मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे|
हेमाद्रिशिखराकारं शुद्धस्...

श्री दधिवामनस्तोत्रम् - हेमाद्रिशिखराकारं शुद्धस्...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


हेमाद्रिशिखराकारं शुद्धस्फटिकसन्निभम् ।
पूर्णचन्द्रनिभं देवं द्विभुजं वामनं स्मरेत् ॥१॥
पद्मासनस्थं देवेशं चन्द्रमण्डलमध्यगम् ।
ज्वलत्कालानलप्रख्यं तडित्कोटिसमप्रभम् ॥२॥
सुर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् ।
चन्द्रमण्डलमध्यस्थं विष्णुमव्ययमच्युतम् ॥३॥
श्रीवत्सकौस्तुभोरस्कं दिव्यरत्नविभूषितम् ।
पीतांबरमुदाराङ्गं वनमालाविभूषितम् ॥४॥
सुन्दरं पुण्डरीकाक्षं किरीटेन विराजितम् ।
षोडशस्त्रीयुतं संयगप्सरोगणसेवितम् ॥५॥
ऋग्यजुस्सामाथर्वाद्यैः गीयमानं जनार्दनम् ।
चतुर्मुखाद्यैः देवेशैः स्तोत्राराधनतत्परैः ॥६॥
सनकाद्यैः मुनिगणैः स्तूयमानमहर्निशम् ।
त्रियंबको महादेवो नृत्यते यस्य सन्निधौ ॥७॥
दधिमिश्रान्नकवलं रुक्मपात्रं च दक्षिणे ।
करे तु चिन्तयेद्वामे पीयूषममलं सुधीः ॥८॥
साधकानाम् प्रयच्छन्तं अन्नपानमनुत्तमम् ।
ब्राह्मे मुहूर्तेचोत्थाय ध्यायेद्देवमधोक्षजम् ॥९॥
अतिसुविमलगात्रं रुक्मपात्रस्थमन्नम्
सुललितदधिभाण्डं पाणिना दक्षिणेन ।
कलशममृतपूर्णं वामहस्ते दधानं
तरति सकलदुःखान् वामनं भावयेद्यः ॥१०॥
क्षीरमन्नमन्नदाता लभेदन्नाद एव च ।
पुरस्तादन्नमाप्नोति पुनरावर्तिवर्जितम् ॥११॥
आयुरारोग्यमैश्वर्यं लभते चान्नसंपदः ।
इदं स्तोत्रं पठेद्यस्तु प्रातःकाले द्विजोत्तमः ॥१२॥
अक्लेशादन्नसिध्यर्थं ज्ञानसिध्यर्थमेव च ।
अभ्रश्यामः शुद्धयज्ञोपवीती सत्कौपीनः पीतकृष्णाजिनश्रीः
छ्त्री दण्डी पुण्डरीकायताक्षः पायाद्देवो वामनो ब्रह्मचारी ॥१३॥
अजिनदण्डकमण्डलुमेखलारुचिरपावनवामनमूर्तये ।
मितजगत्त्रितयाय जितारये निगमवाक्पटवे वटवे नमः ॥१४॥
श्रीभूमिसहितं दिव्यं मुक्तामणिविभूषितम् ।
नमामि वामनं विष्णुं भुक्तिमुक्तिफलप्रदम् ॥१५॥
वामनो बुद्धिदाता च द्रव्यस्थो वामनः स्मृतः ।
वामनस्तारकोभाभ्यां वामनाय नमो नमः ॥१६॥

N/A

References : N/A
Last Updated : February 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP