संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
बन्धूकबन्धुररुचिं कलधौतभा...

श्रीधर्मशास्तुः अष्टकम् - बन्धूकबन्धुररुचिं कलधौतभा...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


बन्धूकबन्धुररुचिं कलधौतभासं
पञ्चाननं दुरितवञ्चनधीरमीशम् ।
पार्श्वद्वयाकलितशक्तिकटाक्षचारुं
नीलॊत्पलार्चिततनुं प्रणतॊऽस्मि देवम् ॥१॥
कल्याणवेषरुचिरं करुणानिधानं
कन्दर्पकोटिसदृशं कमनीयभासम् ।
कान्ताद्वयाकलितपार्श्वमघारिमाद्यं
शास्तारमेव सततं प्रणतोऽस्मि नित्यम् ॥२॥
यो वा स्मरेदरुणकुङ्कुमपङ्कशोण-
गुंजापिनद्धकचभारलसत्किरीटम् ।
शास्तारमेव सततं स तु सर्वलोकान्
विस्मापयॆन्निजविलोकनतॊ नितान्तम् ॥३॥
पञ्चेषुकैटभविरोधितनूभवं तं
आरूढदन्तिपरमादृतमन्दहासम् ।
हस्ताम्बुजैरविरतं निजभक्तहंसे
ष्वृद्धिं परां हि ददतं भुवनैकवन्द्यम् ॥४॥
गुंजामणिस्रगुपलक्षितकेशहस्तं
कस्तूरिकातिलकमोहनसर्वलोकम् ।
पञ्चाननाम्बुजलसत् घनकर्णपाशं
शास्तारमम्बुरुहलोचनमीशमीडे ॥५॥
पञ्चाननं दशभुजं धृतहेतिदण्डं
धारावतादपि च रूष्णिकमालिकाभिः ।
इच्छानुरूपफलदोऽस्म्यहमेव भक्ते-
ष्वित्थं प्रतीतविभवं भगवन्तमीडे ॥६॥
स्मेराननाद् भगवतः स्मरशासनाच्च
मायागृहीतमहिलावपुषो हरेश्च ।
यः संगमे समुदभूत् जगतीह तादृग्
देवं नतोऽस्मि करुणालयमाश्र येऽहम् ॥७॥
यस्यैव भक्तजनमत्र गृणन्ति लोके
किं वा मयः किमथवा सुरवर्धकिर्वा ।
वेधाः किमेष ननु शम्बर एष वा किं
इत्येव तं शरणमाशुतरं व्रजामि ॥८॥

N/A

References : N/A
Last Updated : February 13, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP