मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
जयोऽस्तु ते गणपते देहि मे...

श्री सिद्धिविनायक स्तोत्रम् - जयोऽस्तु ते गणपते देहि मे...


देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


जयोऽस्तु ते गणपते देहि मे विपुलां मतिम्।
स्तवनम् ते सदा कर्तुं स्फूर्ति यच्छममानिशम् ॥ १ ॥
प्रभुं मंगलमूर्तिं त्वां चन्द्रेन्द्रावपि ध्यायतः।
यजतस्त्वां विष्णुशिवौ ध्यायतश्चाव्ययं सदा ॥ २ ॥
विनायकं च प्राहुस्त्वां गजास्यं शुभदायकं।
त्वन्नाम्ना विलयं यान्ति दोषाः कलिमलान्तक ॥ ३ ॥
त्वत्पदाब्जांकितश्चाहं नमामि चरणौ तव।
देवेशस्त्वं चैकदन्तो मद्विज्ञप्तिं शृणु प्रभो ॥ ४ ॥
कुरु त्वं मयि वात्सल्यं रक्ष मां सकलानिव।
विघ्नेभ्यो रक्ष मां नित्यं कुरु मे चाखिलाः क्रियाः ॥ ५ ॥
गौरिसुतस्त्वं गणेशः शॄणु विज्ञापनं मम।
त्वत्पादयोरनन्यार्थी याचे सर्वार्थ रक्षणम् ॥ ६ ॥
त्वमेव माता च पिता देवस्त्वं च ममाव्ययः।
अनाथनाथस्त्वं देहि विभो मे वांछितं फलम् ॥ ७ ॥
लंबोदरस्वम् गजास्यो विभुः सिद्धिविनायकः।
हेरंबः शिवपुत्रस्त्वं विघ्नेशोऽनाथबांधवः ॥ ८ ॥
नागाननो भक्तपालो वरदस्त्वं दयां कुरु।
सिंदूरवर्णः परशुहस्तस्त्वं विघ्ननाशकः ॥ ९ ॥
विश्वास्यं मंगलाधीशं विघ्नेशं परशूधरं।
दुरितारिं दीनबन्धूं सर्वेशं त्वां जना जगुः ॥ १० ॥
नमामि विघ्नहर्तारं वन्दे श्रीप्रमथाधिपं।
नमामि एकदन्तं च दीनबन्धू नमाम्यहम् ॥ ११ ॥
नमनं शंभुतनयं नमनं करुणालयं।
नमस्तेऽस्तु गणेशाय स्वामिने च नमोऽस्तु ते ॥ १२ ॥
नमोऽस्तु देवराजाय वन्दे गौरीसुतं पुनः।
नमामि चरणौ भक्त्या भालचन्द्रगणेशयोः ॥ १३॥
नैवास्त्याशा च मच्चित्ते त्वद्भक्तेस्तवनस्यच।
भवेत्येव तु मच्चित्ते ह्याशा च तव दर्शने ॥ १४ ॥
अज्ञानश्चैव मूढोऽहं ध्यायामि चरणौ तव।
दर्शनं देहि मे शीघ्रं जगदीश कृपां कुरु ॥ १५ ॥
बालकश्चाहमल्पज्ञः सर्वेषामसि चेश्वरः।
पालकः सर्वभक्तानां भवसि त्वं गजानन ॥ १६ ॥
दरिद्रोऽहं भाग्यहीनः मच्चित्तं तेऽस्तु पादयोः।
शरण्यं मामनन्यं ते कृपालो देहि दर्शनम् ॥ १७ ॥
इदं गणपतेस्तोत्रं यः पठेत्सुसमाहितः।
गणेशकृपया ज्ञानसिध्धिं स लभते धनं ॥ १८ ॥
पठेद्यः सिद्धिदं स्तोत्रं देवं संपूज्य भक्तिमान्।
कदापि बाध्यते भूतप्रेतादीनां न पीडया ॥ १९ ॥
पठित्वा स्तौति यः स्तोत्रमिदं सिद्धिविनायकं।
षण्मासैः सिद्धिमाप्नोति न भवेदनृतं वचः गणेशचरणौ नत्वा ब्रूते भक्तो दिवाकरः ॥ २० ॥
इति श्री सिद्धिविनायक स्तोत्रम् ।

N/A

N/A
Last Updated : July 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP