संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
कृतार्तदेववन्दनं दिनेशवंश...

रामाष्टकम् - कृतार्तदेववन्दनं दिनेशवंश...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


कृतार्तदेववन्दनं दिनेशवंशनन्दनम् । सुशोभिभालचन्दनं नमामि राममीश्वरम् ॥ १ ॥
मुनीन्द्रयज्ञकारकं शिलाविपत्तिहारकम् । महाधनुर्विदारकं नमामि राममीश्वरम् ॥ २ ॥
स्वतातवाक्यकारिणं तपोवने विहारिणम् । करे सुचापधारिणं नमामि राममीश्वरम् ॥ ३ ॥
कुरङ्गमुक्तसायकं जटायुमोक्षदायकम् । प्रविद्धकीशनायकं नमामि राममीश्वरम् ॥ ४ ॥
प्लवङ्गसङ्गसम्मतिं निबद्धनिम्नगापतिम् । दशास्यवंशसङ्क्षतिं नमामि राममीश्वरम् ॥ ५ ॥
विदीनदेवहर्षणं कपीप्सितार्थवर्षणम् । स्वबन्धुशोककर्षणं नमामि राममीश्वरम् ॥ ६ ॥
गतारिराज्यरक्षणं प्रजाजनार्तिभक्षणम् । कृतास्तमोहलक्षणं नमामि राममीश्वरम् ॥ ७ ॥
हृताखिलाचलाभरं स्वधामनीतनागरम् । जगत्तमोदिवाकरं नमामि राममीश्वरम् ॥ ८ ॥
इदं समाहितात्मना नरो रघूत्तमाष्टकम् । पठन्निरन्तरं भयं भवोद्भवं न विन्दते ॥ ९ ॥
॥इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं श्रीरामाष्टकं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : July 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP