TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

विषादयोगो नाम प्रथमोऽध्याय:
अथ श्रीमद्भगवद्गीताप्रारंभ:
श्रीगणेशाय नम: ॥ ॥ श्रीगोपालकृष्णाय नम: ॥ ॐ अस्य श्रीमद्भगवद्गीतामालांत्रस्य भगवान्वेदव्यास ऋषि: ॥ अनुष्टुप्‍ छंद: ॥ श्रीकृष्ण:  परमात्मा देवता ॥ अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषस इति बीजम् ॥ सर्वधर्मान्परित्यज्य मामेकं शरणं व्रजेति शक्ति: ॥ अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुच इति कीलकम् ॥ नैनं छिंदंति शस्त्राणि नैनं दहति पावक इत्यंगुष्ठाभ्यां नम: ॥ न चैनं क्लेदयंत्यापो न शोषयति मारुत इति तर्जनीभ्यां नम: ॥ अच्छेद्योऽप्यमदाह्योऽयमक्लेद्योऽशोष्य एव चेति मध्यमाभ्यां नम: ॥ नित्य: सर्वगत: स्थाणुरचलोऽयं सनातन इत्यनामिकाभ्यां नम: ॥ पश्य मे पार्थ रुपाणि शतशोऽथ सहस्त्रश इति कनिष्ठिकाभ्यां नम: ॥ नानाविधानि दिव्यानी नानावर्णाकृतीनि चेति करतलकरपृष्ठाभ्यां नम: ॥ इति करन्यास: ॥ अथ हृदयादिन्यास: ॥ नैनं छिंदंति शस्त्राणि नैनं दहति पावक इति हृदयाय नम: ॥ न चैनं क्लेदयंत्यापो न शोषयति मारुत इति शिरसे स्वाहा । अच्छेद्योयऽयमक्लेद्योऽशोष्य एव चेति शिखायै वषट्‍ ॥ नित्य: सर्वगत: स्थाणुरचोऽयं सनातन इति कवचाय हुम् ॥ पश्य मे पार्थ रुपाणि शतशोऽथ सहस्त्रश इति नेत्रत्रयाय वौषट्‍ ॥ नानाविधानि दिव्यानि नानावर्णाकृतीनि चेति अस्त्राय फट्‍ ॥ श्रीकृष्नप्रीत्यर्थे पाठे विनियोग: ॥ अथ ध्यानम् ॥ ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिना मध्येमहाभारतम् ॥ अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीमंब त्वामनुसंदधामि भगवद्गीते भवद्वेषिणीम् ॥१॥
नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविंदायतपत्रनेत्र । येन त्वया भारततैलपूर्ण: प्रज्वालितो ज्ञानमय: प्रदीप: ॥२॥
प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये । ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नम: ॥३॥
सर्वोपनिषदो गावो दोग्धा गोपालनंदन: । पार्थो वत्स: सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥४॥
वसुदेवसुतं देवं कंसचाणूरमर्दनम् । देवकीपरमानंदं कृष्णं वंदे जगद्गुरुम् ॥५॥
भीष्मद्रोणतटा जयद्रथजला गांधारनीलोपला शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला । अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी सोत्तीर्णा खलु पांडवै रणनदी कैवर्तक: केशव: ॥६॥
पाराशर्यवच:सरोजममलं गीतार्थगंधोत्कटं नानाख्यानककेसरं हरिकथासंबोधना बोधितम् । लोके सज्जनषट्‍पदैरहरह: पेपीयमानं मुदा भूयाद्भारत्‍पंकजं कलिमलप्रध्वंसि न: श्रेयसे ॥७॥
मूकं करोति वाचालं पंगुं लंघयते गिरिम् । यत्कृपा तमहं वंदे परमानंदमाधवम् ॥८॥
यं ब्रह्मा वरुणेंद्ररुद्रमरुत: स्तुन्वंति दिव्यै: स्तैर्वदै: सांगपदक्रमोपनिषदैर्गायंति यं सामगा: । ध्यानावस्थिततद्गतेन मनसा पश्यंति यं योगिनो यस्यांतं न विदु: सुरासुरगणा देवाय तस्मै नम: ॥९॥
इति ध्यानम् ॥
धृतराष्ट्र उवाच । धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सव: । मामका: पांडवाश्चैव किमकुर्वत संजय ॥१॥
संजय उवाच । दृष्ट्वा तु पांडवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥२॥  
पश्यैतां पांडुपुत्राणामाचार्य महतीं चमूम् । व्य़ूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥३॥
अत्र शूरो महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथ: ॥४॥
धृष्टकेतुश्चेकितान: काशिराजश्च वीर्यवान् । पुरुजित्कुंतिभोजश्च शैब्यश्च नरपुंगव: ॥५॥
युधामन्युश्च विक्रांत उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथा: ॥६॥
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥७॥
भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजय: । अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥८॥
अन्ये च बहव: शूरा मदर्थे त्यक्तजीविता: । नानाशस्त्रप्रहरणा: सर्वे युद्धविशारदा: ॥९॥
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तमं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमारक्षितम् ॥१०॥
अयनेषु च सर्वेषु यथाभागमवस्थिता: । भीष्ममेवाभिरक्षंतु भवंत: सर्व एव हि ॥११॥
तस्य संजनयन्हर्षं क्रुरुवृद्ध: पितामह: । सिंहनादं विनद्योच्चै: शंखं दध्मौ प्रतापवान् ॥१२॥
तत: शंखाश्च भेर्यश्च पणवानकगोमुखा: । सहसैवाभ्यहन्यंत स शब्दस्तुमुलोऽभवत् ॥१३॥
तत: श्वेतर्हयैर्युक्ते महति स्यंदने स्थितौ । माधव: पांडवश्चैव दिव्यौ शंखौ प्रदध्मतु: ॥१४॥
पांचजन्यो हृषिकेशो देवदत्तं धनंजय: । पौंड्रं दध्मौ महाशंखं भीमकर्मा वृकोदर: ॥१५॥
अनंतविजयं राजा कुंतिपुत्रो युधिष्ठिर: । नकुल: सहदेवश्च सुघोषमणिपुष्पकौ ॥१६॥
काश्यश्च परमेष्वास: शिखंडी च महारथ: । धृष्टद्युम्नौ विराटश्च सात्यकिश्चापराजित: ॥१७॥
द्रुपदौ द्रौपदेयाश्च सर्वश: पृथिवीपते । सौभद्रश्च महाबाहु: शंखान्दध्मु: पृथक्पृथक्‍ ॥१८॥
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश्च पृथिवीं चैव तुमुलो व्यनौनादयन् ॥१९॥
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वज: । प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पांडव: ॥२०॥
हृषीकेशं तदा वाक्यमिदमाह महीपते । अर्जुन उवाच । सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥२१॥
यावदेतान्निरीक्ष्येऽहं योद्धुकामान्वस्थितान् । कैमर्या सह योद्धव्यमस्मिन्त्रणसमुद्यमे ॥२२॥
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागता: । धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षव: ॥२३॥
संजय उवाच । एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥२४॥
भीष्मद्रोणप्रमुखत: सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान्समवेतान्कुरुनिति ॥२५॥
तत्रापश्यत्स्थितान्पार्थ: पितृनथ पितामहान् । आचार्यान्मातुलान्भ्रातृन्पुत्रान्पौत्रान्सखींस्तथा ॥२६॥
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि । तान्समीक्ष्य स कौंतेय: सर्वान्बंधूनवस्थितान् ॥२७॥
कृपया परयाविष्टो विषीदन्निदमब्रवीत् । अर्जुन उवाच । दृष्टेमं स्वजनं कृष्ण युयुत्सं समुपस्थितम् ॥२८॥
सीदंति मम गात्राणि मुखं च परिशुष्यति । वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥२९॥
गांडीवं स्त्रंसते हस्तात्त्वक्चैव परिदह्यते । न च शक्नोम्यवस्थातुं भ्रमतीव च मे मन: ॥३०॥
निमित्तानि च पश्यामि विपरीतानि केशव । न अच श्रेयोऽनुपश्यामि हत्वा स्वजन माहवे ॥३१॥
न कांक्षे विजयं कृष्ण न च राज्यं सुखानि च । किं नो राज्येन गोविंद किं भोगैर्जीवितेन वा ॥३२॥
येषामर्थे कांक्षितं नो राज्यं भोगा: सुखानि च । त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥३३॥
आचार्या: पितर: पुत्रास्तथैव च पितामहा: मातुला: श्वशुरा: पौत्रा: श्याला: संबंधिनस्तथा ॥३४॥
एतान्न हंतुमिच्छामि घ्नतोऽपि मधुसूदन । अपि त्रैलोक्यराज्यस्य हेतो: किं नु महीकृते ॥३५॥
निहत्य धार्तराष्ट्रान्न: का प्रीति: स्याज्जनार्दन । पापमेवाश्रयेदस्मान्हत्वैतानाततायिन: ॥३६॥
तस्मान्नार्हा वयं हंतुं धार्तराष्ट्रान्स्वबांधवान् । स्वजनं हि कथं हत्वा सुखिन: स्याम माधव ॥३७॥
यद्यप्येते न पश्यंति लोभोपहतचेतस: । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥३८॥
कथं न ज्ञेयमस्माभि: पापादस्मान्निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥३९॥
कुलक्षये प्रणश्यंति कुलधर्मा: सनातना: । धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥४०॥
अधर्माभिभवात्कृष्ण प्रदुष्यंति कुलस्त्रिय: । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकर: ॥४१॥
संकरो नरकायैव कुलघ्नानां कुलस्य च । पतंति पितरो ह्येषां लुप्तपिंडोदकक्रिया: ॥४२॥
दोषैरेतै: कुलघ्नानां वर्णसंकरकारकै: । उत्साद्यंते जातिधर्मा: कुलधर्माश्च शाश्वता: ॥४३॥
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्यनुशुश्रुम् ॥४४॥
अहो बत्त महत्पापं कर्तुं व्यवसिता वयम् । यद्राज्यसुखलोभेन हंतुं स्वजनमुद्यता: ॥४५॥
यदि ममप्रतीकारमशस्त्रं शस्त्रपाणय: । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥४६॥
संजय उवाच । एवमुक्त्वाऽर्जुन: संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानस: ॥४७॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादेऽर्जुन-
विषादयोगो नाम प्रथमोऽध्याय: ॥१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-04-08T11:30:16.2130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

carburetor

  • पु. कार्ब्युरेटर 
  • न. कार्बुरित्र 
  • (also carburetter or carburettor) 
RANDOM WORD

Did you know?

गोकुळ अष्टमी उपास आज करायचा? की उद्या करायचा?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.