TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे|
श्रीविष्णुमहिम्न: स्तोत्र

श्रीविष्णुमहिम्न: स्तोत्र

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe,

श्रीविष्णुमहिम्न: स्तोत्र

श्रीगणेशाय नम: ॥

महिम्नस्ते पारं विधिहरफणीन्द्रप्रभृतयो विदुर्नाद्यप्यज्ञश्चलमतिरहं नाथ नु कथम् । विजानीयामद्धानलिननयनात्मीयवचसो विशुद्धयै वक्ष्यामीषदपि तु तथापि स्वमतित: ॥ १ ॥

यदाहुर्ब्रह्मैके पुरुषमितर कर्म च परेऽपरे बुद्धं चान्ये शिवमपि च धातारमपरे । तथा शक्तिं केचिद्‌गणपतिमुतार्कं च सुधियो मतीनां वै भेदात्त्वमसि तदशेषं मम मति: ॥ २ ॥

शिव: पादांभस्ते शिरसि धृतवानादरयुतं तथा शक्तिश्चासौ तव तनुजतेजोमयतनु: । दिनेशं चैवामुं तव नयनमूचुस्तु निगमास्त्वदन्य: को ध्येयो जगति किल देवो मम विभो ॥ ३ ॥

क्वचिन्मत्स्य:कूर्म:क्वचिदपिवराहोनरहरि: क्वचित्खर्वो रामो दशरथसुतो नंदतनय: । क्वचिद्‌बुद्ध: कल्किर्विहरसि कुभारापह्रतये स्वतंत्रोऽजो नित्यो विभुरपि तवाक्रीडनमिदम् ॥ ४ ॥

ह्रताम्नायेनोक्तं स्तवनवरमाकर्ण्य विधिना द्रुतं मात्स्यं धृत्वा वपुरजरशंखसुरमथो । क्षयं नीत्वा मृत्योर्निगमगणमुद्‌धृत्य जलधेरशेषं सगुप्त जगदपि च वैदैकशरणम् ॥ ५ ॥

निमज्जंतं वार्धौ नगवरमुपालोक्य सहसा हितार्थ देवानां कमठवपुषाविश्य गहनम् । पयोराशिं पृष्ठे तमजित सलीलं धृतवतो जगद्धातुस्तऽभूत्किमु सुलभभाराय गिरिक: ॥ ६ ॥

हिरण्याक्ष: क्षोणीमविशदसुरो नक्रनिलयंसमादायामर्त्यै: कमलजमुखैरंबरगतै: । स्तुतनानतात्मन्नचिरमवभाति स्म विधृता त्वयादंष्ट्राग्रेऽसाववनिरखिलाकन्दुक इव ॥ ७ ॥

हरि: क्वास्तीत्युक्तेदनुजपितानाऽऽपूर्यनिखिलं जगन्नादै:स्तंभान्नरहरिशरीरेण करजै: । समुत्पत्याशूरावसुरवमादारितवतस्तवाख्याताभूमन्किमु जगति नो सर्वगतता ॥ ८ ॥

विलोक्याजं द्वार्गं कपटलघुकायं सुररिपुर्निषिद्धोऽपि प्रादादसुरगुरुणात्मीयमखिलम् । प्रसन्नस्तद्भक्त्या त्यजसि किल नाद्यापि भवनं बलेर्भक्ताधीन्यं तव विदितमेवामरपते ॥ ९ ॥

समाधावासक्तं नृपति तनयैर्वीक्ष्य पितरं हतं बाणै रोषाद्‌गुरुतरमुपादाय परशुम् । विना क्षत्रं विष्णो क्षितितलमशेषं कृतवताऽसकृत्किंभूभारोद्धरणपटुता तेन विदिता ॥ १० ॥

समाराध्योमेशंत्रिभुवनमिदं वासवमुखं वशे चक्रे चक्रिन्नगणयदनीश जगदिदम् । गतोऽसौ लंकेशस्त्वचिरमथ ते बाणविषयं न केनाप्तं त्वत्त: फल मविनयस्या सुररिपो ॥ ११ ॥

क्वचिद्दिव्यं शौर्यं क्वचिदपि रण कापुरुषता क्वचिद्‌गीता ज्ञानंक्वचिदपि परस्त्री विहरणम् । क्वचिन्मृत्स्नाशित्वं क्वचिदपि च वैकुण्ठविभवश्चरित्रं ते नूनं शरणद विमोहाय कुधियाम् ॥ १२ ॥

नहिंस्यादित्येतत् ध्रुवमवितथं वाक्यमबुधैरथाग्नीषोमीयं पशुमिति तु विप्रैर्निगदितम् । तवैतन्नास्थानेऽसुरगणविमोहाय गदत:समृद्धिर्नीचानां नयकर हि दु:खायजगत: ॥ १३ ॥

विभागे वर्णानां निगमनिचये चावनितले विलुप्ते सञ्जातो द्विजवरगृहे शंभलपुरे । समारुह्याश्वं स्वं लसदसिकरो म्लेच्छनिकरान्निहंतातास्युन्मत्तान्किलकलियुगांते युगपते ॥ १४ ॥

गभीर कासार जलचलवराकृष्टचरणोरणेशक्तो मज्जन्नभयद जलेऽचिंतयदसौ । यदा नागेन्द्रस्त्वां सपदि पदपाशादपगतो गत: स्वर्ग स्थानं भवति विपदां ते किमु जन: ॥ १५ ॥

सुतै पृष्टो वेधा प्रतिवचनदानेऽप्रभुरसावथात्मन्यात्मानं शरणमगत्त्वां त्रिजगताम् । ततस्तेऽस्तातंका ययुरथ मुदंहंसवपुषा त्वया ते सार्वज्ञं प्रथितममरेशेह किमु नो ॥ १६ ॥

समाविद्धो मातुर्वचनविशिखैराशु विपिनं पतश्चक्रे गत्वा तव परमतोषाय परमम् । ध्रुवो लेभे दिव्यं पदमचलमल्पेऽपि वयसि किमस्त्यस्मिंल्लोके त्वयि वरद तुष्टे दुरधिगम् ॥ १७ ॥

वृकाद्भीतस्तूण स्वजनभयभित्त्वां पशुपतिर्भ्रमेल्लोकान्सर्वाञ्शरणपयातोऽथदनुज: । स्वयं भस्मीभूतस्तव वचनभंगोद्‍गतमती रमेशाहो माया तव दुरनुमेयाऽखिल जनै: ॥ १८ ॥

ह्रतं दैत्यैर्दृष्ट्‌वाऽमृतघटमजय्यैस्तु नयत: कटाक्षै: संमोहं युवतिवरवेषेण दितिजान् । समग्रं पीयूषं सुभग सुरपूगाय ददत: समस्यापि प्रायस्तव खलु हि भृत्येष्वभिरति: ॥ १९ ॥

समाकृष्टा दुष्टैर्द्रुपदतनयाऽलब्धशरणा सभायां सर्वात्मंस्तव शरण मुच्चैरुपगता । समक्षं सर्वेषामभवदचिरं चीरनिचय: स्मृतेस्ते साफल्यं नयनविषयं नो किमुसताम् ॥ २० ॥

वदंत्येके स्थानं तव वरद वैकुंठमपरे गवां लोकं लोकं फणिनिलयपातालमितरे । तथान्ये क्षीरोदं ह्रदयनलिनं चापि तु सतां न मान्ये तत् स्थानं त्वहमिह च यत्रासि न विभो ॥ २१ ॥

शिवोऽहं रुद्राणामहममरराजो दिविषदां मुनीनां व्यासोहं सुरवर समुद्रोस्मि सरसाम् । कुबेरो यक्षाणामिति तव वचो मंदमतये न जाने तज्जातं जगति ननु यन्नासि भगवत् ॥ २२ ॥

शिरो नाको नेत्रे शशिदिनकरावंबरमुरो दिश: श्रोत्रे वाणी निगमनिकरस्ते कटिरिला । अकूपारो वस्तिश्चरणमपि पातालमिति वै स्वरूपं तेऽज्ञात्वा नृतनुभवजानंति कुधिय: ॥ २३ ॥

शरीरं वैकुण्ठं ह्रदयनलिनं वाससदनं मनोवृत्तिस्तार्क्ष्यो मतिरियमथो सागरसुता । विहारस्थेऽवस्थत्रितयमसव: पार्षदगणो न पश्यत्यज्ञास्त्वामिह बहिरहो याति जनता ॥ २४ ॥

सुघोरं कांतारं विशति च तडागं सुहगनं तथोत्तुंगं श्रृङ्गं सपति च समारोहति गिरे: प्रसूनार्थं चेतोऽम्बुजममलमेकं त्वयि विभो समर्प्याज्ञस्तूर्णं बत नच सुखं विंदति जन: ॥ २५ ॥

कृतैकांतावासा विगतनिखिलाशा: शमपरा जितश्वासोच्छ्‌वासास्त्रुटितभवपाशा: सुयमिन: । परं ज्योति: पश्यत्न्यनघ यदि पश्यंतु मम तु श्रियाश्लिष्टं भूयान्नयनविषयं ते किल वपु: ॥ २६ ॥

कदागंगोत्तुंगामलतरतरंगाच्छपुलिने वसन्नाशापाशादखिलखलदाशादपगत: अये लक्ष्मीकांतांबुजनयनतातामरपते प्रसी देत्याजल्पन्नमरवर नेष्यामि समयम् ॥ २७ ॥

कदा श्रृंगै:स्फीतेमुनिगणपरीते हिमनगे द्रुमावीते शीत सुरमधुरगीते प्रतिवसन् । क्वचिद्धयानासक्तो विषयसुविरक्तोभवहरं स्मरंस्ते पादाब्जं जनिहर समेष्यामि विलयम् ॥ २८ ॥

सुधापानंज्ञानं न च विपुलदानं न निगमो न यागो नो योगो न च निखिलभोगोपरमणम् । जपो नो नो तीर्थं व्रतमिह च चोग्रं त्वयि तपो विना भक्तिं तेऽलं भवभयविनाशाय मधुहन् ॥ २९ ॥

नम: सर्वेष्टाय श्रुतिशिखरदृष्टाय नमो नमोऽसंश्लिष्टाय त्रिभुवन निविष्टाय च नम: । नमो विस्पष्टाय प्रणवपरिमृष्टाय च नमो नमस्ते सर्वात्मन्पुनरपि पुनस्ते मम नम: ॥ ३० ॥

कणान्कश्चिद्‌वृष्टेर्गणननिपुणस्तूर्णमवनेस्तथाशेषान्पांसूनमित कलयेच्चापि तु जन: । नभ: पिंडीकुर्यादचिरमपि चेच्चर्मवदिदं तथापीशासौ ते कलयितुमलं नाखि लगुणान् ॥ ३१ ॥

क्व माहात्म्यं सीमोज्झितमविषयं वेदवचसां विभो ते मे चेतक्व च विविधतापाहतमिदम् । मयेदं यत्किंचिद्‍गदितमथ बाल्येन तु गुरो गृहाणैतच्छ्रद्धार्पितमिह न हेयं हि महताम् ॥ ३२ ॥

इति हरिस्तवनं सुमनोहरं परमहंसजनेन समीरितम् ॥ सुगमसुन्दरसारपदास्पदं तदिदमस्तु हरेरनिशं मुदे ॥ ३३ ॥

गदा रथांगांबुजकंबुधारिणोरमासमाश्लिष्टतनोस्तनोतु न: । बिलेशयाधीश शरीरशायिन: शिवं स्तवोऽजस्त्रमयं परं हरे: ॥ ३४ ॥

पठेदिमं यस्तु नर: परस्तवं समाहितोऽघौघवनप्रभंजनम् । स विंदतेऽत्राखिलभोगसंपदो महीयते विष्णुपदे ततो ध्रुवम् ॥ ३५ ॥

इति श्रीमत्परमहंसस्वामि ब्रह्मानन्दविरचितं श्रीविष्णुमहिम्न: स्तोत्रं संपूर्णम् ।

Translation - भाषांतर
N/A

N/A
Last Updated : 2008-02-10T14:30:02.8900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

pointedly

  • मुद्याला धरुन स्पष्टपणे 
RANDOM WORD

Did you know?

गंध का लावावे ? अधिक माहिती द्यावी.
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site