पुण्यश्लोकोंका स्मरण

प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे.


पुण्यश्लोको नलो राजा पुण्यश्लोको जनार्दन: ।
पुण्यश्लोका च वैदेही पुण्यश्लोको युधिष्ठिर: ॥
अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषण:॥
कृप: परशुरामश्च सप्तैते चिरजीविन: ॥
(पद्मपु० ५१।६-७)
सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम् ।
जीवेद् वर्षशतं साग्रमपमृत्युविवर्जित: ॥  
(आचारेन्दु, पृ० २२)
कर्कोटकस्य नागस्य दमयन्त्या नलस्य च ।
ऋतुपर्णस्य राजर्षे: कीर्तनं कलिनाशनम् ॥  
(मार्क० स्मृ०, पृ० ३२)
प्रह्रादनारदपराशरपुण्डरीकव्यासाम्बरीषशुकशौनकभीष्मदाल्भ्यान् ।
रुक्माड्गदार्जुनवसिष्ठबिभीषणादीन् पुण्यानिमान् परमभागवतान् नमामि ॥
धर्मो विवर्धति युधिष्ठिरकीर्तनेन पापं प्रणश्यति वृकोदरकीर्तनेन ।
शत्रुर्विनश्यति धनंजयकीर्तनेन माद्रीसुतौ कथयतां न भवन्ति रोगा: ॥  
वाराणस्यां भैरवो देव: संसारभयनाशन: ।
अनेकजन्मकृतं पापं स्मरणेन विनश्यति ॥
वाराणस्यां पूर्वभागे व्यासो नारायण: स्वयम् ।
तस्य स्मरणमात्रेण अज्ञानी ज्ञानवान् भवेत् ॥
वाराणस्यां पश्चिमे भागे भीमचण्डी महासती ।
तस्या: स्मरणमात्रेण सर्वदा विजयी भवेत् ॥
वाराणस्यामुत्तरे भागे सुमन्तुर्नाम वै द्विज: ।
तस्य स्मरणमात्रेण निर्धनो धनवान् भवेत् ॥
वाराणस्यां दक्षिणे भागे कुक्कुटो नाम ब्राह्मण: ।
तस्य स्मरणमात्रेण दु:स्वप्न: सुस्वप्नो भवेत् ॥
उमा उषा च वैदेही रमा गड्गेति पञ्चकम्
प्रातरेव पठेन्नित्यं सौभाग्यं वर्धते सदा ॥
सोमनाथो वैद्यनाथो धन्वतरिरथाश्विनौ ।
पञ्चैतान् य: स्मरेन्नित्यं व्याधिस्तस्य न जायते ॥
कपिला कालियोऽनन्तो वासुकिस्तक्षकस्तथा ।
पञ्चैतान् स्मरतो नित्यं विषबाधा न जायते ॥
हरं हरिं हरिश्चन्द्रं हनूमन्तं हलायुधम् ।
पञ्चकं वै स्मरेन्नित्यं घोरसंकटनाशनम् ॥
आदित्यश्च उपेन्द्रश्च चक्रपाणिर्महेश्वर: ।
दण्डपाणि: प्रतापी स्यात् क्षुत्तृड्बाधा न बाधते ॥
वसुर्वरुणसोमौ च सरस्वती च सागर: ।
पञ्चैतान् संस्मरेद यस्तु तृषा तस्य न बाधते ॥
सनत्कुमारदेवर्षिशुकभीष्मप्लवड्गमा:
पञ्चैतान् स्मरतो नित्यं कामस्तस्य न बाधते ॥
रामलक्ष्मणौ सीता च सुग्रीवो हनुमान् कपि: ।
पञ्चैतान् स्मरतो नित्यं महाबाधा प्रमुच्यते ॥
विश्वेशं माधवं ढुण्ढिं दण्डपाणिं च भैरवम् ।
वन्दे काशीं गुहां गड्गां भवानीं मणिकर्णिकाम् ॥
(पद्मपुराण)

महार्षिर्भगवान् व्यास: कृत्वेमां संहितां पुरा ।
श्लोकैश्चतुर्भिर्धर्मात्मा पुत्रमध्यापयच्छुकम् ॥
मातापितृसहस्त्राणि पुत्रदाराशतानि च ।
संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ॥
हर्षस्थानसहस्त्राणि भयस्थानशतानि च ।
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥
ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे ।
धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥
न जातु कामान्न भयान्न लोभाद् धर्मं त्यजेज्जीवितस्यापि हेतो: ।
धर्मो नित्य: सुखदु:खे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्य: ॥
इमां भारतसावित्रीं प्रातरुत्थाय य: पठेत् ।
स भारतफलं प्राप्य परं ब्रह्माधिगच्छति ॥
(आचारेन्दु,पृ०२२ में व्यासवचन)
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।
उज्जयिन्यां महाकालमोड्कारममलेश्वरम् ॥
केदारं हिमवत्पृष्ठे डाकिन्यां भीमशड्करम् ।
वाराणस्यां च विश्वेशं त्र्यम्बकं गौतमीतटे ॥
वैद्यनाथं चिताभूमौ नागेशं दारुकावने ।
सेतुबन्धे च रामेशं घुश्मेशं च शिवालये ॥
द्वादशैतानि नामानि प्रातरुत्थाय य: पठेत् ।
सर्वपापविनिर्मुक्त: सर्वसिध्दिफलो भवेत् ॥
(आचारभूषण, पृ०१० में शिवपुराणका वचन)

दैनिक कृत्य-सूची-निर्धारण
-- इसी समय दिन-रातके कार्योंकी सूची तैयार कर लें । आज धर्मके कौन-कौनसे कार्य करने हैं ? धनके लिये क्या करना है ? शरीरमें कोई कष्ट नहीं है ? यदि है तो उसके कारण क्या हैं और उनका प्रतीकार क्या है ?

N/A

References : N/A
Last Updated : November 25, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP