TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे|
अथ पांडवगीताप्रारम्भ:

अथ पांडवगीताप्रारम्भ:

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe,

अथ पांडवगीताप्रारम्भ:

श्रीगणेशाय नम: ॥ पांडव उवाच ॥

प्रल्हादनारदपराशरपुण्डलीकव्यासांबरीषशुकशौनकभीष्मदाल्भ्यान् ।

रुक्मांगदार्जुनवसिष्ठ-विभीषणादीन् पुण्यानिमान्परमभागवतान्स्मरामि ॥ १ ॥

लोमहर्षण उवाच ॥

धर्मो विवर्धति युधिष्ठिरकीर्तनेन पापं प्रणश्यति वृकोदरकीर्तनेन ।

शत्रुर्विनश्यति धनंजयकीर्तनेनामाद्रीसुतौ कथयतां न भवंति रोगा: ॥ २ ॥

ब्रह्मोवाच । ये मानवा विगतरागपरावरज्ञा नारायणं सुरगुरुं सततं स्मरंति ।

ध्यानेन तेन हतकिल्विषचेतनास्ते मातु: पयोधररसं न पुन: पिबंति ॥ ३ ॥

इंद्र उवाच ॥ नारायणो नाम नरो नराणांप्रसिद्धचोर: कथित: पृथिव्याम्।

अनेकजन्मार्जितपापसंचयं हरत्यशेषं स्मरतां सदैव ॥ ४ ॥

युधिष्ठिर उवाच ॥ मेघश्यामं पीतकौशेयवासं श्रीवत्सांकं कौस्तुभोद्भासितांगम् ।

पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वंदे सर्वलोकैकनाथम् ॥ ५ ॥

भीमसेन उवाच ॥ जलौघमग्ना सचराचरा धरा विबाण कोट्याखिलविश्‍वमूर्तिना ॥

समुद्‌धृता येन वराहरूपिणा स मे स्वयंभूर्भगवान्प्रसीदताम् ॥ ६ ॥

अर्जुन उवाच ॥ अचिन्त्यव्यक्‍तमनंतमव्ययं विभुं प्रभुं भावितविश्‍वभावनम् ॥

त्रैलोक्यविस्तारविचारकारकं हरिं प्रपन्नोऽस्मि गतिं महात्मनाम् ॥ ७ ॥

नकुल उवाच ॥ यदि गमनमधस्तात्कालपाशानु बद्धो यदि च कुलविहीने जायते पक्षिकीटे ।

कृमिशतमपि गत्वा जायते चांतरात्मा मम भवतु ह्रदिस्ते केशवे भक्‍तिरेका ॥ ८ ॥

सहदेव उवाच ॥ तस्य यज्ञवराहस्य विष्णोरतुलतेजस: ।

प्रणामं ये प्रकुर्वंति तेषामपि नमो नम: ॥ ९ ॥

कुंत्युवाच ॥ स्वकर्मफलनिर्दिष्टा यां यां योनिं व्रजाम्यहम् ।

तस्यां तस्यां ह्रषीकेशे त्वयि भक्‍तिर्दृढाऽस्तुमे ॥ १० ॥

माद्र्युवाच ॥ कृष्णे रता: कृष्णमनुस्मरंति रात्रौ च कृष्णं पुनरुत्थिता ।

ये ते भिन्नदेहा: प्रविशांति कृष्णं हविर्यथा मंत्रहुतं हुताशे ॥ ११ ॥

द्रुपद उवाच ॥ कीटेषु पक्षिषु मृगेषु सरीसृपेषु रक्ष:पिशाचमनुजेष्वपि यत्र यत्र ।

जातस्य मे भवतु केशव त्वत्प्रसादात्त्वय्येव भक्‍तिरचलाऽव्यभिचारणी च ॥ १२ ॥

सुभद्रोवाच ॥ एकोऽपि कृष्णस्य कृत: प्रणमो दशाश्‍वमेधावभृथेन तुल्य: ।

दशाश्‍वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥ १३ ॥

अभिमन्युरुवाच ॥ गोविंद गोविंद हरे मुरारे गोविंद गोविंद रथांगपाणे ।

गोविंद गोविंद मुकुन्दक्रुष्ण गोविंद गोविंद नमो नमस्ते ॥ १४ ॥

धृष्टद्युम्न उवाच ॥ श्रीराम नारायण वासुदेव गोविंद वैकुंठमुकुंद कृष्ण ।

श्रीकेशवानंत नृसिंह विष्णो मां त्राहि संसारभुजङ्गदष्टम् ॥ १५ ॥

सात्यकिरुवाच ॥ अप्रमेय हरे विष्णो कृष्णदामोदराच्युत ।

गोविंदानंत सर्वेश वासुदेव नमोऽस्तु ते ॥ १६ ॥

उद्धव उवाच ॥ वासुदेवं परित्यज्य ये‍ऽन्यं देवमुपासते ।

तृषिता जाह्नवीतीरे कूपं वाञ्छंति दुर्भगा: ॥ १७ ॥

धौम्य उवाच ॥ अपां समीपे शयनासनस्थं दिवा च रात्रौ च यथाधिगच्छताम् ।

यद्यस्ति किंचित्सुकृतं कृतं मया जनार्दनस्तेन कृतेन तुष्यतु ॥ १८ ॥

संजय उवाच ॥ आर्ता विषण्णा: शिथिलाश्‍च भीता घोरेषु व्याघ्रादिषु वर्तमाना: ।

संकीर्त्य नारायणशब्‍दमात्रं विमुक्‍तदु:खा: सुखिनो भवंति ॥ १९ ॥

अक्रूर उवाच ॥ अहं तु नारायणदासदास दासस्य दासस्य च दासदास: ।

अन्येभ्य ईशो जगतो नराणां तस्मादहं चान्यतरोऽस्मि लोके ॥ २० ॥

विदुर उवाच ॥ वासुदेवस्य ये भक्‍ता: शांतास्तद्‍गतमानसा: ।

तेषां दासस्य दासोऽहं भवे जन्मनि जन्मनि ॥ २१ ॥

भीष्म उवाच ॥ विपरीतेषु कालेषु परिक्षीणेषु बंधुषु । त्राहि मां कृपया कृष्ण शरणागतवत्सल ॥ २२ ॥

द्रोणाचार्य उवाच ॥ ये ये हताचक्रधरेण राजंस्त्रैलोक्यनाथेन जनार्दनेन ।

ते ते गता विष्णुपुरीं प्रयाता: क्रोधोऽपि देवस्य वरेण तुल्य: ॥ २३ ॥

कृपाचार्य उवाच ॥ मज्जन्मन: फलमिदं मधुकैटभारे मत्प्रार्थनीय मदनुग्रह एष एव ।

त्वद्‍भृत्यभृत्यपरिचारकभृत्यभृत्य भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥ २४ ॥

अश्‍वत्थामोवाच ॥ गोविंद केशव जनार्दन वासुदेव विश्‍वेश विश्‍व मधुसूदन विश्‍वनाथ।

श्रीपद्मनाभ पुरुषोत्तम पुष्कराक्ष नारायणाच्युत नृसिंह नमो नमस्ते ॥ २५ ॥

कर्ण उवाच ॥ नान्यं वदामि न श्रृणोमि न चिंतयामि नान्यं स्मरामि न भजामि न चाश्रयामि ।

भक्त्या त्वदीयचरणांबुजमंतरेण श्री श्रीनिवास पुरुषोत्तम देहि दास्यम् ॥ २६ ॥

धृतराष्ट्र उवाच ॥

नमो नम: कारणवामनाय नारायणायामितविक्रमाय ।

श्रीशार्ङ्गचक्राब्जगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ २७ ॥

गांधार्युवाच ॥ त्वमेव माता च पिता त्वमेव त्वमेव बंधुश्च सखा त्वमेव ।

त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्व मम देव देव ॥ २८ ॥

द्रौपद्युवाच ॥ यज्ञेशाच्युत गोविंद माधवानंत केशव ।

कृष्ण विष्णो ह्रषीकेश वासुदेव नमोस्तु ते ॥ २९ ॥

जयद्रथ उवाच ॥ नम: कृष्णाय देवाय ब्रह्मणेऽनन्तमूर्तये ।

योगेश्‍वराय योगाय त्वामहं शरणं गत: ॥ ३० ॥

विकर्ण उवाच ॥ कृष्णाय वासुदेवाय देवकीनंदनायच ।

नंदगोपकुमाराय गोविंदाय नमो नम: ॥ ३१ ॥

सोमदत्त उवाच ॥ नम: परमकल्याण नमस्ते विश्‍वभावन ।

वसुदेवाय शांताय यदूनां पतये नम: ॥ ३२ ॥

विराट् उवाच ॥ नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।

जगद्विताय कृष्णाय गोविंदाय नमो नम: ॥ ३३ ॥

शल्य उवाच ॥ अतसीपुष्पसंकाशं पीतवाससमच्युतम् ॥

ये नमस्यंति गोविंदं न तेषा विद्यते भयम् ॥ ३४ ॥

बलभद्र उवाच ॥ कृष्णकृष्ण कृपालुस्त्वमगतीनां गतिर्भव।

संसारार्णवमग्नानां प्रसीद पुरुषोत्तम ॥ ३५ ॥

श्रीकृष्ण उवाच ॥ कृष्ण कृष्णेति कृष्णेति यो मां स्मरति नित्यश: ॥

जलं भित्वा यथा पद्मं नरकादुद्धराम्यहम् ॥ ३६ ॥

सत्यं ब्रवीम मनुजा: स्वयमूर्ध्वबाहुर्यो मां मुकुंद नरसिंह जनार्दनेति ।

जीवो जपत्यनुदिनं मरणे रणे वा पाषाणकाष्ठसदृशाय ददाम्यभीष्टम् ॥ ३७ ॥

सूत उवाच ॥ तत्रैव गङ्गा यमुना च वेणि गोदावरी सिंधुसरस्वती च ॥

सर्वाणि तीर्थानि वसंति तत्रयत्राच्युतोदारकथाप्रसंग: ॥ ३८ ॥

यम उवाच ॥ नरके पच्यमानं यु यमेन परिभाषितम् ।

किं त्वया नार्चितो देव: केशव: क्लेशनाशन: ॥ ३९ ॥

नारद उवाच ॥

जन्मांतरसहस्रेण तपोध्यनसमाधिभि: नराणां क्षीणपापानं कृष्णे भक्‍ति: प्रजायते ॥ ४० ॥

प्रल्हाद उवाच ॥ नाथ योनिसहस्त्रेषु येषु येषु व्रजाम्यहम् ।

तेषुतेष्वचला भक्‍तिरच्युतास्तु सदा त्वयि ॥ ४१ ॥

या प्रीतिरविवेकानां विषयेष्वनपायिनी ।

त्वामनुस्मरत: सा मे ह्रदयान्मापसर्पतु ॥ ४२ ॥

विश्‍वामित्र उवाच ॥ किं तस्य दानै: किं मानै: किं तपोभि: किमध्वरै: ।

यो नित्यं ध्यायते देवं नराणां मनसि स्थितम् ॥ ४३ ॥

जमदग्निरुवाच ॥ नित्योत्सवस्तदा तेषां नित्यश्रीर्नित्यमङ्गलम् ।

येषां ह्रदिस्थो भगवान्मंगलायतनो हरि: ॥ ४४ ॥

भरद्वाज उवाच ॥ लाभस्तेषां जयस्तेषां कुत्स्तेषां पराजय: ।

येषामिन्दीवरश्यामो ह्रदयस्थो जनार्दन: ॥ ४५ ॥

गौतम उवाच ॥ गोकोटिदानं ग्रहणेषु काशीप्रयागगंगाऽयुतकल्पवास: ।

यज्ञायुतं मेरुसुवर्णदानं गोविन्दनाम्ना न कदापि तुल्यम् ॥ ४६ ॥

अत्रिरुवाच ॥ गोविन्देति सदा स्नानं गोविन्देति सदा जप: ।

गोविन्देति सदा ध्यानं सदा गोविन्द कीर्तनम् ॥ ४७ ॥

अक्षरं हि पर ब्रह्म गोविन्देत्यक्षरत्रयम् ।

तस्मादुच्चरितंम येन ब्रह्मभूयाय कल्पते ॥ ४८ ॥

श्रीशुक उवाच ॥ अच्युत: कल्पवृक्षोऽसावनन्त: कामधेनव: ।

चिन्तामणिश्‍च गोविन्दोहरिनाम विचिन्तयेत् ॥ ४९ ॥

हरिरुवाच ॥ जयति जयति देवो देवकीनन्दनोऽप्यं जयति जयति कृष्णो वृष्णिवंशप्रदीप: ।

जयति जयति मेघश्यामल: कोमलागो जयति जयति पृथ्वीभारनाशो मुकुन्द: ॥ ५० ॥

पिप्पलायन उवाच ॥ श्रीमन्नृसिंहविभवे गरुडध्वजाय तापत्रयोपशमनाय भवौषधाय ।

कृष्णाय वृश्‍चिकजलाग्निभुजंगरोगलेशव्ययाय हरये गुरवे नमस्ते ॥ ५१ ॥

आविर्होत्र उवाच ॥ कृष्ण त्वदीयपदपंकजपंजरान्ते अद्यैव मे विशतु मानसराजहंस: ।

प्राणप्रयाणसमये कफवातपित्तै: कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥ ५२ ॥

विदुर उवाच ॥ हरेर्नामैव नामैव नामैव मम जीवनम् ।

कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा ॥ ५३ ॥

वसिष्ठ उवाच ॥ कृष्णेति मङ्गलं नाम यस्य वाचिप्रवर्तते ।

भस्मीभवंति तस्याशु महापातककोट्य: ॥ ५४ ॥

अरुंधत्युवाच ॥ कृष्णाय वासुदेवाय हरये परमात्मने ।

प्रणतक्लेशनाशाय गोविंदाय नमोनम: ॥ ५५ ॥

कश्यप उवाच ॥ कृष्णानुस्मरणादेव पापसंघातपंजर: ।

शतधा भेदमाप्नोति गिरिर्वज्रहतो यथा ॥ ५६ ॥

दुर्योधन उवाच ॥ जानामि धर्मं न च मे प्रवृत्तिर्जानाम्यधर्मं न च मे निवृत्ति: ।

केनापि देवेन ह्रदि स्थितेन यथा नियुक्‍तोऽस्मि तथा करोमि ॥ ५७ ॥

यत्रस्वगुणदोषेण क्षम्यतां मधुसूदन: ॥ अहमेवमहं हंतुं मम दोषो न विद्यते ।

यत्रस्वगुणदोषेण क्षम्यतां मधुसूदन॥ ॥ अहमेवमह हंतुं मम दोषो न विद्यते ॥ ५८ ॥

भृगुरुवाच हतव गोविंदकलौ त्वत्त: शताधिकम् ।

ददात्युच्चारणान्मुक्तिं विना अष्टांगयोगत: ॥ ५९ ॥

लोमहर्षण उवाच ॥

नमामि नारायण पादपंकजं करोमि नारायण पूजनं सदा ।

वदामि नारायणनाम निर्मलं स्मरामि नारायणतत्त्वमव्ययम् ॥ ६० ॥

शौनक उवाच ॥ स्मृत्वा सकलकल्याणभाजन यत्र जायते ।

पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥ ६१ ॥

गर्ग उवाच ॥ नारायणेति मन्त्रोऽस्ति वागस्ति वशवर्तिनी ।

तथापी नरके घोरे पततीत्येतदद्‍भुतम् ॥ ६२ ॥

दालभ्य उवाच ॥ किं तस्य बहुभिर्मंत्रैर्भक्तिर्यस्य जनार्दने ।

नमो नारायणायेति मंत्र: सर्वार्थसाधक: ॥ ६३ ॥

वैशंपायन उवाच ॥ यत्र योगेश्वर: कृष्णो यत्र पार्थो धनुर्धर: ॥

तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ ६४ ॥

अंगिरा उवाच । हरिर्हरति पापानि दुष्टचित्तैरपि स्मृत: ।

अनिच्छयाऽपि संस्पृष्टो दहत्येवहि पावक: ॥ ६५ ॥

पराशर उवाच ॥ सकृदच्चरितं येन हरिरित्यक्षरद्वयम् ।

बद्ध: परिकरस्तेन मोक्षाय गमनं प्रति ॥ ६६ ॥

पौलस्त्य उवाच ॥

हे जिह्वे रससारज्ञे सर्वदा मधुरप्रिये ।

नारायणाख्यपीयूषं पिब जिह्वे निरन्तरम् ॥ ६७ ॥

व्यास उवाच । सत्यं सत्यं पुन: सत्यं भुजमुत्थाप्य चोच्यते ।

न वेदाच्च परं शास्त्रं न देव: केशवात्पर: ॥ ६८ ॥

धन्वंतरिरुवाच ॥ अच्युतानंतगोविन्द नामोच्चारणभेषजात् ।

नश्यंति सकला रोगा: सत्यं सत्यं वदाम्यहम् ॥ ६९ ॥

मार्कण्डेय उवाच ॥ सा हानिस्तन्महच्छिद्रं सा चांधजडमूढता ।

यन्मुहूर्तं क्षणं वापि वासुदेवं न चिंतयेत् ॥ ७० ॥

अगस्त्य उवाच ॥ निमिषं निमिषार्धं वा प्राणिनां विष्णुचिंतनम् ।

क्रतुकोटि सहस्राणां ध्यानमेकं विशिष्यते ॥ ७१ ॥

मनसा कर्मणा वाचा ये स्मरंति जनार्दनम् ।

तत्र तत्र कुरु क्षेत्रं प्रयागो नैमिषं वनम् ॥ ७२ ॥

श्रीशुक उवाच ॥ आलोड्य सर्वशास्त्राणि विचार्यैवं पुन: पुन: ।

इदमेकंसुनिष्पन्नं ध्येयो नारायण: सदा ॥ ७३ ॥

श्रीमहादेव उवाच ॥ शरीरं च नवच्छिद्रं व्याधिग्रस्तं कलेवरम् ।

औषधं जाह्नवीतोयं वैद्यो नारायणो हरि: ॥ ७४ ॥

शौनक उवाच ॥ भोजनाच्छादने चिंतां वृथाकुर्वंति वैष्णवा: ॥

योऽसौ विश्वंभरो देव:स भक्तान् किमुपेक्षते ॥ ७५ ॥

एवं ब्रह्मादयो देवा ऋषयश्‍च तपोधना: ।

कीर्तयंति सुरश्रेष्ठं देवं नारायणं विभुम् ॥ ७६ ॥

सनत्कुमार उवाच ॥ यस्य हस्ते गदा चक्रगरुडो यस्य वाहनम् ।

शंख: करतले यस्य स मे विष्णु प्रसीदतु ॥ ७७ ॥

इदं पवित्रमायुष्य पुण्यं पापप्रणाशनम् ।

य: पठेत्प्रातरुत्थाय वैष्णवं स्तोत्रमुत्तमम् ॥ ७८ ॥

सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात् ॥

धर्मार्थकाममोक्षार्थं पाण्डवै: परिकीर्तितम् ॥ ७९ ॥

आकाशात्पतितं तोयं यथा गच्छति सागरम् ।

सर्वदेवनमस्कार: केशवं प्रति गच्छति ॥ ८० ॥

इति पांडवकृतप्रपन्नगीता सम्पूर्णा ।

Translation - भाषांतर
N/A

N/A
Last Updated : 2008-02-10T14:29:58.4630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सांकेतिक

  • वि. १ संकेतासंबंधी . संकेत पहा . २ विशिष्ट खुणा , चिन्हें , हावभाव इ० नें युक्त , दर्शित केलेलें . ३ पारिभाषिक ; सांज्ञिक . हें भूमितिशास्त्रांतलें सांकेतिक पद होय . - सुकौ ३९ . [ सं . ] 
  • ०लेखन न. एखाद्या शास्त्रांतील विशिष्ट चिह्नें वापरून केलेलें लिखाण . ( इं . ) नोटेशन . गवयास गायनाची शास्त्रोक्त माहिती व सदरहूचें सांकेतिक लेखनही अवगत असावें . - कला ८ . 
  • वि. इशार्‍याच्या खुणांनी सूचीत करणारे ; 
  • a  Relating to संकेत. That consists of signs. 
More meanings
RANDOM WORD

Did you know?

मनुष्याच्या जीवनात स्नानाचे महत्त्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site