चन्द्रालोकः - चतुर्थो मयूखः

जयदेवेन रचितः अलङ्कारग्रन्थः । अलङ्कारशास्त्रग्रन्थेषु "चन्द्रालोक"वत् सरलं सुन्दरं सह्रुदयचित्ताकर्षकं च ग्रन्थरत्नं नान्यत् दृश्यते इति नातिशयोक्तिः ।


श्लेषो विघटमानार्थ-घटमानत्ववर्णनम् ।
स तु शाब्दः सजातीयैः शब्दैर्बन्धः सुखावहः ॥१॥
उल्लसत्तनुतां नीतेऽनन्ते पुलककण्टकैः ।
भीतया मानवत्यैव श्रियाश्लिष्टं हरिं स्तुमः ॥२॥
यस्मादन्तःस्थितः सर्वः स्वयं अर्थोऽवभासते ।
सलिलस्येव सूक्तस्य स प्रसाद इति स्मृतः ॥३॥
समताल्पसमासत्वं वर्णाद्यैस्तुल्यताथ वा ।
श्यामला कोमला बाला रमणं शरणं गता ॥४॥
समाधिरर्थमहिमा लसद्घनरसात्मना ।
स्यादन्तर्विशता येन गात्रमङ्कुरितं सताम् ॥५॥
माधुर्यं पुनरुक्तस्य वैचित्र्यं चारुतावहम् ।
वयस्य पश्य पश्यास्याश्चञ्चलं लोचनाञ्चलम् ॥६॥
ओजः स्यात्प्रौढिरर्थस्य संक्षेपो वातिभूयसः ।
रिपुं हत्वा यशः कृत्वा त्वदसिः कोशं आविशत् ॥७॥
सौकुमार्यं अपारुष्यं पर्यायपरिवर्तनात् ।
स कथाशेषतां यातः समालिङ्ग्य मरुत्सखम् ॥८॥
उदारता तु वैदग्ध्यं अग्राम्यत्वात्पृथङ्मता ।
मानं मुञ्च प्रिये किंचिल्लोचनान्तं उदञ्चय ॥९॥
शृङ्गारे च प्रसादे च कान्त्यर्थव्यक्तिसंग्रहः ।
अमी दश गुणाः काव्ये पुंसि शौर्यादयो यथा ॥१०॥
तिलकाद्यं इव स्त्रीणां विदग्धहृदयङ्गमम् ।
व्यतिरिक्तं अलङ्कारं प्रकृतेर्भूषणं गिराम् ॥११॥
विचित्रलक्षणो न्यासो निर्वाहः प्रौढिरौचिती ।
शास्त्रान्तररहस्योक्तिः संग्रहो दिक्प्रदर्शिता ॥१२॥
महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
चतुर्थस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥१३॥

N/A

References : N/A
Last Updated : November 13, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP