मराठी मुख्य सूची|स्तोत्रे|मारुती स्तोत्रे|
शृणु देवि प्रवक्ष्यामि स्...

श्री आञ्जनेयस्तोत्रम् - शृणु देवि प्रवक्ष्यामि स्...

हनुमान वायुपुत्र आहे, त्यामुळे त्याच्यात प्रचंड शक्ति आहे.
Hanuman is son of a wind god Vayu. Hanuman is the Divine example of pure devotion and service.


शृणु देवि प्रवक्ष्यामि स्तोत्रं सर्वभयापहम् ।
सर्वकामप्रदं नॄणां हनूमत्स्तोत्रमुत्तमम् ॥१॥
तप्तकाञ्चनसंकाशं नानारत्नविभूषितम् ।
उद्यत्बालार्कवदनं त्रिनेत्रंकुण्डलोज्ज्वलम् ॥२॥
मौञ्जीकौपीनसंयुक्तं हेमयज्ञोपवीतिनम् ।
पिङ्गलाक्षं महाकायं टङ्कशैलेन्द्रधारिणम् ॥३॥
शिखानिक्षिप्तवालाग्रं मेरुशैलाग्रसंस्थितम् ।
मूर्तित्रयात्मकं पीनं महावीरंममहाहनुम् ॥४॥
हनुमन्तं वायुपुत्रं नमामि ब्रह्मचारिणम् ।
त्रिमूर्त्यात्मकमात्मस्थं जपाकुसुमसन्निभम् ॥५॥
नानाभूषणसंयुक्तं आञ्जनेयं नमाम्यहम् ।
पञ्चाक्षरस्थितं देवं नीलनीरदसन्निभम् ॥६॥
पूजितं सर्वदेवैश्च राक्षसान्तं नमाम्यहम् ।
अचलद्युतिसङ्काशं सर्वालङ्कारभूषितम् ॥७॥
षडक्षरस्थितं देवं नमामि कपिनायकम् ।
तप्तस्वर्णमयं देवं हरिद्राभं सुरार्चितम् ॥८॥
सुन्दरांसाब्जनयनं त्रिनेत्रं तं नमाम्यहम् ।
अष्टाक्षराधिपं देवं हीरवर्णसमुज्ज्वलम् ॥९॥
नमामि जनतावन्द्यं लङ्काप्रासादभञ्जनम् ।
अतसीपुष्पसङ्काशं दशवर्णात्मकं विभुम् ॥१०॥
जटाधरं चतुर्बाहुं नमामि कपिनायकम् ।
द्वादशाक्षरमन्त्रस्य नायकं कुन्तधारिणम् ॥११॥
अङ्कुशं च दधानं तं कपिवीरं नमाम्यहम् ।
त्रयोदशाक्षरयुतं सीतादुःखनिवारणम् ॥१२॥
पीतवर्णं लसत्कायं भजे सुग्रीवमन्त्रिणम् ।
मालामन्त्रात्मकं देवं चित्रवर्णं चतुर्भुजम् ॥१३॥
पाशाङ्कुशाभयकरं धृतटङ्कं नमाम्यहम् ।
सुरासुरगणैः सर्वैः संस्तुतं प्रणमाम्यहम् ॥१४॥
एवं ध्यायन्नरो नित्यं सर्वपापैः प्रमुच्यते ।
प्राप्नोति चिन्तितं कार्यं शीघ्रमेव न संशयः ॥१५॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP