मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|
॥ ऐल उवाच ॥ बाह्मपूजां व...

गणेशबाह्यपुजा - ॥ ऐल उवाच ॥ बाह्मपूजां व...

गणेशबाह्यपुजा
It is another type of Ganesha Stotra

॥ ऐल उवाच ॥
बाह्मपूजां वद विभो गृत्समदप्रकिर्तिताम् । तेन मार्गेण विघ्नेशं भजिष्यामि निरंतरम् ॥ १ ॥
गार्ग्य उवाच । आदौ च मानसीं पूजां कृत्वा गत्समदो मुनि: । बाह्यां चकार विधिवत्तां श्रृणुष्व सुखप्रदाम् ॥ २ ॥
ह्रदि ध्यात्वा गणेशानं परिवारादिसंयुतम् । नासिकारंध्रमार्गेण तं बाह्यांगं चकार ह ॥ ३ ॥
आदौ वैदिकमंत्रं स गणानांत्वेति संपठन् । पश्चाच्छलोकं समुच्चार्य पूजयामास विघ्नपम् ॥ ४ ॥
गृत्समद उवाच ॥ चतुर्बाहुं त्रिनेत्रं च गजास्यं रक्तवर्णकम् । पाशांकुशादिसंयुक्तं मायायुक्तं प्रचिंतयेत् ॥ ५ ॥
आगच्छ ब्रह्मणां नाथ सुरासुरवरर्चित । सिद्धिबुद्धयादिसंयुक्तभक्तिग्रहणलालस: ॥ ६ ॥
कृतार्थोऽहं कृतार्थोऽहं तवागमनत: प्रभो । विघ्नेशानुगृहीतोऽहं सफलो मे भवोऽभवत् ॥ ७ ॥
रत्नसिंहासनं स्वामिन्  गृहाण गणनायक । तत्रोपविश्य विघ्नेश रक्ष भक्तान्विशेषत: ॥ ८ ॥
सुवासिताभिरद्भिश्च पादप्रक्षालनं प्रभो । शीतोष्णाम्भ: करोमि ते गृहाण पाद्यमुत्तमम् ॥ ९ ॥
सर्वतीर्थह्रतं तोयं सुवासितसुवस्तुभि: । आचमनं च तेनैव कुरुष्व गणनायक ॥ १० ॥
रत्नप्रवालमुक्ताद्यैरनर्ध्यै: संस्कृतं प्रभो । अर्घ्य गृहाण हेरंब द्विरदानन तोषकम् ॥ ११ ॥
दधिमध्वाज्यसंयुक्तं मधुपर्क गजानन । गृहाण भावसंयुक्तं मया दत्तं नमोऽस्तुते ॥ १२ ॥
पाद्ये च मधुपर्के च स्नाने वस्त्रोपधारणे । उपवीते भोजनांते पुनराचमनं कुरु ॥ १३ ॥
चंपकाद्यैर्गणाध्यक्ष वासितं तैलमुत्तमम् । अभ्यंगं कुरु सर्वेश लम्बोदर नमोऽस्तु ते ॥ १४ ॥
यक्षकर्दमकाद्यैश्च विघ्नेश भक्तवत्सल । उद्वर्तनं कुरुष्व त्वं मया दत्तैर्महाप्रभो ॥ १५ ॥
नानातीर्थजलैर्ढुंढे सुखोष्णभावरूपकै: । कमंडलूद्भवै: स्नानं मया कुरु समर्पितै: ॥ १६ ॥
कामधेनुसमुद्‍भूतं पय: परमपावनम् । तेन स्नानं कुरुष्व त्वं हेरंब परमार्थवित् ॥ १७ ॥
पत्र्चामृतानां मध्ये तु जलै: स्त्रानं पुन: पुन: । कुरु त्वं सर्वतीर्थेभ्यो गङ्गादिभ्य: समाह्रतै: ॥ १८ ॥
दधि धेनुपयोद्‍भूतं मलापहरणं परम् । गृहाण स्नानकार्यार्थ विनायक दयानिधे ॥ १९ ॥
धेनो: समुद्भवं ढुंढे घृतं सन्तोषकारकम् । महामलापघातार्थ तेन स्नानं कुरु प्रभो ॥ २० ॥
सारघं संस्कृतं पूर्ण मधु मधुरसोद्भवम् । गृहाण स्नानकार्यार्थ विनायक नमोऽस्तु ते ॥ २१ ॥
इक्षुदण्डसमद्‍भूतां शर्करांमलनाशिनीम् । गृहाण गणनाथ त्वं तया स्नानं समाचार ॥ २२ ॥
यक्षकर्दमकाद्यैश्च स्नानं कुरु गणेश्वर । आंत्यं मलहरं शुद्धं सर्वसौगन्ध्यकारकम् ॥ २३ ॥
ततो गन्धाक्षतादींश्च दूर्वाकुरान् गजानन । समर्पयामि स्वल्पांस्त्वं गृहाण परमेश्वर ॥ २४ ॥
ब्राह्मणस्पत्यसूक्तैश्च ह्येकविंशतिवारकै: । अभिषेकं ते करोमि गृहाण द्विरदानन ॥ २५ ॥
तत आचमनं देव सुवासितजलेन च । कुरुष्व गणनाथ त्वं सर्वतीर्थभवेन वै ॥ २६ ॥
वस्त्रयुग्मं गृहाण त्वमनर्घ्य रक्तवर्णकम् । लोकलज्जाहरं चैव विघ्नानाथ नमोऽस्तु ते ॥ २७ ॥
उत्तरीयं सुचित्रं वै नमस्तारांकितं तथा । गृहाण सर्वसिद्धीश मया दत्तं सुभक्तित: ॥ २८ ॥
उपवीतं गणाध्यक्ष गृहाण च तत: परम् । त्रैगुण्यमयरूपं तु प्रणवग्रंथिबन्धनम् ॥ २९ ॥
तत: सिंदूरकं देव गृहाण गणनायक । अंगलेपनभावार्थं सदानंदविवर्धनम् ॥ ३० ॥
नानाभूषकानि त्वमंगेषु विविधेषु च । भासुरस्वर्णरत्नैश्च निर्मितानि गृहाण भो: ॥ ३१ ॥
अष्टगंधसमायुक्तं गंधं रक्तं गजाननद्वादशांगेषु ते ढुंढे लेपयामि सुचित्रवत् ॥ ३२ ॥
रक्तचंदनसंयुक्तानथवा कुंकुमैर्युतान् । अक्षतान्  विघ्नराज  त्वं गृहाण भालमंडले ॥ ३३ ॥
चंपकादिसुवृक्षेभ्य: संभूतानि गजानन । पुष्पाणि शमिमंदारदूर्वादीनि गृहाण च ॥ ३४ ॥
दशांगं गुग्गुलं धूपं सर्वसौरभकारम् । गृहाण त्वं मया दत्तं विनायक महोदर ॥ ३५ ॥
नानाजातिभवं दीपं गृहाण गणनायक । अज्ञानमलजं दोषं हरंतं ज्योतिरूपकम् ॥ ३६ ॥
चतुर्विधान्नसंपन्नं मधुरं लड्डुकादिकम् । नैवेद्यं ते मया दत्तं भोजनं कुरु विघ्नप ॥ ३७ ॥
सुवासितं गृहाणेदं जलं तीर्थसमाह्रतम् । भुक्तिमध्ये च पानार्थ देवदेवेश ते नम: ॥ ३८ ॥
भोजनांते करोद्वर्तं यक्षकर्दमकेन च । कुरुष्व त्वं गणाध्यक्ष पिब तोयं सुवासितम् ॥ ३९ ॥
दाडिमं खर्जुरं द्राक्षा रंगादीनिफ लानि वै । गृहाण देवदेवेश नाना मधुरकाणि तु ॥ ४० ॥
अष्टाङ्गदेव ताम्बूलं गृहाण मुखवासनम् । असकृद्विघ्नराज त्वं मया दत्तं विशेषत: ॥ ४१ ॥
दक्षिणां कांचनाद्यां तु नानाधातुसमुद्भवाम् । रत्नाद्यै: संयुतां ढुंढे गृहाण सकलप्रिय ॥ ४२ ॥
राजोपचारकाद्यानि गृहाण गणनायक । दानानि तु विचित्राणि मया दत्तानि विघ्नप ॥ ४३ ॥
तत आभरणं तेऽद्य पूजयामि विधानत: । उपचारैविविधैश्च तेन तुष्टो भव प्रभो ॥ ४४ ॥
ततो दूर्वांकुरान्  ढुंढे एकविंशतिसंख्यकान् । गृहाण न्यूनसिद्धयर्थ भक्तवात्सल्यकारणात् ॥ ४५ ॥
नानादीपसमायुक्तं नीराजनं गजानन । गृहाण भावसंयुक्तं सर्वाज्ञानविनाशक ॥ ४६ ॥
गणानांत्वेति मंत्रस्य जपं साहस्त्रकं परम् । गृहाण गणनाथ त्वं सर्वसिद्धिप्रदो भव ॥४७ ॥
आर्तिक्यं च सुकर्पूरं नानादीपमयं प्रभो । गृहाण ज्योतोषां नाथ तथा नीराजयाम्यहम् ॥ ४८ ॥
पादयोस्ते तु चत्वारि नाभौ द्वे वदने प्रभो । एकं तु सप्तवारं वै सर्वांगेषु निरंजनम् ॥ ४९ ॥
चतुर्वेदभवैर्मत्रैर्गाणपत्यैर्गजानन । मंत्रितानि गृहाण त्वं पुष्पपत्राणि विघ्नप ॥ ५० ॥
पंचप्रकारकै: स्तोत्रैर्गाणपत्यैर्गणाधिप । स्तौमि त्वां तेन संतुष्टो भव भक्तिप्रदायक ॥ ५१ ॥
एकविंशतिसंख्यं वा त्रिसंख्यं वा गजानन । प्रादक्षिण्यं गृहाण त्वं ब्रह्मन् ब्रह्मेशभावन ॥ ५२ ॥
साष्टाङ्गं प्रणतिं नाथ एकविशतिसंमिताम् । हेरंब सर्वपूज्य त्वं गृहाण तु मया कृताम् ॥ ५३ ॥
न्यूनातिरिक्तभावार्थ कित्र्चिद्‍दूर्वांकुरान्प्रभो । समर्पयामि तेन त्वं सांगा पूजां कुरुष्व ताम् ॥ ५४ ॥
त्वया दत्तं स्वहस्तेन निर्माल्यं चिन्तयाम्यहम् । शिखायां धारयाम्येव सदा सर्वप्रदं च तत् ॥ ५५ ॥
अपराधानसंख्यातान्  क्षमस्व गणनायक । भक्तं कुरु च मां ढुंढे तव पादप्रियं सदा ॥ ५६ ॥
त्वं माता त्वं पिता मे वै सुह्रत्संबंधिकादय: । त्वमेव कुलदेवश्च सर्वं त्वं मे न संशय: ॥ ५७ ॥
जाग्रत्स्वप्नसुषुप्तिभिर्देहवाङमानसै: कृतम् । सांसर्गिकेण यत्कर्म गणेशाय समर्पये ॥ ५८ ॥
बाह्यंनानाविधं पापं महोग्रं तल्लयं व्रजेत् । गणेशपादतीर्थस्य मस्तके धारणात्किल  ॥ ५९॥
पादोदकं गणेशस्य पीतं नरेण तत्क्षणात् । सर्वांतर्गतजं पापं नश्यति गणनातिगम् ॥ ६० ॥
गणेशोच्छिष्टगंधं वै द्वादशांगेषु चार्चयेत् । गणेशतुल्यरूप: स दर्शनात्सर्वपापहा ॥ ६१ ॥
यदि गणेशपूजादौ गंधभस्मादिकं चरेत् । अथवोच्छिष्टगंधं तु नो चेत्तत्र विधिं चरेत् ॥ ६२ ॥
द्वादशांगेषु विघ्नेशं नाममंत्रेण चार्चयेत् । तेन सोऽपि गणेशेन समो भवति भूतले ॥ ६३ ॥
मूर्ध्नि गणेश्वरं चादौ ललाटे विघ्ननायकम् । दक्षिणे कर्णमूले तु वक्रतुंडं समर्चयेत् ॥ ६४ ॥
कंठे लंबोदरं देवं ह्रदि चिंतामणिं तथा ॥ ६५ ॥
बाहौ दक्षिणके चैव हेरंब बामबाहुके । विकटं नाभिदेशे तु विनायकं समर्चयेत् ॥ ६६ ॥
कुक्षौ दक्षिणगायां तु मयूरेशं समर्चयेत् । वामकुक्षौ गजास्यं वै पृष्ठे स्वानंदवासिनम् ॥ ६७ ॥
सर्वाङ्गलेपनं शस्तं चित्रितं त्वष्टगंधकै: । गाणेशानां विशेषण सर्वभद्रस्य कारणात् ॥ ६८ ॥
तदोच्छिष्टं तु नैवेद्यं गणेशस्य भुनज्म्यहम् । भुक्तिमुक्तिप्रदं पूर्णं नानापापनिकृन्तनम् ॥ ६९ ॥
गणेशस्मरणेनैव करोमि कालखंडनम् । गाणपत्यैश्च संवासो मे सदाऽस्तु गजानन ॥ ७० ॥
गार्ग्य उवाच । एवं गृत्समदश्चैव चकार बाह्यपूजनम् । त्रिकालेषु महायोगी सदाभक्तिसमन्वित: ॥ ७१ ॥
तथा कुरु महीपाल गाणपत्यो भविष्यसि । यथा गृत्समद: साक्षात्तथा त्वमपि निश्चितम् ॥ ७२ ॥
 । इति श्रीमदांत्ये मौद्‍गल्ये बाह्यपूजा समाप्ता ।

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP