मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
श्रीभगवानुवाच – बृंदा रू...

श्री तुलसी स्तोत्रम् - श्रीभगवानुवाच – बृंदा रू...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


श्रीभगवानुवाच –

बृंदा रूपाश्च वृक्षाश्च यथैकत्र भवन्ति हि ।
विदुर्बुधास्तेन बृंदां मत्प्रियां तां भजाम्यहम् ॥१॥

पुरा बभूव या देवी त्वादौ बृन्दा वनेन च ।
तेन वृन्दावनीख्याता सौभाग्यां तां भजाम्यहम् ॥२॥

असंख्येषु च विश्वेषु पूजिता या निरन्तरम् ।
तेन विश्वपूजिताख्या पूजितां तां भजाम्यहम् ॥३॥

असंख्यानि तु विश्वानि पवित्राणि तया सदा ।
तां विश्वपावनीं देवीं विरहेण स्मराम्यहम् ॥४॥

देवा न तुष्टाः पुष्पाणां समूहेन यया विना ।
तां पुष्पसारां शुद्धां च द्रष्टुमिच्छामि शोकतः ॥५॥

विश्वे यत्प्राप्तिमात्रेण भक्तानन्दो भवेद्ध्रुवम् ।
नन्दिनी तेन विख्याता सा प्रीता भवतादिह ॥६॥

यस्या देव्यास्तुला नास्ति विश्वेषु निखिलेषु च ।
तुलसी तेन विख्याता तां यामि शरणं प्रियाम् ॥७॥

कृष्णजीवनरूपा सा शश्वत्प्रियतमा सती ।
तेन कृष्णजीवनीया सा मे रक्षतु जीवनम् ॥८॥

बृन्दा बृन्दावनी विश्वपूजिता विश्वपावनी
पुष्पसारा नन्दिनी च तुलसी कृष्णजीवनी ॥९॥

एतन्नामाष्टकं चैव स्तोत्रं नामार्थसंयुतम् ।
यः पठेत् तां च संपूज्य सोऽश्वमेधफलं लभेत् ॥१०॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP