते ।
क्लिश्यमानेषु भूतेषु न स क्लिश्यति केन चित् ॥२६॥
दुःखशोकमयैर्घोरैः सङ्गस्नेह समुद्भवैः ।
न विचाल्येत युक्तात्मा निस्पृहः शान्तमानसः ॥२७॥
नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते ।
नातः सुखतरं किं चिल्लोके क्व चन विद्यते ॥२८॥
सम्यग्युक्त्वा यदात्मानमात्मयेव प्रपश्यति ।
तदैव न स्पृहयते साक्षादपि शतक्रतोः ॥२९॥
निर्वेदस्तु न गन्तव्यो युञ्जानेन कथं चन ।
योगमेकान्तशीलस्तु यथा युञ्जीत तच्छृणु ॥३०॥
दृष्टपूर्वा दिशं चिन्त्य यस्मिन्संनिवसेत्पुरे ।
पुरस्याभ्यन्तरे तस्य मनश्चायं न बाह्यतः ॥३१॥
पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत् ।
तस्मिन्नावसथे धार्यं स बाह्याभ्यन्तरं मनः ॥३२॥
प्रचिन्त्यावसथं कृत्स्नं यस्मिन्कायेऽवतिष्ठते ।
तस्मिन्काये मनश्चार्यं न कथं चन बाह्यतः ॥३३॥
संनियम्येन्द्रियग्रामं निर्घोषे निर्जने वने ।
कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत् ॥३४॥
दन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च ।
हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम् ॥३५॥
इत्युक्तः स मया शिष्यो मेधावी मधुसूदन ।
पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम् ॥३६॥
भुक्तं भुक्तं कथमिदमन्नं कोष्ठे विपच्यते ।
कथं रसत्वं व्रजति शोणितं जायते कथम् ।
तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषति ॥३७॥
कथमेतानि सर्वाणि शरीराणि शरीरिणाम् ।
वर्धन्ते वर्धमानस्य वर्धते च कथं बलम् ।
निरोजसां निष्क्रमणं मलानां च पृथक्पृथक् ॥३८॥
कुतो वायं प्रश्वसिति उच्छ्वसित्यपि वा पुनः ।
कं च देशमधिष्ठाय तिष्ठत्यात्मायमात्मनि ॥३९॥
जीवः कायं वहति चेच्चेष्टयानः कलेवरम् ।
किं वर्णं कीदृशं चैव निवेशयति वै मनः ।
याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ ॥४०॥
इति सम्परिपृष्टोऽहं तेन विप्रेण माधव ।
प्रत्यब्रुवं महाबाहो यथा श्रुतमरिन्दम ॥४१॥
यथा स्वकोष्ठे प्रक्षिप्य कोष्ठं भाण्ड मना भवेत् ।
तथा स्वकाये प्रक्षिप्य मनो द्वारैरनिश्चलैः ।
आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत् ॥४२॥
एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव ।
आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित् ॥४३॥
न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः ।
मनसैव प्रदीपेन महानात्मनि दृश्यते ॥४४॥
सर्वतः पाणिपादं तं सर्वतोऽक्षिशिरोमुखम् ।
जीवो निष्क्रान्तमात्मानं शरीरात्सम्प्रपश्यति ॥४५॥
स तदुत्सृज्य देहं स्वं धारयन्ब्रह्म केवलम् ।
आत्मानमालोकयति मनसा प्रहसन्निव ॥४६॥
इदं सर्वरहस्यं ते मयोक्तं द्विजसत्तम ।
आपृच्छे साधयिष्यामि गच्छ शिष्ययथासुखम् ॥४७॥
इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः ।
अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः ॥४८॥
वा
इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजपुङ्गवः ।
मोक्षधर्माश्रितः सम्यक्तत्रैवान्तरधीयत ॥४९॥
कच्चिदेतत्त्वया पार्थ श्रुतमेकाग्रचेतसा ।
तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि ॥५०॥
नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः ।
नरेणाकृत सञ्ज्ञेन विदग्धेनाकृतात्मना ॥५१॥
सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ ।
कच्चिन्नेदं श्रुतं पार्थ मर्त्येनान्येन केन चित् ॥५२॥
न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ ।
नैतदद्य सुविज्ञेयं व्यामिश्रेणान्तरात्मना ॥५३॥
क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः ।
न चैतदिष्टं देवानां मर्त्यै रूपनिवर्तनम् ॥५४॥
परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम् ।
यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी ॥५५॥
एवं हि धर्ममास्थाय योऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥५६॥
किं पुनर्ब्राह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः ।
स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः ॥५७॥
हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने ।
सिद्धेः फलं च मोक्षश्च दुःखस्य च विनिर्णयः ।
अतः परं सुखं त्वन्यत्किं नु स्याद्भरतर्षभ ॥५८॥
श्रुतवाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव ।
यः परित्यजते मर्त्यो लोकतन्त्रमसारवत् ।
एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुयात् ॥५९॥
एतावदेव वक्तव्यं नातो भूयोऽस्ति किं चन ।
षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते ॥६०॥
॥ इति अनुगीता समाप्ता ॥
Translation - भाषांतर
N/A

N/A
Last Updated : 2016-12-16T20:29:36.6930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अन्वित

  • वि. 
  • संबध्द ; जोडलेला ; युक्त . 
  • युक्त असलेला ; आधीन ; ग्रासलेला . उदा . कामान्वित ; अकर्मान्वित ( दुष्ट कर्म करणारा ). क्रोधान्वित ; लोभान्वित ; शर्करान्वित . 
  • व्याकरणामध्यें किंवा वाक्यरचनेंत संबध्दयुक्त ; संबध्द व अशाच पण अनेक व्यापक अर्थी अलंकारिक रीतींनीं या शब्दाचा उपयोग करण्यांत येतो . उ० मायाप्रीति ; सुख - दु : ख ; धर्म - अधर्म ; पाप - पुण्य ; भार्या - पुत्र - मित्र ; हर्ष - आनंद ; शोक - संताप , वगैरे पुढें अन्वित लावितात . [ सं . अनु + इ ] 
More meanings
RANDOM WORD

Did you know?

वारी म्हणजे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.