मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|
ब्रह्मरूपमादिमध्यशेषसर्वभ...

श्रीरामकृष्णस्तोत्रदशकम् - ब्रह्मरूपमादिमध्यशेषसर्वभ...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


ब्रह्मरूपमादिमध्यशेषसर्वभासकं
भावषट्कहीनरूप-नित्यसत्यमद्वयम् ।
वाङ्मनोऽतिगोचरं च नेतिनेतिभावितम्
तं नमामि देवदेव-रामकृष्णमीश्वरम् ॥१॥
आदितेयभीहरं सुरारिदैत्यनाशकं
साधुशिष्टकामदंमहीसुभारहारकम् ।
स्वात्मरूपतत्त्वकं युगे युगे च दर्शितं
तं नमामि देवदेव-रामकृष्णमीश्वरम् ॥२॥
सर्वभूतसर्गकर्मसूत्रबन्धकारणं
ज्ञानकर्मपापपुण्यतारतम्यसाधनम् ।
बुद्धिवास-साक्षिरूप-सर्वकर्मभासनं
तं नमामि देवदेव-रामकृष्णमीश्वरम् ॥३॥
सर्वजीवपापनाशकारणं भवेश्वरं
स्वीकृतं च गर्भवास-देहधानमीदृशम् ।
यापितं स्वलीलया च येन दिव्यजीवनं
तं नमामि देवदेव-रामकृष्णमीश्वरम् ॥४॥
तुल्यलोष्टकाञ्चनं च हेयनेयधीगतं
स्त्रीषु नित्यमातृरूपशक्तिभावभावुकम् ।
ज्ञानभक्तिभुक्तिमुक्तिशुद्धबुद्धिदायकं
तं नमामि देवदेव-रामकृष्णमीश्वरम् ॥५॥
सार्वधर्मगम्यमूलसत्यतत्त्वदेशकं
सिद्धसर्वसम्प्रदाय सम्प्रदायवर्जितम् ।
सर्वशास्त्रमर्मदर्शि-सर्वविन्निरक्षरं
तं नमामि देवदेव-रामकृष्णमीश्वरम् ॥६॥
चारुदर्शकालिकासुगीतचारुगायकं
कीर्तनेषु मत्तवच्च नित्यभावविह्वलम् ।
सूपदेशदायकं हि शोकतापवारकं
तं नमामि देवदेव-रामकृष्णमीश्वरम् ॥७॥
पादपद्मतत्त्वबोधशान्तिसौख्यदायकं
सक्तचित्तभक्तसूनुनित्यवित्तवर्धकम् ।
दम्भिदर्पदारणं तु निर्भयं जगद्गुरुं
तं नमामि देवदेव-रामकृष्णमीश्वरम् ॥८॥
पञ्चवर्षबालभावयुक्तहंसरूपिणं
सर्वलोकरञ्जनं भवाब्धिसङ्गभञ्जनम् ।
शान्तिसौख्यसद्म-जीवजन्मभीतिनाशनं
तं नमामि देवदेव-रामकृष्णमीश्वरम् ॥९॥
 धर्महानहारकं त्वधर्मकर्मवारकं
लोकधर्मचारणं च सर्वधर्मकोविदम् ।
त्यागिगेहिसेव्यनित्यपावनाङ्घ्रिपङ्कजं
तं नमामि देवदेव-रामकृष्णमीश्वरम् ॥१०॥
स्तोत्रशून्यसोमकं सदीशभावव्यञ्जकं
नित्यपाठकस्य वै विपत्तिपुञ्जनाशकम् ।
स्यात्कदापि जापयागयोगभोगसौलभं
दुर्लभं तु रामकृष्णरागभक्तिभावनम् ॥११॥
इति श्रीविरजानन्दरचितं भक्तिसाधकम् ।
स्तवसारं समाप्तं वै श्री रामकृष्णतूणकम् ॥१२॥

N/A

References : N/A
Last Updated : February 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP