TransLiteral Foundation
मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे|
हरिस्तुतुप्रारंभ:

हरिस्तुतुप्रारंभ:

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe,

हरिस्तुतुप्रारंभ:

श्रीगणेशाय नम: ।

स्तोष्ये भक्त्या विष्णुमनादिं जगदादिं यस्मिन्नतत्संसृतिचक्रं भ्रमतीत्थम् ।

यस्मिन् इष्टे नश्यति तत्संसृतिचक्रं तं संसारध्वांतविनाशं हरिमीडे ॥ १ ॥

यस्यैकांशादित्थमशेषं जगदेतत्प्रादुर्भूतं येन पिनद्धं पुनरित्थम् ।

येन व्याप्तं येन विबुद्धे सुखदु:खैस्तं संसारध्वांतविनाशं हरिमीडे ॥ २ ॥

सर्वज्ञो यो यश्‍च हि सर्व: सकलो यो यश्‍चानंदोऽनंतगुणो यो गुणधामा ।

यश्‍चाव्यक्‍तो व्यस्तसमस्त: सदसद्यस्तं संसारध्वां० ॥ ३ ॥

यस्मादन्यन्नास्त्यपि नैनं परमार्थं दृश्यादन्यो निर्विषयज्ञानमयत्वात् ।

ज्ञातृज्ञानज्ञेयविहीनोपि सदाज्ञस्तं संसार० ॥ ४ ॥

आचार्येभ्यो लब्धसुसूक्ष्माच्युततत्त्वाद्वैराग्येणाभ्यासबलाच्चैव द्रढिम्ना ।

भक्त्यैकाग्रध्यानपरा यं विदुरीशं तं संसार० ॥ ५ ॥

प्राणानायम्योमिति चित्तं ह्रदि द्‍ध्वा नान्यत्स्मृत्वा तत्पुनरत्रैव विलाप्य ।

क्षीणे चित्ते भादृशिरस्मीति विदुर्यं तं संसार० ॥ ६ ॥

यं ब्रह्माख्यं देवमनन्यं परिपूर्णं ह्रत्स्थं भक्‍तैर्लभ्यमजं सूक्ष्ममतर्क्यम् ।

ध्वात्वात्मस्थं ब्रह्माविदो यं विदुरीशं तं संसार० ॥ ७ ॥

मात्रातीतं स्वात्मविकाशात्मविबोधं ज्ञेयातीतं ज्ञानमयं ह्रद्युपलभ्यम् ।

भावग्राह्यानंदमनन्यं च विदुर्यंत संसार० ॥ ८ ॥

यद्यद्वेद्यं वस्तु सतत्त्वं विषयाख्यं तत्तद्‍ब्रह्मैवेति विदित्वा तदहं च ।

ध्यायंत्येवं यं सनकाद्या मुनयोऽजं तं संसार० ॥ ९ ॥

यद्यद्वेद्यं तत्तदहं नेति विहाय स्वात्मज्योतिर्ज्ञानमयानंदमवाप्यतस्मिन्नस्मीत्यात्मविदो यंविदुरीशं

तं संसार० ॥ १० ॥

हित्वाहित्वा दृश्यमशेषं सविकल्पं मत्वा शिष्टं भादृशिमात्रं गगनाभम् ।

त्यक्त्वा देहं यं प्रविशंत्यच्युतभक्‍तास्तं संसार:० ॥ ११ ॥

सर्वत्रास्ते सर्व शरीरी न च सर्व: सर्वं वेत्त्येवेह न यं वेत्ति च सर्वं: ॥

सर्वत्रांतर्यामितयेत्थं यमयन्यस्तं संसार० ॥ १२ ॥

सर्वं दृष्ट्‍वा स्वात्मनि युक्त्या जगदेतद्‍दृष्ट्‌वात्मानं चैवमजं सर्वजनेषु ।

सर्वात्मेकोऽस्मीतिविदुर्यं जन ह्रत्स्थं तं संसार० ॥ १३ ॥

सर्वत्रैक: पश्यति जिघ्रत्यथ भुंक्‍ते स्प्रष्टा श्रोता बुध्याति चेत्याहुरिमंयम्‍ ।

साक्षी चास्ते कर्तृषु पश्यन्निति चान्ये तं संसार० ॥ १४ ॥

पश्यन् श्रृण्वन्नत्र विजानन् रसयन् सन् जिघ्रन् बिभ्रद्देहमिमं जीवतयेत्थम् ।

इत्यात्मानं यं विदुरीशं विषयज्ञं तं सं० ॥ १५ ॥

जाग्रद्‍दृष्ट्‍वा स्थूलपदार्थानथ मायां दृष्ट्‍वा स्वप्नेऽथापि सुषुप्तौ सुखनिद्राम् ।

इत्यात्मानं वीक्ष्य मुदास्ते च तुरीये तं संसार० ॥ १६ ॥

पश्यन् शुद्धोऽप्यक्षर एको गुणभेदान्नानाकारान् स्फटिकवद्भाति विचित्र: ।

भिन्नश्छिन्नश्‍चायमज: कर्मफलैर्यस्तं ० संसार ॥ १७ ॥

ब्रह्मा विष्णु रुदहुताशौ रविचंद्राविंद्रो वायुर्यज्ञ इतीत्थं परिकल्प्य ।

एकं सन्तं यं बहुधाहुर्मतिभेदात्तं संसार० ॥ १८ ॥

सत्यं ज्ञानं शुद्धमनंतं व्यतिरिक्तं शांतं गूढं निष्कलमानंदमनन्यम् ।

इत्याहादौ यं वरुणोऽसौ भृगवेऽजं तं संसार० ॥ १९ ॥

कोशानेतान्पंच रसादीनति हाय ब्रह्मास्मीति स्वात्मनि निश्‍चित्य दृशिस्थ: ।

पित्रादिष्टो वेद भृगुर्यं यजुरन्ते तं संसार० ॥ २० ॥

येनाविष्टो यस्य च शक्त्या यदधीन: क्षेत्रज्ञोऽयं कारयिता जन्तुषु कर्तु: ।

कर्ता भोक्‍तात्मात्र हि चिच्छक्त्याधिरूढस्तं संसार० ॥ २१ ॥

सृष्ट्‍वा सर्व स्वात्मतयैवेत्थमतर्क्यं व्याप्याथान्त: कृत्स्नमिदं सृष्टमशेषम् ।

सच्चत्यच्चाभूत्परमात्मा स य एकस्तं संसार० ॥ २२ ॥

वेदान्तैश्‍चाध्यात्मिकशास्त्रैश्‍च पुराणै: शास्त्रैश्‍चान्यै सात्वततंत्रैश्‍च यमीशम् ।

दृष्ट्‍वाथांतश्‍चेतसि बुद्‍ध्वा निविशुर्यं तं संसार० ॥ २३ ॥

श्रद्धाभक्‍तिध्यानशमाद्यैर्यतमानैर्ज्ञातुं शक्यो देव इहैवाशु य ईश: ।

दुर्विज्ञेयो जन्मशतेश्‍चापि विनातैस्तं संसार० ॥ २४ ॥

यस्या तर्क्यं स्वात्मविभूते: परमाथ सर्वंखल्वित्यत्र निरुक्‍तं श्रुतिविद्भि: तज्जादित्वादब्धितरंगामभिन्नं

तं संसार० ॥ २५ ॥

दृष्ट्‍वा गीतास्वक्षरतत्त्वं विधिनाजं भक्त्या गुर्व्यालभ्या ह्रदिस्थं दृशिमात्रम् ।

ध्यात्वा तस्मिन्नस्म्यहमित्यत्र विदुर्यं तं संसार० ॥ २६ ॥

क्षेत्रज्ञत्वंप्राप्यविभु: पंचमुखैर्योभुंक्‍तऽजस्रं भोग्यपदार्थान् प्रकृतिस्थ: क्षेत्रक्षेत्रेऽप्स्वन्दुवदेको

बहुधाऽऽस्ते तं संसार० ॥ २७ ॥

युक्त्यालोड्यव्यासवचांस्यत्र हि लभ्य: क्षेत्रक्षेत्रज्ञांतरविद्भि: पुरुषाख्य: ।

योऽहंसोऽहंसोऽस्म्यहमेवेति विदुर्यं त सं० ॥ २८ ॥

एकीकृत्यानेकशरीरस्थमिमं ज्ञं यं विज्ञायेहैव स एवाशु भवन्ति ।

यस्मिल्लीनानेह पुनर्जन्म लभते त संसार० ॥ २९ ॥

द्वंद्वैकत्वंयच्च मधुब्राह्मणवाक्यै:कृत्वा शक्रोपासनमासाद्यविभूत्या ।

योऽसौ सोहंसोऽस्म्यहमेवेति विदुर्यं तं सं० ॥ ३० ॥

योऽयं देवे चेष्टायितांत:करणस्थसूर्ये चासौ तापयिता सोऽस्म्यहमेव ।

इत्यात्मैक्योपासनया यं विदुरीशं तं संसार० ॥ ३१ ॥

विज्ञानांशो यस्य सत: शक्त्यधिरूढो बुद्धिर्बुध्यत्यत्र बहिर्बोध्यपदार्थान् ।

नैवान्तस्थं बुध्यति यं बोधयितारं तं सं० ॥ ३२ ॥

कोऽयं देहे देव इतीत्थं सुविचार्य ज्ञाता श्रोता नन्दयिता चैष हि देव: ।

इत्यालोच्य ज्ञाशं इहास्मीतिविदुर्यं तं संसार० ॥ ३३ ॥

को ह्येवान्यादात्मनि न स्यादयमेष ह्येवानंद: प्राणिति चापानिति चेति ।

इत्यस्तित्वं वक्त्युपपत्त्या श्रुतिरेषा तं संसा० ।

को ह्येवान्यादात्मनि न स्यादयमेष ह्येवानंद: प्राणिति चापानिति चेति ।

इत्यस्तित्वं वक्त्युपपत्त्या श्रुतिरेषा तं संसा० ॥ ३४ ॥

प्राणो वाहं वाक्‌श्रवणादीनि मनो वा बुद्धिर्वादं व्यस्त उताहोऽपि समस्त: ।

इत्यालोच्य ज्ञप्तिरिहास्मीति विदुर्यं तं संसार० ॥ ३५ ॥

नाहं प्राणोनैव शरीरे न मनोऽहेनाहं बुद्धिर्नाहमहंकारधियौ च ।

योऽत्र ज्ञांश: सोऽस्म्यहमेवेति विदुर्यं तं सं० ॥ ३६ ॥

सत्तामात्रं केवलविज्ञानमजं सत्सूक्ष्मं नित्यं तत्त्वमसीत्यात्मसुताय ।

साम्नामंते प्राह पिता यं विभुमाद्यं तं संसार० ॥ ३७ ॥

मूर्त्तामूर्त्ते पूर्वमुपोह्याथ समाधौ दृश्यं सर्वं नेति च नेतीति विहाय ।

चैतन्यांशे स्वात्मनि सन्तं च विदुर्यं तं संसार० ॥ ३८ ॥

ओतं प्रोतं यत्र च सर्वं गगनांतंयोऽस्थूलानण्वादिषु सिद्धोऽक्षरसंज्ञ: ।

ज्ञाताऽतोन्यो नेत्युपलभ्यो नच वेद्यस्तं संसा० ॥ ३९ ॥

तावत्सर्वं सत्यमिवाभाति यथैतद्यावत्सोऽस्मीत्यात्मनि यो ज्ञो नहि दृष्ट: ।

दृष्टे तस्मिन् सर्वमसत्यं भवतीदं तं संसार० ॥ ४० ॥

रागामुक्‍तं लोहयुते हेमयथाग्नौ योगाष्टांगैरुज्ज्वलितज्ञनमयाग्नौ ।

दग्ध्वात्मानं ज्ञं परिशिष्टं च विदुर्यं तं संसार० ॥ ४१ ॥

यं विज्ञानज्योतिषमाद्यं सविभातं ह्रद्यर्केन्द्वग्न्योकसमीड्यं तडिदाभम् भक्त्याराध्येहैव ।

विशंत्यात्मनि संतं तं संसार० ॥ ४२ ॥

पायाद्भक्तं स्वात्मनि संतं तं पुरुषं यो भक्त्या स्तौतीत्यांगिरसं विष्णुरिमं माम् ।

इत्यात्मानं स्वात्मनि संह्रत्य सदेकस्तं संसा० ॥ ४३ ॥

इत्थं स्तोत्रं भक्‍तजनेड्यं भवभीतध्वांतार्काभं भगवत्पादीयमिदं य: ।

विष्णोर्लोकं पठति शृणोति व्रजति ज्ञो ज्ञानं ज्ञेयं स्वात्मनि चाप्नोति मनुष्य: ॥ ४४ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छकराचार्यविरचिता हरिस्तुति: समाप्त ॥

इति श्रीविष्णुस्तोत्राणि ॥२९ ॥

Translation - भाषांतर
N/A

N/A
Last Updated : 2008-02-10T14:29:59.2530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

दुसर्‍याचें नांव, आपलें गांव

  • दुसर्‍याचे नांव सांगून आपला स्वार्थ साधणें 
RANDOM WORD

Did you know?

गांवे, नद्या, समुद्र, देवदेवता किंवा अन्य नांवांची उत्पत्ती काय असेल? नांवे कशी पडली असतील?
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.