मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
मूलाम्भोरुहमध्यकोणविलसत् ...

श्री मूकाम्बिका स्तोत्रम् - मूलाम्भोरुहमध्यकोणविलसत् ...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


मूलाम्भोरुहमध्यकोणविलसत् बन्धूकरागोज्ज्वलाम्
ज्वालाजालजितेन्दुकान्ति लहरीं आनन्दसन्दायिनीम् ।
हेलालालितनीलकुन्तलधरां नीलोत्पलाभांशुकाम्
कोल्लूराद्रिनिवासिनीं भगवतीं ध्यायामि मूकाम्बिकाम् ॥१॥
बालादित्य निभाननां त्रिनयनां बालेन्दुनाभूषितां
नीलाकारसुकेशिनीं सुललितां नित्यान्नदानप्रदाम् ।
शंखंचक्रगदाऽभयम् च दधतीं सारस्वतार्थप्रदाम्
तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥२॥
मध्यान्हार्कसहस्रकोटिसदृशां मायान्धकारस्थितां
मायाजालविराजितां मदकरीं मारेण संसेविताम् ।
शूलंपाशकपालपुस्तकधरां शुद्धार्थविज्ञानदाम्
तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥३॥
सन्ध्यारागसमाननां त्रिनयनां सन्मानसैः पूजितां
चक्राक्षाभयकम्बुशोभितकराम् प्रालम्बवेणीयुताम् ।
ईशत्फुल्लसुकेतकीवरदलैरभ्यर्चितां
तां शिवां तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥४॥
चन्द्रादित्यसमानकुन्डलधरां चन्द्रार्ककोटिप्रभां
चन्द्रार्काग्निविलोचनां शशिमुखीं इन्द्रादिसंसेविताम् ।
भक्ताभीष्टवरप्रदां त्रिनयनां चिन्ताकुलध्वंसिनीं
मन्त्रारादि वने स्थितां मणिमयीं ध्यायामि मूकाम्बिकाम् ॥५॥
कल्याणीं कमलेक्षणां वरनिधिं वन्दारुचिन्तामणिं
कल्याणाचलसंस्थितां घनकृपां मायां महावैष्णवीम् ।
कल्यां कंबुसुदर्शनाऽभयकरां शम्भुप्रियां कामदां
कल्याणीं त्रिपुरां शिवेन सहितां ध्यायामि मूकाम्बिकाम् ॥६॥
कालाम्भोधरकुन्डलाञ्चितमुखां कर्पूरवीटीयुतां
कर्णालम्बितहेमकुन्डलधरां माणिक्यकाञ्चीधराम् ।
कैवल्यैकपरायणां कलमुखीं पद्मासने संस्थितां
तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥७॥
नानाकाञ्चिविचित्रवस्त्रसहितां नानाविधैर्भूषितां
नानापुष्पसुगन्धमाल्यसहितां नानाजनासेविताम् ।
नानावेदपुराणशास्त्रविनुतां नानाकलिद्रप्रथां
नानारूपधरां महेशमहिषीं ध्यायामि मूकाम्बिकाम् ॥८॥
राकातारकनायकोज्वलमुखीं श्रीकामकाम्यप्रदां
शोकारण्यधनञ्जयप्रतिनिभां कोपाटवीचन्द्रिकाम् ।
श्रीकान्तादिसुरार्चितां स्त्रियमिमां लोकावलीनाशिनीं
लोकानन्दकरीं नमामि शिरसा ध्यायामि मूकाम्बिकाम् ॥९॥
काञ्चीकिङ्किणिकङ्कणाञ्चितकरां मञ्जीरहारोज्वलां
चन्चत्काञ्चनकिरीटकटिदामाश्लेषभूषोज्ज्वलाम् ।
किञ्चित्काञ्चनकञ्चुके मणिमये पद्मासने संस्थितां
पञ्चाद्यञ्चितसञ्चरीं भगवतीं ध्यायामि मूकाम्बिकाम् ॥१०॥
सौवर्णाम्बुजमध्यकाञ्चिनयनां सौदामिनीसन्निभां
शंखंचक्रवराभयानि दधतीं इन्दोः कलां बिभ्रतीम् ।
ग्रैवेयासक्तहारकुन्डलधरां आखन्डलादिस्तुतां
मायां विन्ध्यनिवासिनीं भगवतीं ध्यायामि मूकाम्बिकाम् ॥११॥
श्रीमन्विभवेन सुरैर्मुनिगणैरप्सरोपास्य सेव्यां
मन्त्रारादिसमस्तदेववनितैः संशोभमानां शिवाम् ।
सौवर्णाम्बुजधारिणीं त्रिनयनां मोहादि कामेश्वरीं
मूकाम्बां सकलेशसिद्धिवरदां वन्दे परं देवताम् ॥१२॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP