मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
काञ्चीनूपुररत्नकङ्कणलसत्क...

श्री कामाक्षीस्तोत्रम् - काञ्चीनूपुररत्नकङ्कणलसत्क...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


काञ्चीनूपुररत्नकङ्कणलसत्केयूरहारोज्ज्वलां
काश्मीरारुणकञ्चुकाञ्चितकुचां कस्तूरिकाचर्चिताम् ।
कल्हाराञ्चितकल्पकोज्ज्वलमुखीं कारुण्यकल्लोलिनीं
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥१॥
कामारातिमनःप्रियां कमलभूसेव्यां रमाराधितां
कन्दर्पाधिकदर्पदानविलसत् सौन्दर्यदीपाङ्कुराम् ।
कीरालापविनोदिनीं भगवतीं काम्यप्रदानव्रतां
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥२॥
कादम्बप्रमदां विलासगमनां कल्याणकाञ्चीरवां
कल्याणाचलपादपद्मयुगलां कान्त्या स्फुरन्तीं शुभाम् ।
कल्याणाचलकार्मुकप्रियतमां कादंबमालाश्रियं
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥३॥
गन्धर्वामरसिद्धचारणवधूध्येयां पताकाञ्चितां
गौरीं कुङ्कुमपङ्कपङ्कितकुचद्वन्द्वाभिरामां शुभाम् ।
गम्भीरस्मितविभ्रमाङ्कितमुखीं गंगाधरालिङ्गितां
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥४॥
विष्णुब्रह्ममुखामरेन्द्रविलसत्कोटीरपीठस्थलां
लाक्षारञ्जितपादपद्मयुगलां राकेन्दुबिम्बाननाम् ।
वेदान्तागमवेद्यचिन्त्यचरितां विद्वज्जनैरावृतां
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥५॥
माकन्दद्रुममूलदेशमहिते माणिक्यसिंहासने
दिव्यां दीपितहेमकान्तिनिवहां वस्त्रावृतां तां शुभाम् ।
दिव्याकल्पितदिव्यदेहभरितां दृष्टिप्रमोदार्पितां
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥६॥
आधारादिसमस्तचक्रनिलयामाद्यन्तशून्यामुमां
आकाशादिसमस्तभूतनिवहाकारामशेषात्मिकाम् ।
योगीन्द्रैरपि योगिनीशतगणैराराधितामम्बिकां
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥७॥
ह्रीङ्कारप्रणवात्मिकां प्रणमतां श्रीविद्यविद्यामयीं
एं क्लीं सौं रुचि मन्त्रमूर्तिनिवहाकारामशेषात्मिकाम् ।
ब्रह्मानन्दरसानुभूतिमहितां ब्रह्मप्रियंवादिनीं
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥८॥
सिद्धानन्दजनस्य चिन्मयसुखाकारां महायोगिनीं
मायाविश्वविमोहिनीं मधुमतीं ध्यायेत् शुभां ब्राह्मणीम् ।
ध्येयां किन्नरसिद्धचारणवधू ध्येयां सदा योगिभिः
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥९॥
कामारिकामां कमलासनस्थां
काम्यप्रदां कङ्कणचूडहस्तां ।
काञ्चीनिवासां कनकप्रभासां
कामाक्षिदेवीं कलयामि चित्ते ॥१०॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP