संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
अन्यस्य दोषगणनाकुतुकं ममै...

दोषपरिहाराष्टकम् - अन्यस्य दोषगणनाकुतुकं ममै...


देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.
 


अन्यस्य दोषगणनाकुतुकं ममैत- दाविष्करोति नियतं मयि दोषवत्त्वम् ।
दोषः पुनर्मयि नचेदखिले सतीशे दोषग्रहः कथमुदेतु ममेश तस्मिन् ॥ १ ॥
एषाप्यथेतरकृतेति ममेश कस्मिन् कोपो यदि स्वपरकाममुखप्रसूता ।
सेयं व्यथेति मयि मे न कथन्नु कोपः स्वस्य व्यथा स्वदुरितप्रभवा हि सर्वा ॥ २ ॥
कामप्रभृत्यखिलदोषनिधेर्ममैष मव्याह दोषमिति कोनु दुराग्रहोऽस्मिन् ।
हेयत्वमालपति योऽयमलं न केन वार्योऽथ सत्ववति सोऽयमसत् किमाह ॥ ३ ॥
यस्संश्रितः स्वहितधीर्व्यसनातुरस्त- द्दोषस्य तं प्रति वचोऽस्तु तदन्यदोषम् ।
यद्वच्मि तन्मम न किं क्षतये स्वदोष- चिन्तैव मे तदपनोदफलोचितातः ॥ ४ ॥
दोषं परस्य ननु गृण्हति मय्यनेन स्वात्मैष एव परगात्रसमाहृतेन ।
दुर्वस्तुनेव मलिनीकृयते तदन्य- दोषग्रहादहह किं न निवर्तितव्यम् ॥ ५ ॥
निर्दोषभावमितरस्य सदोषभावं स्वस्यापि संविदधती परदोषधीर्मे ।
आस्तामियं तदितरातु परार्तिमात्र- हेतुर्व्यनक्तु न कथं मम तुच्छभावम् ॥ ६ ॥
पद्मादिसौरभ इव भ्रमरस्य हर्षं हित्वाऽन्यदीयसुगुणे पुनरन्यदोषे ।
हर्षो दुरर्थ इव गेहकिटेः किमास्ते हा मे कदेश कृपया विगळेत्स एषः ॥ ७ ॥
दोषे स्वभाजिमतिकौशलमन्यभाजि मौढ्यं गुणेऽन्यजुषि हर्षभरः स्वभाजि ।
अस्तप्रसक्तिरखिलेषु दयात्युदार- वृत्योर्जितो मम कदास्तु हरानुरागः ॥ ८ ॥
॥ इति श्री श्रीधरवेंकटेशार्येण विरचितम् दोषपरिहाराष्टकं संपूर्णम् ॥

N/A

References : N/A
Last Updated : July 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP