आदित्यह्रुदयम् (१)

सूर्य ग्रह नवग्रहांतील प्रमुख देवता आहे. वैदिक काळापासून प्रकाश आणि जीवन देणार्‍या सुर्याला देवता मानले आहे.

Sun is leader of the nine planets According to Vedic literature,the main deity is the Sun-god.

 


श्रीगणेशाय नम:॥ शतानीक उवाच ॥

कथमदित्यमुंद्यंतमृपतिष्ठेद् द्विजोत्तम: । एतन्मे बुहि विप्रेन्द्र प्रपद्ये शरणं तव ॥१॥

सुमंतुरुवाच ॥

इदमेव पुरा पृष्ट: शंखचक्रगदाधर: । प्रणम्य शिरसा देवमर्जुनेन महात्मना ॥२॥

कुरुक्षेत्रे महाराजप्रवृते भारते रणे । कृष्णंनाथं सभासाद्य प्रार्थयित्वाऽब्रवीदिदम् ॥३॥

अर्जुन उवाच ॥

ज्ञानं च धर्मशास्त्राणां गुह्याद्‍गुह्यतरं तथा। मया कृष्ण परिज्ञातं वाड;मयं सचराचरम् ॥४॥

सूर्यस्तुतिमयं न्यासं वक्तुमर्हसि माधव । भक्‍त्या पृच्छामि देवेश कथयस्व प्रसादत: ॥५॥

सूर्यभक्तिं करिष्यामि कथं सूर्य प्रपूजयेत् । तदहं श्रोतुमिच्छामि त्वत्प्रसादेन यादव ॥६॥

श्रीभगवानुवाच ॥

रुद्रादिदैवतै: सर्वैं: पृष्टेन कथितं मया । वक्ष्येऽहं सूर्याविन्यासं श्रृणु पांडव यत्‍नत: ॥७॥

अस्माकं यत्वया पृष्टमेकचितो भवार्जुन । तदहं संप्रवक्ष्यामि आदिमध्यावसानकम् ॥७॥

अस्माकं यत्वया पृष्टमेकचित्तो भवार्जुन । तदहं संप्रक्ष्यामि आदिमध्यावसानकम् ॥८॥

अर्जुन उवाच ॥

नारायण सुरश्रेष्ठ पृच्छामि त्वां महायश: । कथ मादित्यमुद्यंतमुपतिष्ठेत्सनातनम् ॥९॥

श्रीभगवानुवाच ॥

साधु पार्थ महाबाहो बुद्धिमानसि पांडव ॥ यन्मां पृच्छस्युपस्थानं तप्तवित्रं विभावसो: ॥१०॥

सर्वमंगलमांगल्यं सर्वपापप्रणाशनम् । सर्वरोगप्रशमनमायुर्वर्धनमुत्तमम् ॥११॥

अमित्रदमनं पार्थ संग्रामे जयवर्धनम् । वर्धनं धनपुत्राणामादित्यह्रदयं श्रृणु ॥१२॥

यच्छ्रु त्वा सर्वपापेभ्यो मुच्यते नात्र संशय: । त्रिषु लोकेषु विख्यातं नि:श्रेयसकरं परम् ॥१३॥

देवदेवं नमस्कृत्य प्रातरुत्थाय चार्जुन । विघ्नान्यनेकरूपाणि नश्यंति स्मरंणादपि ॥१४॥

तस्मात्सर्वप्रयत्‍नेन सुर्यमावाहयेत् सदा । आदित्यहृदयं नित्यं जाप्यं तच्छृणु पांडव ॥१५॥

यज्जपान्मुच्यते जंतुर्दारिद्यादाशु दुस्तरात । लभते च महा सिद्धिं कृष्ठव्याधिविनाशिनीम् ॥१६॥

अस्मिन्मत्रें ऋषिश्छंदो देवताशक्तिरेव च । सर्वमेव महाबाहो कथयामि तवाग्रत: ॥१७॥

मया ते गोपितं न्यासं सर्वशास्त्रप्रबोधितम् । अथ ते कथयिष्यामि उत्तमं मंत्रमेव च ॥१८॥

ॐ अस्य श्रीआदित्यहृदयस्तोत्रमंत्रस्य श्रीकृष्ण ऋषि: । श्रीसुर्यात्मा त्रिभुवनेश्‍वरो देवता । अनुष्टुप्छंद: ।

हरितहयरथं दिवाकरं घृणिरिति बीजम् । ॐ नमो भगवते जितवैश्‍वानरजातबेदसे इति शक्ति: ।

ॐ नमो भगवते आदित्याय नम: इति कीलकम् । ॐ अग्निगर्भदेवता इति मंत्र: । ॐ नमो भगवते तुभ्यमादित्याय नमो नम: श्रीसुर्यनारायणप्रीत्यर्थं जपे विनियोग: ॥ अथ न्यास: ॥ ॐ ह्रां अंगुष्ठाभ्यां नम: । ॐ ह्रीं तर्जनीभ्यां नम: ।

ॐ ह्रू मध्यमाभ्यां नम: । ॐ ह्रैं अनामिकाभ्यां नम: । ॐ ह्रौं कनिष्ठिकाभ्यां नम: । ॐ ह्र: करतलकरपृष्ठाभ्यां नम: ।

ॐ ह्रां हृदयाय नम: । ॐ ह्रीं शिरसे स्वाहा । ॐ ह्रूं शिखायै वषट् । ॐ ह्रै कवचाय हुम् । ॐ ह्रौं नेत्रत्रयाय वौषट् ।

ॐ ह्र: अस्त्राय फट्‍ । ॐ ह्रां ह्रीं ह्रूं ह्रै ह्रौं ह्र: इति दिग्बन्ध: ॥ अथ ध्यानम् ॥

भास्वद्रत्‍नाढयमौलि : स्फुरदधररुचा रंजितश्‍चारुकेशो भास्वान्यो दिव्यतेजा: करकमलयुत: स्वर्णवर्ण : प्रभाभि: । विश्‍वाकाशावकाशग्रहपतिशिखरे भाति यश्‍चोदयाद्रो सर्वानंदप्रदाता हरिहरनमित: पातु मां विश्‍वचक्षु: ॥१॥

पूर्वमष्टदलं पद्मं प्रणवादिप्रतिष्ठितम् । मायाबीजं दलाष्टाग्रे यन्त्रमद्धारयेदिति ॥२॥

आदित्यं भास्करं भानुं रविं सूर्य दिवाकरम् । मार्तंडं तपनं चेति दलेष्वष्टषु योजयेत् ॥३॥

दीप्ता सुक्ष्मा जया भद्रा विभूतिर्विमला तथा । अमोघा विद्युता चेति मध्ये श्री: सर्वतोमुखी ॥४॥

सर्वज्ञ: सर्वगश्‍चैव सर्व कारणदेवता । सर्वेशं सर्वह्र्दयं नमामि सर्वसाक्षिणम् ॥५॥

सर्वात्मा सर्वकर्ता च सृष्टिजीवनपालक: । हित: स्वर्गापवर्गश्‍च भास्करेश नमोऽस्तु ते ॥६॥

इति प्रार्थना ॥

नमो नमस्तेऽस्तु सदा विभावसो सर्वात्मने सप्तहयाय भानवे । अनन्तशक्तिं मणिभुषणेन ददस्व भुक्तिं मम मुक्तिमव्ययाम् ॥७॥

अर्कं तु मूर्ध्नि विन्यस्य ललाटे तु रविं न्यसेत् । विन्यसेन्नेत्रयो: सुर्यं कर्णयोश्‍च दिवाकरम् ॥८॥

नासिकायां न्यसेद्भानुं मुखें वै भास्करं न्यसेत् । पर्जन्यमोष्ठ्योश्‍चैव तीक्ष्णं जिह्वांतरे न्यसेत् ॥९॥

सुवर्णरेतसं कण्ठे स्कन्धयोस्तिग्मतेजसम् । बाह्वोस्तु पुषणं चैव मित्रं वै पृष्ठतो न्यसेत् ॥१०॥

वरुणं दक्षिणे हस्ते त्वष्टारं वामत: करे । हस्तावुष्णकर : पातु हृदयं पातु भानुमान् ॥११॥

उदरे तु यमं विद्यादादित्यं नाभिमण्डले । कट्यां तु विन्यसेद्धंसं रुद्रमुर्वोस्तु विन्यसेत् ॥१२॥

जान्वोस्तु गोपतिं न्यस्य सवितारं तु जंघयो: । पादयोश्‍च विवस्वंतं गुल्फयोश्‍च दिवाकरम् ॥१३॥

बाह्यतस्तु तमोध्वंसं भगमभ्यंतरे न्यसेत् । सर्वांगेषु सहस्त्रांशुं दिग्विदिक्षु भगं न्यसेत् ॥१४॥

इति दिग्बन्ध: ॥

एष आदित्यविन्यासो देवनाम पि दुर्लभ: । इमं भक्‍त्या न्यसेत्पार्थ स याति परमां गतिम् ॥१५॥

कामक्रोधकृताप्तापान्मुच्यते नात्र संशय: । सर्पदपि भयं नैव संग्रामेषु पथिष्वपि ॥१६॥

रिपुसंघट्टकालेषु तथा चोरसमागमे । त्रिसंध्यं जपतो न्यासं महापातकनाशनम् ॥१७॥

विस्फोटकसमुत्पन्नं तीव्रज्वरसमुद्भवम् । शिरोरोगं नेत्ररोगं सर्वव्याधिविनाशनम् ॥१८॥

कुष्ठव्याधिस्तथा दद्रुरोगाश्‍च विविधाश्‍च ये । जपमानस्य नश्यंति श्रृणु भक्‍त्या तदर्जुन ॥१९॥

आदित्यो मन्त्रसंयुक्त आदित्यो भुवनेश्‍वर: । आदित्यान्नापरो देवो ह्यादित्य: परमेश्‍वर: ॥२०॥

आदित्यमर्चयेद्ब्रह्मा शिव आदित्यमर्चयेत् । यदादित्यमयं तेजो मम तेजस्तदर्जुन ॥२१॥

आदित्यं मंत्रसंयुक्तमादित्यं भुवनेश्‍वरम् ॥ आदित्यं ये प्रपश्यंति मां पश्यंति न संशय: ॥२२॥

त्रिसंध्यमर्चयेत्सुर्यं स्मरेद्भक्‍त्या तु यो नर: । न स पश्यति दारिद्र्यं जन्मजन्मनि चार्जुन ॥२३॥

एतत्ते कथितं पार्थ आदित्यहृदयं मया । श्रृण्वन्मुक्तश्‍च पोपेभ्य: सुर्यलोके महीयेत ॥२४॥

नमो भगवते तुभ्यमादित्याय नमो नम: । आदित्य: सविता सुर्य: खग: पुषा गभस्तिमान् ॥२५॥

सुवर्ण: स्फटिको भानु: स्फुरितो विश्‍वतापन: । रविर्विश्‍वो महातेजा: सुवर्ण: सुप्रबोधक: ॥२६॥
हिरण्यगर्भस्त्रिशिरास्तपनो भास्करो रवि: । मार्तण्डो गोपति: श्रीमन् कृतज्ञश्‍च प्रतापवान् ॥२७॥

तमिस्त्रहा भगो हंसो नासत्यश्‍च तमोनुद: । शुद्धो विरोचन: केशी सहस्त्रांशुर्महाप्रभु: ॥२८॥

विवस्वान्पुषणो मृत्युर्मिहिरो जामदग्नजित् । घर्मरश्मि: पतंगश्‍च शरण्यो मित्रहा तप: ॥२९॥

दुर्विज्ञेयगति: शुरस्तेजोरश्मिर्महायशा: । शंभुश्‍चित्रांगद: सौम्यो हव्यकव्यप्रदायक: ॥३०॥

अंशुमानुत्तमो देव ऋग्यजु: साम एव च ॥ हरिदश्‍वस्तमोदार: सप्तसप्तिर्मरीचिमान् ॥३१॥

अग्निगर्भोंऽदिते: पुत्र शंभुस्तिमिरनाशन: । पुषा विश्‍वंभरो मित्र: सुवर्ण: सुप्रतापवान् ॥३२॥

आतपी मंडली भास्वांस्तपन: सर्वतापन: । कृतविश्‍वो महातेजा: सर्वरत्‍नमयोअद्भव: ॥३३॥

अक्षरश्‍च क्षरश्‍चैव प्रभाकरविभाकरौ । चंद्रश्‍चंद्रांगद: सौम्यो हव्यकव्यप्रदायक: ॥३४॥

अङ्गारकोऽगदोऽगस्ती रक्तांगश्‍चांगवर्धन: । बुधो बुद्धासनो बुद्धिर्बुद्धात्मा बुद्धिवर्धन: ॥३५॥

बृहद्भानुर्बुहद्भासो बृहद्भामा बृहस्पति: । शुक्लस्त्वं शुक्लरेतास्त्वं शुक्लांग: शुक्लभुषण: ॥३६॥

शनिमान् शनिरुपस्त्वं शनैर्गच्छसि सर्वदा । अनादिरादित्यस्तेजोराशिर्महातपा: ॥३७॥

अनादिरादिरुपस्त्वमादित्यो दिक्पतिर्यम: । भानुमान् भानुरुपस्त्वं स्वर्भानुर्भानुदीप्तिमान् ॥३८॥

धुम्रकेतुर्महाकेतु: सर्वकेतुरनुत्तम: । तिमिरावण: शंभु: स्त्रष्टा मार्तंड एव च ॥३९॥

नम: पूर्वाय गिरये पश्‍चिमाय नमो नम: । नमोत्तराय गिरये दक्षिणाय नमो नम: ॥४०॥

नमो नम: सहस्त्रांशो ह्यादित्याय नमो नम: । नम: पद्मप्रबोधाय नमस्ते द्वादशात्मने ॥४१॥

नमो विश्‍व प्रबोधाय नमो भ्राजिष्णुजिष्णवे । ज्योतिषे च नमस्तुभ्यं ज्ञानार्काय नमो नम: ॥४२॥

प्रदीप्ताय प्रगल्भाय युगांताय नमो नम: ॥ नमस्ते होतृपतये पृथिवीपतये नम: ॥४३॥

नम ॐकार वषट्कार सर्वयज्ञ नमोस्तु ते ॥ ऋग्वेदाथ यजुवैद समावेद नमोऽस्तु ते ॥४४॥

नमो हाटकवर्णाय भास्कराय नमो नम: । जयाय जयभद्राय हरिदश्‍वाय ते नम: ॥४५॥

दिव्याय दिव्यारुपाय गुहाणां पतये नम: ॥ नमस्ते शुचये नित्यं नम: कुरुकुलात्मने ॥४६॥

नमस्त्रैलोक्यनाथाय भुतानां पतये नम: । नम: कैवल्यनाथाय नमस्ते दिव्यचक्षुषे ॥४७॥

त्वं ज्योतिस्त्वं द्युतिर्ब्रह्मा त्वं विष्णुस्त्वं प्रजापति: । त्वमेव रुद्रो रुद्रात्मा वायुरग्निस्त्वमेव च ॥४८॥

योजनानां सहस्त्रे द्वे शते द्वे द्वे च योजने । एकेन निमिषार्धेन क्रममाण नमोस्तु ते ॥४९॥

नवयोजनलक्षाणि सहस्त्रद्विशतानिच च । यावद्धटीप्रमाणेन क्रममाण नमोस्तु ते ॥५०॥

अग्रतश्‍च नमस्तुभ्यं पृष्ठतश्‍च सदा नम: । पाश्‍वतश्‍च नमस्तुभ्यं नमस्ते चास्तु सर्वदा ॥५१॥

नम: सुरारिहंत्रे च सोमसुर्यग्निचक्षुषे । नमो दिव्याय व्योमाय सर्व तंत्रमयाय च ॥५२॥

नमो वेदांतवेद्याय सर्वकर्मादिसाक्षिये । नमो हरितवर्णाय सुवर्णाय नमो नम: ॥५३॥

अरुणो माघमासे तु सुर्यो वै फाल्गुने तथा । चैत्रमासे तु वेदांगो भानुर्वैंशाखतापन: ॥५४॥

ज्येष्ठमासे तपेदिन्द्र आषाढे तपते रवि: । गभस्ति: श्रावणे मासि यमो भाद्रपदे तथा ॥५५॥

इषे सुवर्णरेताश्‍च कार्तिके च दिवाकर: । मार्गशीर्षे तपेन्मित्र: पौषे विष्णु: सनातन: ॥५६॥

पुरुषस्त्वधिके मासि मासाधिक्ये तु कल्पयेत् । इत्येते द्वादशादित्या: काश्यपेया: प्रकीर्तिता: ॥५७॥

उग्ररुपा महात्मानस्तपंते विश्‍वरुपिण: । धर्मार्थकाममोक्षाणां प्रस्फुटा हेतवो नृप ॥५८॥

सर्वपापहरं चैवमादित्यं संप्रपुजयेत् । एकधा दशधा चैव शतधा च सहस्त्रधा ॥५९॥

तपंते विश्‍वरुपेण सृजंति संहरंति च । एष विष्णु: शिवश्‍चैव ब्रह्मा चैव प्रजापति: ॥६०॥

महेन्द्रश्‍चैव कालश्‍च यमो वरुण एव च । नक्षत्रग्रहताराणामधिपो विश्‍वतापन: ॥६१॥

वायुरग्निर्धनाध्यक्षो भुतकर्ता स्वयं प्रभु: । एष देवो हि देवानां सर्वमाप्यायते जगत् ॥६२॥

एष कर्ता हि भुतानां संहर्ता रक्षकस्तथा । एष लोकानुलोकाश्‍च सप्तद्वीपाश्‍च सागरा: ॥६३॥

एष पातालसत्पस्था दैत्यदानवराक्षसा: । एष धाता विधाता च बीजं क्षेत्रं प्रजापति: ॥६४॥

एष एव प्रजा नित्यं संवर्धयति रश्मिभि: । एष यज्ञ: स्वधा स्वाहा ह्री: श्रीश्‍च पुरुषोत्तम: ॥६५॥

एष भुतात्मको देव: सुक्ष्मोऽव्यक्त: सनातन: । ईश्‍वर: सर्वभुतानां परमेष्ठी प्रजापति: ॥६६॥

कालात्मा सर्वभुतात्मा वेदात्मा विश्‍वतोमुख: । जन्ममृत्युजराव्याधिसंसारभयनाशन : ॥६७॥

दारिद्रयव्यसनध्वंसी श्रीमान्देवो दिवाकर: । कीर्तनीयो विवस्वांश्‍च मार्तंडो भास्करो रवि: ॥६८॥

लोकप्रकाशक: श्रीमाँल्लोकचक्षुर्ग्रहेश्‍वर: । लोकसाक्षी त्रिलोकेश: कर्ता हर्ता तमिस्त्रहा ॥६९॥

तपनस्तापनश्‍चैव शुचि: सत्पाश्‍ववाहन: । गभस्तिहस्तो ब्रह्मण्य: सर्वदेवनमस्कृत: ॥७०॥

आयुरारोग्यमैश्‍वर्य नरा नार्यश्‍च मंदिरे । यस्य प्रसादात्संतुष्टिरादित्यहृदयं जपेत् ॥७१॥

इत्येतैर्नामभि: पार्थ आदित्यं स्तौति नित्यश: । प्रातरुत्थाय कौंतेय तस्य रोगभयं नहि ॥७२॥

पातकान्मुच्यते पार्थ व्याधिभ्यश्‍च न संशय: । एकसंध्यं द्विसंध्यं वा सर्वपापै: प्रमुच्यते ॥७३॥

त्रिसंध्यं जपमानस्तु पश्‍येच्च परमं पदम् । यदह्नात्कुरुते पापं तदह्नात्प्रतिमुच्यते ॥७४॥

यद्रात्र्यात्कुरुते पापं तद्रात्र्यात्प्रतिमुच्यते । दद्रुस्फोटककुष्ठानि मण्डलानि विषूचिका ॥७५॥

सर्वव्याधिमहारोगभूतबाधास्तथैव च । डाकिनी शाकिनी चैव महारोगभयं कुत: ॥७६॥

ये चान्ये दुष्टरोगाश्‍च ज्वरातीसारकादय: । जपमानस्य नश्यन्ति जीवेच्च शरदां शतम् ॥७७॥

संवत्सरेण मरणं यदा तस्य ध्रुवं भवेत् । आशीर्षां पश्‍यति च्छायामहोरात्रं धनंजय ॥७८॥

यस्त्विदं पठते भक्त्या भानोर्वारे महात्मन: । प्रात: स्नाने कृते पार्थ एकाग्रकृतमानस: ॥७९॥

सुवर्णचक्षुर्भवति न चांधस्तु प्रजायते । पुत्रवान् धनसंपन्नो जायते चारुज: सुखी ॥८०॥

सर्वसिद्धिमवाप्नोति सर्वत्र विजयी भवेत् । आदित्यहृदयं पुण्यं सुर्यनामविभुषितम् ॥८१॥

श्रुत्वा च निखिलं पार्थ सर्वपापै: प्रमुच्यते । अत: परतरं नास्ति सिद्धिकामस्य पांडव ॥८२॥

एतज्जपस्व कौंतेय येन श्रेयो ह्यावाप्स्यसि। आदित्यहृदयं नित्यं य: पठेत्सुसमाहित: ॥८३॥

भ्रुणहा मुच्यते पापत्कृतघ्नो ब्रह्माघातक: । गोघ्न: सुरापो दुर्भोजी दुष्प्रतिग्रहकारक: ॥८४॥

पातकानि च सर्वाणि दहत्येव न संशय: । य इदं श्रृणुयान्नित्यं जपेद्वाऽपि समाहित: ॥८५॥

सर्वपापविशुद्धात्मा सुर्यलोके महियते । अपुत्रो लभते पुत्रान्निर्धनो धनमाप्नुयात् ॥८६॥

करोगी मुच्यते रोगाद्भाक्त्या य: पठते सदा । यस्त्वादित्यदिने पार्थ नाभिमात्रजले स्थित: ॥८७॥

उदयाचलमारुढं भास्करं प्रणत: स्थित: । जपते मानवो भक्त्या श्रृणुयाद्वापि भक्तित: ॥८८॥

स याति परमं स्थानं यत्र देवो दिवाकर: । अमित्रदमनं पार्थ यदा कर्तु समारभेत् ॥८९॥

तदा प्रतिकृतिं कृत्वा शत्रोश्‍चरणपांसुभि: । आक्रम्य वामपादेन ह्यादित्यहृदयं जपेत् ॥९०॥

एतन्मंत्रं समाहूया सर्वसिद्धिकरं परम् । ॐ ह्रीं हिमालीढं स्वाहा । ॐ ह्रीं निलींढं स्वाहा । ॐ ह्रीं मालीढं स्वाहा ।

इति मंत्र: ।

त्रिभिश्‍च रोगी भवति ज्वरी भवति पत्र्चभि: ॥ जपैस्तु सप्तभि: पार्थ राक्षसीं तनुमाविशेत् ॥९१॥

राक्षससेनाभिभुतस्य विकारान् श्रृणु पांडव । गीयते नृत्यते नग्न आस्फोटयति धावति ॥९२॥

शिवारुतं च कुरुते हसते क्रन्दते पुन: । एवं संपीड्यते पार्थ यद्यपि स्यान्महेश्‍वर: ॥९३॥

किं पुनर्मानुष: कश्‍चिच्छौचाचारविवर्जित: । पीडितस्य न सन्देहो ज्वरो भवति दारुण: ॥९४॥

यदा चानुग्रहं तस्य कर्तुमिच्छेच्छुभंकरम् । तदा सलिलमादाय जपेन्मंत्रमिमं बुध: ॥९५॥

नमो भगवते तुभ्यमादित्याय नमो नम: । जयाय जयभद्राय हरिदश्‍वाय ते नम: ॥९६॥

स्नापयेत्तेन मन्त्रेण शुभं भवति नान्यथा । अन्यथा च भवेद्दोषो नश्‍यते नात्र संशय: ॥९७॥

अतस्ते निखिल: प्रोक्त: पुजां चैव निबोध मे । उपलिप्ते शुचौ देशे निजतो वाग्यत: शुचि: ॥९८॥

वृत्तं वा चतुरस्त्रं वा लिप्तभुमौ लिखेच्छुचि । त्रिधा तत्र लिखेप्तद्ममष्टपत्रं सकर्णिकम् ॥९९॥

अष्टपत्रं लिखेप्तद्मं लिप्तगोमयमण्डले । पूर्वपत्रे लिखेत् सुर्यमाग्नेय्यां तु रविं न्यसेत् ॥१००॥

याम्यायां च विवस्वन्तं नैऋत्यां तु भगं न्यसेत् ॥ प्रतीच्यां वरुणं विद्याव्दायव्यां मित्रमेव च ॥१॥

आदित्यमुत्तरे पत्रे ईशान्यां मित्रमेव च । मध्ये तु भास्करं विद्यात्क्रमेणैवं समर्चयेत् ॥२॥

अत: परतरं नास्ति सिद्धिकमस्य पांडव । महातेज समुद्यंतं प्रणमेत्स कृतांजलि: ॥३॥

सकेसराणि पद्मानि करवीराणि चार्जुन । तिलतण्डुलयुक्तानि कुशगन्धोदकानि च ॥४॥

रक्तचन्दमिश्राणि कृत्वा वै ताम्रभाजने । धृत्वा शिरसि तप्तात्रं जानुभ्यां धरणीं स्पृशेत् ॥५॥

मन्त्रपुतं गुडाकेश चार्घ्यं दद्याद् गभस्तये । सायुधं सरथं चैव सुर्यमावाहयाम्यगम्‍ ॥६॥

स्वागतो भव । सुप्रतिष्ठितो भव । संनिधौ भव । सांनिहितो भव । संमुखो भव । इतिपत्र्चमुद्रा: ।

स्फुटयित्वाऽर्हयेत्सुर्यं भुक्ति मुक्तिं लभेन्नर: ॥७॥

ॐ श्री विद्याकिलिकिलिकटकेष्टसर्वार्थसाधनाय स्वाहा । ॐ श्रीं ह्रीं ह्रूं हं स: सूर्याय नम: स्वाहा ।

ॐ श्रीं ह्रा ह्रीं ह्रं ह्र: सुर्यमुर्तये स्वाहा । ॐ श्रीं ह्रीं खं ख: लोकाय सर्वमुर्तये स्वाहा । ॐ ह्रू मार्तंडाय स्वाहा ।

नमोस्तु सुर्याय सहस्त्रभानवे नमोस्तु वैश्‍वानरजातवेदसे ।

त्वमेव चार्घ्य प्रतिगृह्ल देव देवाधिदेवाय नमो नमस्ते ॥८॥

नमो भगवते तुभ्यं नमस्ते जातवेदसे । दत्तमर्घ्य मया मानो त्वं गृहाण नमोऽस्तु ते ॥९॥

एहि सूर्य सहस्त्रांशो तेजोराशे जगप्तते । अनुकंपय मां देव गृहाणार्घ्यं नमोऽस्तु ते ॥११०॥

नमो भगवते तुभ्यं नमस्ते जातवेदसे । ममेदमर्घ्य गृह्ल त्वं देवेदेव नमोऽस्तु ते ॥११॥

सर्वसेवाधिदेवाय आधिव्याधिविनाशिने । इदं गृहाण मे देव सर्वव्याधिर्विनश्यतु ॥१२॥

नम: सूर्याय शांताय सर्वरोगविनाशिने । ममेप्सितं फलं दत्त्वा प्रसीद परमेश्‍वर ॥१३॥

ॐ नमो भगवते सूर्याय स्वाहा । ॐ शिवाय स्वाहा । ॐ सर्वात्मने सुर्याय नम: स्वाहा ।

ॐ अक्षय्यतेजसे नम: स्वाहा । सर्वसंकटदारिद्र्यं शत्रुं नाशय नाशय ।

सर्वलोकेषु विश्‍वात्मन्सर्वात्मन्सर्वदर्शक ॥१४॥

नमो भगवते सुर्य कुष्ठरोगान्विखण्डय । आयुरारोग्यमैश्‍वर्यं देहि देव नमोऽस्तु ते ॥१५॥

नमो भगवते तुभ्यमादित्याय नमो नम: । ॐ अक्षय्यतेजसे नम: । ॐ सुर्याय नम: ।

ॐ विश्‍वमुर्तये नम: । आदित्यं च शिवं विद्याच्छिवमादित्यरुपिणम् ।

उभयोरंतरं नास्ति आदित्यस्य शिवस्यच ॥१६॥

एतदिच्छाम्यहं श्रोतुं पुरुषो वै दिवाकर: । उदये ब्रह्माणो रुपं मध्याह्ने तु महेश्‍वर: ॥१७॥

अस्तमाने स्वयं विष्णुस्त्रिमूर्तिश्‍च दिवाकर: । नमो भगवते तुभ्य विष्णवे प्रभविष्णवे ॥१८॥

ममेदमर्घ्य प्रतिगृह् ण देव देवाधिदेवाय नमो नमस्ते ।

श्रीसुर्यनारायणाय सांगाय सपरिवाराय इदमर्घ्य समर्पयामि ॥१९॥

हिमघ्नाय तमोघ्नाय रक्षोघ्नाय च ते नम: । कृतघ्नाय सत्याय तस्मै सुर्यात्मने नम: ॥१२०॥

जयोऽजयश्‍च विजयो जितप्राणो जितश्रम: । मनोजवो जितक्रोधो वाजिन: सप्त कीर्तिता: ॥२१॥

हरितहयरथं दिवाकरं कनकमयांबुजरेणुपिंजरम् । प्रितिदिनमुदये नवं शरणमुपैमि हिरण्यरेतसम् ॥२२॥

न तं व्याला: प्रबाधंते न व्याधिभ्यो भयं भवेत् । न नागेभ्यो भयं चैव न च भुतभयं क्वचित् ॥२३॥

अग्निशत्रुभयं नास्ति पार्थिवेभ्यस्तथैव च । दुर्गतिं तरते घोरां प्रजां च लभते पशुन् ॥२४॥

सिद्धिकामो लभित्सिद्धिं कन्याकामस्तु कन्यकाम् । एतप्तठेत्स कौंतेय भक्तियुक्तेने चेतसा ॥२५॥

अश्‍वमेधसहस्त्रस्य वाजपेयशतस्य च । कन्याकोटिसहस्त्रस्य दत्तस्य फलमाप्नुयात् ॥२६॥

इदमादित्यहृदयं योऽधीते सततं नर: । सर्वपापविशुद्धात्मा सुर्यलोके महीयते ॥२७॥

नास्त्यादित्यसमो देवो नास्त्यादित्यसमा गति: । प्रत्यक्षो भगवा न्विष्णुर्येन विश्‍वं प्रतिष्ठितम् ॥२८॥

नवतिर्योजनं लक्षं सहस्त्राणि शतानि च । यावद्‍घटीप्रमाणेन तावच्चरति भास्कर: ॥२९॥

गर्वा शतसहस्त्रस्य सम्यग्दत्तस्य यत्फलम् । तत्फलं लभते विद्वात्र्शांतात्मा स्तौति यो रविम् ॥१३०॥

योऽधीते सुर्यहृदयं सकलं सफलं भवेत् अष्टानां ब्राह्माणानां च लेखियित्वा समर्पयेत् ॥३१॥

ब्रह्मालोके ऋषीणां च जायते मानुषोऽपि वा । जातिस्मरत्वमाप्नोति शुद्धात्मा नात्र संशय: ॥३२॥

अजाय लोकत्रयपावनाय भुतात्मने गोपतये वृषाय । सुर्याय सर्वप्रलयांतकाय नमो महाकारुणिकोत्तमाय ॥३३॥

विवस्वते ज्ञानभृदंतरात्मने जगत्प्रदीपाय जगद्धितैषिणे । स्वयंभुवे दीप्तसहस्त्रचक्षुषे सुरोत्तमायामिततेजसे नम: ॥३४॥

सुरैरनेकै: परिषेविताय हिरण्यगर्भाय हिरण्मयाय । महात्मने मोक्षपदाय नित्यं नमोऽस्तु ते वासरकारणाय ॥३५॥

आदित्यश्‍चार्चितो देव आदित्य: परमं पदम् । आदित्य मातृको भुत्वा आदित्यो वाड;मयं जगत् ॥३६॥

आदित्यं पश्‍यते भक्त्या मां पश्यति ध्रुवं नर: । नादित्यं पश्‍यते भक्त्या न स पश्‍यति मां नर: ॥३७॥

त्रिगुणं च त्रितत्त्वं च त्रयो देवास्त्रयोऽग्नय: । त्रयाणां च त्रिमुर्तिस्त्वं तुरीयस्त्वं नमोऽस्तु ते ॥३८॥

नम: सवित्रे जगदेकचक्षुषे जगत्प्रसुतिस्थितिनाशहेतवे । त्रयीमयाय त्रिगुणात्मधारिणे विरिंचिनारायणशंकारात्मने ॥३९॥

यस्योदयेनेह जगत्प्रबुद्धयते प्रवर्तते चाखिलकर्मसिद्धये । ब्रह्मोन्द्रनारायणरुद्रवंदित: स न: सदा यच्छतु मङ्गलं रवि: ॥१४०॥

नमोऽस्तु सुर्याय सहस्त्ररश्मये सहस्त्रशाखान्वितसंभावात्मने । सहस्त्रयोगोंद्भवभावभागिने सहस्त्र संख्यायुगधारिणे नम: ॥४१॥

यन्मंडलं दीप्तिकरं विशालं रत्‍नप्रभं तीव्रमनादिरुपम् । दारिद्र्य दु:खक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम्‍ ।

दारिद्र्य दु:खक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम्‍ ॥४२॥

यन्मंडल देवगुणै: सुपुजितं विप्रै: स्तुतं भावनमुक्ति कोविदम् । तं देवदेव प्रणमामि सुर्यं पुनातु० ॥४३॥

यन्मण्डलं ज्ञानघनं त्वगम्यं त्रैलोक्यपुज्यं त्रिगुणात्मरुपम् । समस्ततेजोमयदिव्यरुपं पुनातु मां तत्सवितु० ॥४४॥

यन्मण्डलं गुढमतिप्रबोधं धर्मस्य वृद्धिं करुतें जनानाम् । यत्सर्वपापक्षयकारणं च पुनातु मां त० ॥४५॥

मन्मण्डलं व्याधिविनाशदक्षं यदृग्यजु:सामसु संप्रगीतम् । प्रकाशितं येन न भूर्भुव:स्व पुनातु मां त० ॥४६॥

यन्मंडलं वेद-विदो वदंति गायंति यच्चारणसिद्धसंघा: । यद्योगिनो योगजुषां च संघा: पुनातु मां त० ॥४७॥

यन्मंडलं सर्वजनेषु पुजितं ज्योतिश्‍च कुर्यादिह मर्त्यलोके । यत्कालकालादिमनादिरुपं पुनातु मां त० ॥४८॥

यन्मण्डलं विष्णुचतुर्मुखाख्यं यदक्षरं पापहरं जनानाम् । यत्कालकल्पक्षयकारणं च पुनातु मां त० ॥४९॥

यन्मण्डलं विश्‍वसृजां प्रसिद्धमुत्पत्तिरक्षाप्रलयप्रगल्भम् । यस्मित्र्जगत्संहरतेऽखिलं च पुनात मां त० ॥१५०॥

यन्मण्डलं सर्वगतस्य विष्णोरात्मा परंधाम विशुद्धतत्त्वम् । सुक्ष्मांतरैर्योगपथानुगम्यं पुनातु मां तत्स० ॥५१॥

यन्मंडलं ब्रह्मविदो वदंति गायंति यच्चारणसिद्धसंघा: । यन्मण्डलं वेदविद: स्मरंति पुनातु मां त० ॥५२॥

यन्मण्डलं वेदविदोपगीतं यद्योगिनां योगपथानुगम्यम् । तत्सर्ववेदं प्रणमामि सुर्य पुनातु मां त०॥५३॥

मण्डलाष्टकमिदं पुण्यं य: पठेत्सततं नर: । सर्वपापविशुद्धात्मा सुर्यलोके महीयेते ॥५४॥

ध्येय: सदा सवितृमण्डलमध्यवर्ती नारायण: सरसिजासनसंनिविष्ट: ।

केयुरवान्मकरकुंडलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्र्वचक्र: ॥५५॥

सशंखचक्रं रविमण्डले स्थितं कुशेशयाक्रांतमनंतमच्युतम् । भजामि बुद्धया तपनीयमूर्तिं चित्रविभूषणोज्ज्वलम्‍ ॥५६॥

एवं ब्रह्मादयो देवा ऋषयश्‍च तपोधना: । कीर्तयंति सुरश्रेष्ठं देवं नारायणं विभुम् ॥५७॥

वेदवेदांगशारीरं दिव्यदीप्तिकरं परम् । रक्षोघ्नं रक्तवर्णं च सृष्टिसंहारकारकम् ॥५८॥

एकचक्रो रथो यस्य दिव्य: कनकभुषित: । स मे भवतु सुप्रीत: पद्महस्तो दिवाकर: । ॥५९॥

आदित्य: प्रथमं नाम द्वितीयं तु दिवाकर: । तृतीयं भास्कर: प्रोक्तं चतुर्थं तु प्रभाकर: ॥१६०॥

पत्र्चमंतु सहस्त्रांशु: षष्ठं चैव त्रिलोचन: । सप्तमं हरिदश्‍वश्‍च अष्टमं तु विभावसु: ॥६१॥

नवमं दिनकृत्प्रोक्तं दशमं द्वादशात्मकम् । एकादशं त्रयीमूर्तिर्द्वादशं सुर्य एव च ॥६२॥

द्वादशादित्यनामानि प्रात:काले पठेन्नर: । दु:स्वप्ननाशनं चैव सर्वद:खं च नश्‍यति ॥६३॥

दद्रुकुष्ठहरं चैव दारिद्रयं हरते ध्रुवम्र । सर्वतीर्थप्रदं चैव सर्वकामप्रवर्धनम् ॥६४॥

य: पठेत्प्रातरुत्थाय भक्त्या नित्यमिदं नर: । सौख्य मायुस्तथाऽऽरोग्यं लभते मोक्षमेव च ॥६५॥

अग्निमीडे नमस्तुभ्यमिषेत्वोर्जेस्वरुपिणे । अग्न आयाहि वीतस्त्वं नमस्ते ज्योतिषां पते ॥६६॥

शन्नो देवो नमस्तुभ्यं जगच्चक्षुर्नमोऽस्तु ते । पत्र्चमायोप वेदाय नमस्तुभ्यं नमो नम: ॥६७॥

पद्मासन: पद्मकर: पद्मगर्भसमद्युति: । सप्ताश्‍वरथसंयुक्तो द्विभुज: स्यात्सदा रवि: ॥६८॥

आदित्यस्य नमस्कारं ये कुर्वंति दिने दिने । जन्मांतरसहस्त्रेषु दारिद्रयं नोपजायते ॥६९॥

उदयगिरिमुपेंतं भास्करं पद्महस्तं निखिलभुवननेत्रं रत्‍नरत्‍नोपमेयम् ।

तिमिरकरिमृगेन्द्रं बोधकं पद्मिनीनां सुरवरमभिवन्दे सुन्दरं विश्‍ववंद्यम् ॥१७०॥

इति श्रीभविष्योत्तरपुराणे श्रीकृष्णार्जुनसम्वादे आदित्यहृदयास्तोत्रं सम्पुर्णम् ।

N/A

N/A
Last Updated : September 19, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP