मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
कैलासे कमनीयरत्नखचिते कल्...

श्रीमृत्युञ्जयमानसिकपूजास्तोत्रम् - कैलासे कमनीयरत्नखचिते कल्...


देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


कैलासे कमनीयरत्नखचिते कल्पद्रुमूले स्थितं कर्पूरस्फटिकेन्दुसुन्दरतनुं कात्यायनीसेवितम् ।
गङ्गातुङ्गतरङ्गरञ्जितजटाभारं कृपासागरं कण्ठालंकृतशेषभूषणममुं मृत्युञ्जयं भावये ॥ १॥
आगत्य मृत्युञ्जय चन्द्रमौले व्याघ्राजिनालंकृत शूलपाणे । स्वभक्तसंरक्षणकामधेनो प्रसीद विश्वेश्वर पार्वतीश ॥ २॥
भास्वन्मौक्तिकतोरणे मरकतस्तम्भायुधालंकृते सौधे धूपसुवासिने मणिमये माणिक्यदीपाञ्चिते ।
ब्रह्मेन्द्रामरयोगिपुङ्गवगणैर्युक्ते च कल्पद्रुमैः श्रीमृत्युञ्जय सुस्थिरो भव विभो माणिक्यसिंहासने ॥ ३॥
मन्दारमल्लीकरवीरमाधवी- पुन्नागनीलोत्पलचम्पकान्वितैः ।
कर्पूरपाटीरसुवासितैर्जलै- राधत्स्व मृत्युञ्जय पाद्यमुत्तमम् ॥ ४॥
सुगन्धपुष्पप्रकरैः सुवासितै- र्वियन्नदीशीतलवारिभिः शुभैः ।
त्रिलोकनाथार्तिहरार्घ्यमादरा- द्गृहाण मृत्युञ्जय सर्ववन्दित ॥ ५॥
हिमाम्बुवासितैस्तोयैः शीतलैरतिपावनैः । मृत्युञ्जय महादेव शुद्धाचमनमाचर ॥ ६॥
गुडदधिसहितं मधुप्रकीर्णं सुघृतसमन्वितधेनुदुग्धयुक्तम् ।
शुभकरमधुपर्कमाहर त्वं त्रिनयन मृत्युहर त्रिलोकवन्द्य ॥ ७॥
पञ्चास्र शान्त पञ्चास्य पञ्चपातकसंहर ।
पञ्चामृतस्नानमिदं कुरु मृत्युञ्जय प्रभो ॥ ८॥
जगत्रयीख्यात समस्ततीर्थ- समाहृतैः कल्मषहारिभिश्च ।
स्नानं सुतोयैः समुदाचर त्वं मृत्युञ्जयानन्दगुणाअभिराम ॥ ९॥
आनीतेनातिशुभ्रेण कौशेयेनामरद्रुमात् ।
मार्जयामि जटाभारं शिव मृत्युञ्जय प्रभो ॥ १०॥
नानाहेमविचित्राणि चीरचीनाम्बराणि च ।
विविधानि च दिव्यानि मृत्युञ्जय सुधारय ॥ ११॥
विशिद्धमुक्ताफलजालरम्यं मनोहरं काञ्चनहेमसूत्रम् ।
यज्ञ्नोपवीतं परमं पवित्र- माधत्स्व मृत्युञ्जय भक्तिगम्य ॥ १२॥
श्रीगन्धं घनसारकुङ्कुमयुतं कस्तूरिकापूरितं कालेयेन हिमाम्बुना विरचित्तं मन्दारसंवासितम् ।
दिव्यं देवमनोहरं मणिमये पात्रे समारोपितं सर्वाङ्गेषु विलेपयामि सततं मृत्युञ्जय श्रीविभो ॥ १३॥
अक्षतैर्धवलैर्दिव्यैः सम्यक्तिलसमन्वितैः ।
मृत्युञ्जय महादेव पूजयामि वृषध्वज ॥ १४॥
चम्पकपङ्कजकुन्दैः करवीरमल्लिकाकुसुमैः ।
विस्तारय निजमकुटं मृत्युञ्जय पुण्डरीकनयनाप्त ॥ १५॥
माणिक्यपादुकाद्वन्द्वे मौनिहृत्पद्ममन्दिरे ।
पादौ सद्पद्मसदृशौ मृत्युञ्जय निवेशय ॥ १६॥
माणिक्यकेयूरकिरीटहारैः काञ्चीमणिस्थापितकुद्मलैश्च ।
मञ्जीरमुख्याभरणैर्मनोज्ञै- रङ्गानि मृत्युञ्जय भूषयामि ॥ १७॥
गजवदनस्कन्दधृते- नातिस्वच्छेन चामरयुगेन ।
गलदलकाननपद्मं मृत्युञ्जय भावयामि हृत्पद्मे ॥ १८॥
मुक्तातपत्रं शशिकोटिशुभ्रं शुभप्रदं काञ्जनदण्डयुक्तम् ।
माणिक्यसंस्थापितहेमकुम्भं सुरेश मृत्युञ्जय तेऽर्पयामि ॥ १९॥
मणिमुकुरे निष्पटले त्रिजगद्गाढान्धकारसप्ताश्वे ।
कन्दर्पकोटीसदृशं मृत्युञ्जय पश्य वदनमात्मीयम् ॥ २०॥
कर्पूरचूर्णं कपिलाज्यपूतं दास्यामि कालेयसमान्वितैश्च ।
समुद्भवं पावनगन्धधूपितं मृत्युञ्जयाङ्गं परिकल्पयामि ॥ २१॥
वर्तित्रयोपेतमखण्डदीप्त्या तमोहरं ब्राह्ममथान्तरं च ।
साज्यं समस्तामरवर्गहृद्यं सुरेशा मृत्युञ्जय वंशदीपम् ॥ २२॥
राजान्नं मधुरान्वितं च मृदुलं माणिक्यपात्रे स्थितं हिङ्गूजीरकसन्मरीचमिलितैः शाकैरनेकैः शुभैः ।
शाकं सम्यगपूपसूपसहितं सद्योघृतेनाप्लुतं श्रीमृत्युञ्जय पार्वतीप्रिय विभो सापोशनं भुज्यताम् ॥ २३॥
कूष्माण्डवार्ताकपटोलिकानां फलानि रम्याणि च कारवल्ल्या ।
सुपाकयुक्तानि ससौरभाणि श्रीकण्ठ मृत्युञ्जय भक्षयेश ॥ २४॥
शीतलं मधुरं स्वच्छं पावनं वासितं लघु ।
मध्ये स्वीकुरु पानीयं शिव मृत्युञ्जय प्रभो ॥ २५॥
शर्करामिलितं स्निग्धं दुग्धान्नं गोधृतान्वितम् ।
कदलीफलसंमिश्रं भुज्यतां मृत्युसंहर ॥ २६॥
केवलमतिमाधुर्यं दुग्धैः स्निग्धैश्च शर्करामिलितैः ।
एलामरीचमिलितं मृत्युञ्जय देव भुङ्क्ष्व परमान्नम् ॥ २७॥
रम्भाचूतकपित्थकण्ठकफलैर्द्राक्षारसास्वादुम- त्खर्जूरैर्मधुरेक्षुखण्डशकलैः सन्नारिकेलाम्बुभिः ।
कर्पूरेण सुवासितैर्गुडजलैर्माधुर्ययुक्तैर्विभो श्रीमृत्युञ्जय पूरय त्रिभुवनाधारं विशालोदरम् ॥ २८॥
मनोज्ञरम्भावनखण्डखण्डिता- न्रुचिप्रदान्सर्षपजीरकांश्च ।
ससौरभान्सैन्धवसेवितांश्च गृहाण मृत्युञ्जय लोकवन्द्य ॥ २९॥
हिङ्गूजीरकसहितं विमलामलकं कपित्थमतिमधुरम् ।
बिसखण्डाल्लावण्ययुता- न्मृत्युञ्जय तेऽर्पयामि जगदीश ॥ ३०॥
एलाशुण्ठीसहितं दध्यन्नं चारुहेमपात्रस्थम् ।
अमृतप्रतिनिधिमाढ्यं मृत्युञ्जय भुज्यतां त्रिलोकेश ॥ ३१॥
जम्बीरनीराञ्चितशृङ्गबेरं मनोहरानम्लशलाटुखण्डान् ।
मृदूपदंशान्सहितोपभुङ्क्ष्व मृत्युञय श्रीकरुणासमुद्र ॥ ३२॥
नागररामठयुक्तं सुललितजम्बीरनीरसंपूर्णम् ।
मथितं सैन्दवसहितं पिब हर मृत्युञ्जय क्रतुध्वंसिन् ॥ ३३॥
मन्दारहेमाम्बुजगन्धयुक्तै- र्मन्दाकिनीनिर्मलपुण्यतोयैः ।
गृहाण मृत्युञ्जय पूर्णकाम श्रीमत्परापोशनमभ्रकेश ॥ ३४॥
गगनधुनीविमलजलै- र्मृत्युञ्जय पद्मरागपात्रगतैः ।
मृगमदचन्दनपूर्णं प्रक्षालय चारु हस्तपादयुग्मम् ॥ ३५॥
पुन्नागमल्लिकाकुन्दवासितैर्जाह्नवीजलैः ।
मृत्युञ्जय महादेव पुनराचमनं कुरु ॥ ३६॥
मौक्तिकचूर्णसमेतै- र्मृगमदघनसारवासितैः पूगैः ।
पर्णैः स्वर्णसमानै- र्मृत्युञ्जय तेऽर्पयामि ताम्बूलम् ॥ ३७॥
नीराजनं निर्मलदीप्त्माद्भि- र्दीपाङ्कुरैरुज्ज्वलमुच्छ्रितैश्च ।
घण्टानिनादेन समर्पयामि मृत्युञ्जयाय त्रिपुरान्तकाय ॥ ३८॥
विरिञ्चिमुख्यामरवृन्दवन्दिते सरोजमत्स्याङ्कितचक्रचिह्निते ।
ददामि मृत्युञ्जय पादपङ्कजे फणीन्द्रभूषे पुनरर्घ्यमीश्वर ॥ ३९॥
पुन्नागनीलोत्पलकुन्दजाती- मन्दारमल्लीकरवीरपङ्कजैः ।
पुष्पाञ्जलिं बिल्वदलैस्तुलस्या मृत्युञ्जयाङ्घ्रौ विनिवेशयामि ॥ ४०॥
पदे पदे सर्वमनोनिकृन्दनं पदे पदे सर्वशुभप्रदायकम् ।
प्रदक्षिणं भक्तियुतेन चेतसा करोमि मृत्युञ्जय रक्ष रक्ष माम् ॥ ४१॥
नमो गौरीशाय स्फटिकधवलाङ्गाय च नमो नमो लोकेशाय स्तुतिविबुधलोकाय च नमः ।
नमः श्रीकण्ठाय क्षपितपुरदैत्याय च नमो नमः फालाक्षाय स्मरमदविनाशाय च नमः ॥ ४२॥
संसारे जनितापरोगसहिते तपत्रयाक्रन्दिते नित्यं पुत्रकलत्रवित्तविलसत्पाशैर्निबद्धं दृढम् ।
गर्वान्धं बहुपापवर्गसहितं कारुण्यदृष्ट्या विभो श्रीमृत्युञ्जय पार्वतीप्रिय सदा मां पाहि सर्वेश्वर ॥ ४३॥
सौधे रत्नमये नवोत्पलदलाकीर्णे च तल्पान्तरे कौशेयेन मनोहरेण धवलेनाच्छादिते सर्वशः ।
कर्पूराञ्चितदीपदीप्तिमिलिते रम्योपधानद्वये पार्र्वत्याः करपद्मलालितपदं मृत्युञ्जयं भावये ॥ ४४॥
चतुश्चत्वारिंशद्विलसदुपचारैरभिमतै- र्मनः पद्मे भक्त्या बहिरपि च पूजां शुभकरीम् ।
करोति प्रत्यूषे निशि दिवसमध्येऽपि च पुमा- न्प्रयाति श्रीमृत्युञ्जयपदमनेकाद्भुतपदम् ॥ ४५॥
प्रातर्लिङ्गमुमापतेरहरहः संदर्शनात्स्वर्गतं मध्याह्ने हयमेधतुल्यफलदं सायंतने मोक्षदम् ।
भानोरस्तमने प्रदोषसमये पञ्चाक्षराराधनं तत्कालत्रयतुल्यमिष्टफलदं सद्योऽनवद्यं दृढम् ॥ ४६॥
॥ इति श्रीमच्छाङ्करभगवतः कृतौ मृत्युञ्जयमानसिकपूजास्तोत्रं संपूर्णम् ॥

N/A

N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP