संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
श्री राघवेन्द्राष्टोत्तरशतनामावलिः

श्री राघवेन्द्राष्टोत्तरशतनामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


जप करताना सर्व नावांच्या आधी ‘ॐ‘ आणि नंतर“नमः‘ लावावा.

ॐ स्ववाग्देवतासरित्भक्तविमलीकर्त्रे नमः
श्रीराघवेन्द्राय
सकलप्रदात्रे
भक्ताघसंभेदनदृष्टिवज्राय
क्षमासुरेन्द्राय
हरिपादकञ्जनिषेवणाल्लब्धसमस्तसंपदे
देवस्वभावाय
द्विजविद्रुमाय
इष्टप्रदात्रे
भव्यस्वरूपाय १०
भवदुःखतूलसङ्घाग्निचर्याय
सुखधैर्यशालिने’
समस्तदुष्टग्रहनिग्रहेशाय
दुरत्ययोपप्लवसिन्धुसेतवे
निरस्तदोषाय
निरवद्यवेषाय
प्रत्यर्थि मूकत्वनिदानभाषाय
विद्वत्परिज्ञेयमहाविशेषाय
वाग्वैखरीनिर्जितभव्यशेषाय
सन्तानसंपत्परिशुद्धभक्तिविज्ञानवाग्देहसुपाटवदात्रे २०
शरीरोत्थसमस्तदोषहन्त्रे
श्रीगुरुराघवेन्द्राय
तिरस्कृतसुरनदीजलपादोदकमहिमवते
दुस्तापत्रयनाशनाय
महावन्ध्यासुपुत्रदाय
व्यङ्गस्वङ्गसमृद्धिदाय
ग्रहमहापापापहाय
दुरितकाननदावभूतस्वभक्तदर्शनाय
सर्वतन्त्रस्वतन्त्राय
श्रीमध्वमतवर्धनाय ३०
विजयीन्द्रकराब्जोत्थसुधीन्द्रवरपुत्रकाय
यतिराजाय
भयापहाय
ज्ञानभक्तिसुपुत्रायुर्यशःश्रीपुण्यवर्धनाय
प्रतिवादिजयस्वान्तभेदजिह्वाधराय
सर्वविद्याप्रवीणाय
अपरोक्षीकृतश्रीशाय
समुपेक्षितपापजाय
अपेक्षितप्रदात्रे
दयादाक्षिण्यवैराग्यवाक्पाटवमुखाङ्किताय ४०
शापानुग्रहशक्ताय
अज्ञानविस्मृतिभ्रान्तिसंशयापस्मृतिक्षयादिदोषनाशकाय
अष्टाक्षरजपेष्टार्थप्रदात्रे
आत्मात्मीयसमुद्भवकायजदोषहन्त्रे
सर्वपुमर्थप्रदात्रे
कालत्रयप्रार्थनाकरैहिकामुष्मिकसर्वेष्टप्रदात्रे
अगम्यमहिम्ने
महायशसे
श्रीमध्वमतदुग्धाब्धिचन्द्राय
अनघाय ५०
यथाशक्तिप्रदक्षिणकर्तृसर्वयात्राफलदात्रे
शिरोधारणसर्वतीर्त्थस्नानफलदातृ स्ववृन्दावनगतजलाय
नमस्कर्तृसर्वाभीष्टदात्रे
सङ्कीर्तनात् वेदशास्त्रार्थज्ञानदात्रे
संसारमग्नजनोद्धारकर्त्रे
कुष्ठादिरोगनिवर्तकाय
अन्धदिव्यदृष्टिदात्रे
एडमूकवाक्पतित्वप्रदात्रे
पूर्णायुःप्रदात्रे नमः
पूर्णसंपत्तिदात्रे नमः ६०
कुक्षिगतसर्वदोषघ्ने
पङ्गुखञ्जसमीचीनावयवदात्रे
भूतप्रेतपिशाचादिपीडाघ्ने
दीपसंयोजनज्ञानपुत्रदात्रे
दिव्यज्ञानभक्त्यादिवर्धनाय
सर्वाभीष्टदाय
राजचोरमहाव्याघ्रसर्पनक्रादिपीडनघ्ने
स्वस्त्तोत्रपठनेष्टार्थसमृद्धिदाय
उद्यत्प्रद्योतनद्योतधर्मकूर्मासनस्थिताय
खद्योतनद्योतप्रतापाय ७०
श्रीराममानसाय
धृतकाषायवसनाय
तुलसीहारवक्षसे
दोर्दण्डविलसद्दण्डकमण्डलुविराजिताय
अभयज्ञानमुद्राक्षमालाशीलकराम्बुजाय
योगीन्द्रवन्द्यपादाब्जाय
पापाद्रिपाटनवज्राय
क्षमासुरगणाधीशाय
हरिसेवालब्धसर्वसंपदे
तत्त्वप्रदर्शकाय ८०
इष्टप्रदानकल्पद्रुमाय
श्रुत्यर्थबोधकाय’
भव्यकृते
बहुवादिविजयिने
पुण्यवर्धनपादाब्जाभिषेकजलसञ्चयाय
द्युनदीतुल्यसद्गुणाय
भक्ताघविध्वंसकरनिजमूर्तिप्रदर्शकाय
जगत्गुरवे
कृपानिधये
सर्वशास्त्रविशारदाय ९०
निखिलेन्द्रियदोषघ्ने
अष्टाक्षरमनोदिताय
सर्वसौख्यकृते
मृतपोतप्राणदात्रे
वेदिस्थपुरुषोज्जीविने
वह्निस्थमालिकोद्धर्त्रे
समग्रटीकाव्याख्यात्रे
भाट्टसंग्रहकृते
सुधापरिमलोद्धर्त्रे
अपस्मारापहर्त्रे १००
उपनिषद्कण्ठार्थकृते
ऋग्व्याख्यानकृताचार्याय
मन्त्रालयनिवासिने
न्यायमुक्तावलीकर्त्रे
चन्द्रिकावाख्याकर्त्रे
सुतन्त्रदीपिकाकर्त्रे
गीतार्थसंग्रहकृते
श्रीराघवेन्द्राय १०८

N/A

References : N/A
Last Updated : February 15, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP