संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
ईश्वर उवाच मातर्जगद्रचन- ...

धाराह्यनुग्रहाष्टकम् - ईश्वर उवाच मातर्जगद्रचन- ...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


ईश्वर उवाच मातर्जगद्रचन- नाटक- सूत्रधार स्त्वद्रूपमाकलयितुं परमार्थतोऽयम् ।
ईशोऽप्यमीश्वरपदं समुपैति तादृक् कोऽन्यः स्तवं किमिव तावकमादधातु ॥ १ ॥
नामानि किन्तु गृणतस्तव लोकतुण्डे नाडम्बरं स्पृशति दण्डधरस्य दण्डः ।
यल्लेशलम्बित- भवाम्बुनिधिर्यतो यत् त्वन्नामसंसृतिरियं ननु नः स्तुतिस्ते ॥ २ ॥
त्वच्चिन्तनादर- समुल्लसदप्रमेया- ऽऽनन्दोदयात् समुदितः स्फुटरामहर्षः ।
मातर्नमामि सुदिनानि सदेत्यमुं त्वा- मभ्यर्थयेऽर्थमिति पूरयताद् दयालो ॥ ३ ॥
इन्द्रेन्दुमौलि- विजि- केशवमौलिरत्न- रोचिश्चयोज्ज्वलित पादसरोजयुग्मे ।
चेतो मतौ मम सदा प्रतिविम्बिता त्वं भूया भवानि विदधातु सदोरुहारे ॥ ४ ॥
लीलोद्धृतक्षितितलस्य वराहमूर्ते- र्वाराहमूर्तिरखिलार्थकरी त्वमेव ।
प्रालेयरश्मिसुकलोल्लसितावतंसा त्वं देवि वामतनुभागहरा रहस्य ॥ ५ ॥
त्वामम्ब तप्तकन कोज्ज्वलकान्तिमन्त- र्ये चिन्तयन्ति युवतीतनुमागलान्ताम् ।
चक्रायुधत्रिनयनाम्बरपोतृवक्त्रां तेषां पदाम्बुजयुगं प्रणमन्ति देवाः ॥ ६ ॥
त्वत्सेवनस्खलित पापचयस्य घास- र्मोक्षोऽपि यत्र न सतां गणनानुफैति ।
देवासुरोरगनृपालनमस्य पाद- स्तत्र श्रियः पटुगिरः कियषेवमस्तु ॥ ७ ॥
किं दुष्करं त्वयि मनोविषयं गतायां किं दुर्लभं त्वयि विधानवदर्चितायाम् ।
किं दुष्करं त्वयि सकृत्स्मृतिमागतायां किं दुर्जयं त्वयि कृतस्तुतिवादपुसाम् ॥ ८ ॥
इति श्री धाराह्यनुग्रहाष्टकं सम्पूर्णम्

N/A

References : N/A
Last Updated : July 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP