मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
नमो हिरण्यगर्भाय ब्रह्मणे...

अभीष्टदब्रह्मस्तोत्रम् - नमो हिरण्यगर्भाय ब्रह्मणे...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.



नमो हिरण्यगर्भाय ब्रह्मणे ब्रह्मरूपिणे ।
अविज्ञातस्वरूपाय कैवल्यायामृताय च ॥१॥
यं न देवा विजानन्ति मनो यत्रापि कुण्ठितं ।
न यत्र वाक्प्रसरति नमस्तस्मै चिदात्मने ॥२॥
योगिनो यं हृदाकाशे प्रणिधानेन निश्चलाः ।
ज्योतिरूपं प्रपश्यन्ति तस्मै श्री ब्रह्मणे नमः ॥३॥
कालात् पराय कालाय स्वेच्छया पुरुषाय च ।
गुणत्रयस्वरूपाय नमः प्रकृतिरूपिणे ॥४॥
विष्णवे सत्त्वरूपाय रजोरूपाय वेधसे ।
तमसे रुद्ररूपाय स्थितिसर्गान्तकारिणे ॥५॥
नमो बुद्धिस्वरूपाय त्रिधाहंकृतये नमः ।
पञ्चतन्मात्ररूपाय पञ्चकर्मेन्द्रियात्मने ॥६॥
नमो मनः स्वरूपाय पञ्चबुद्धीन्द्रियात्मने ।
क्षित्यादि पञ्चरूपाय नमस्ते विषयात्मने ॥७॥
नमो ब्रह्माण्डरूपाय तदन्तर्वर्तिने नमः ।
अर्वाचीन पराचीन विश्वरूपाय ते नमः ॥८॥
अनित्यनित्यरूपाय सदसत्पतये नमः ।
समस्तभक्तकृपया स्वेच्छाविष्कृतविग्रह ॥९॥
तव निश्वसितं देवाः तव स्वेदोऽखिलं जगत् ।
विश्वा भूतानि ते पादः शीर्ष्णो द्यौस्समवर्तत ॥१०॥
नाभ्या आसीदन्तरिक्षंलोमानि च वनस्पतिः
चन्द्रमा मनसो जातः चक्षोः सूर्यस्तव प्रभो ॥११॥
त्वमेव सर्वं त्वयि देव सर्वं स्तोता स्तुति स्तव्य इह त्वमेव ।
ईशा त्वया वास्यमिदं हि सर्वं नमोऽस्तु भूयोऽपि नमो नमस्ते ॥१२॥
इति स्तुत्वा विधिं देवाः निपेतुर्दण्डवत्क्षितौ ।
परितुष्टस्तदा ब्रह्मा प्रत्युवाच दिवौकसः ॥१३॥
ब्रह्मोवाच:
यथार्थयाऽनया स्तुत्या तुष्टोऽस्मि प्रणताः सुराः ।
उत्तिष्ठत प्रसन्नोऽस्मि वृणुध्वं वरमुत्तमम् ॥१४॥
यः स्तोष्यत्यनया स्तुत्या श्रद्धावान् प्रत्यहं शुचिः ।
मां वा हरं वा विष्णुं वा तस्य तुष्टाः सदा वयं ॥१५॥
दास्यामः सकलान् कामान् पुत्रान् पौत्रान् पशून् वसु
सौभाग्यमायुरारोग्यं निर्भयत्वं रणे जयम् ॥१६॥
ऐहिकामुष्मिकान् भोगान् अपवर्गं तथाऽक्षयं ।
यद्यदिष्टतमं तस्य तत्तत्सर्वं भविष्यति ॥१७॥
तस्मात्सर्वप्रयत्नेन पठितव्यः स्तवोत्तमः ।
अभीष्टद इति ख्यातः स्तवोऽयं सर्वसिद्धिदः ॥१८॥
इति स्कन्दपुराण-काशीखण्डान्तर्गतं अभीष्टद ब्रह्मस्तित्रम्

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP