मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
श्री विघ्नेश्वराष्टोत्तर शतनामस्तोत्रम्

श्री विघ्नेश्वराष्टोत्तर शतनामस्तोत्रम्

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.

A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः ।

स्कंदाग्रजोव्ययः पूतो दक्षोऽध्यक्षो द्विजप्रियः ॥ १ ॥

अग्निगर्वच्छिद इन्द्रश्रीप्रदः । वाणीप्रदोअः अव्ययः

सर्वसिद्धिप्रदश्शर्वतनो शर्वरीप्रियः ॥ २ ॥

सर्वात्मकः सृष्टिकर्ता देवोनेकार्चितश्शिवः ।

शुद्धबुद्धि प्रियश्शांतो ब्रह्मचारी गजाननः ॥ ३ ॥

द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः ।

एकदन्तश्छतुर्बाहुश्छतुरश्शक्तिसंयुतः ॥ ४ ॥

लम्बोदरश्शूर्पकर्णो हरर्ब्रह्म विदुत्तमः ।

कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ॥ ५ ॥

पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः ।

अकल्मषस्स्वयंसिद्धस्सिद्धार्चितः पदाम्बुजः ॥ ६ ॥

बीजपूरफलासक्तो वरदश्शाश्वतः कृतिः ।

द्विजप्रियो वीतभयो गदी चक्रीक्षुचापधृत् ॥ ७ ॥

श्रीदोज उत्पलकरः श्रीपतिः स्तुतिहर्षितः ।

कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः ॥ ८ ॥

चन्द्रचूडामणिः कान्तः पापहारी समाहितः ।

अश्रितश्रीकरस्सौम्यो भक्तवांछितदायकः ॥ ९ ॥

शान्तः कैवल्यसुखदस्सच्चिदानन्द विग्रहः ।

ज्ञानी दयायुतो दांतो ब्रह्मद्वेषविवर्जितः ॥१० ॥

प्रमत्तदैत्यभयदः श्रीकंथो विबुधेश्वरः ।

रामार्चितोविधिर्नागराजयज्ञोपवीतकः ॥ ११ ॥

स्थूलकंठः स्वयंकर्ता सामघोषप्रियः परः ।

स्थूलतुण्डोऽग्रणी धीरो वागीशस्सिद्धिदायकः ॥ १२॥

दूर्वाबिल्वप्रियोऽव्यक्तमूर्तिरद्भुतमूर्तिमान् ।

शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः ॥ १३॥

स्वलावण्यसुधासारो जितमन्मथविग्रहः ।

समस्तजगदाधारो मायी मूषकवाहनः ॥ १४ ॥

हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः ।

अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुं ॥ १५ ॥

तुष्टाव शंकरः पुत्रं त्रिपुरं हंतुमुत्यतः ।

यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम् ॥ १६ ॥

दूर्वादलैर्बिल्वपत्रैः पुष्पैर्वा चंदनाक्षतैः ।

सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते ॥

N/A

N/A
Last Updated : December 19, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP