संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
ओङ्कारामृतबिन्दुसुन्दरतनु...

शबरीशाष्टकम् - ओङ्कारामृतबिन्दुसुन्दरतनु...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


ओङ्कारामृतबिन्दुसुन्दरतनुं मोहान्धकारारुणं
दीनानां शरणं भवाब्धितरणं भक्तैकसंरक्षणम् ।
दिष्ट्या त्वां शबरीश, दिव्यकरुणापीयूषवारान्निधिं
दृष्ट्योपोषितया पिबन्नयि विभो धन्योऽस्मि धन्योऽस्म्यहम् ॥१॥
’घ्रू’ङ्कारात्मकमुग्रभावविलसद्रूपं, कराग्रोल्लसत्
कोदण्डाधिकचण्ड, माशुगमहावेगे तुरङ्गे स्थितम् ।
दृष्ट्यैवारिविमर्ददक्ष,मभयङ्कारं शरण्यं सतां,
शास्तारं मणिकण्ठमद्भुतमहावीरं समाराधये ॥२॥
’न’म्राणां हृदयान्तरेषु, महिते पम्पात्रिवेणीजले,
प्रौढारण्यपरम्परासु, गिरिकूटेष्वम्बरोल्लङ्घिषु ।
हंहो किं बहुना? – विभान्तमनिशं सर्वत्र तेजोमयं
कारुण्यामृतवर्षिणं हरिहरानन्दाङ्कुरं भावये ॥३॥
’म’र्त्यास्तापनिवर्तये भजत मां सत्यं शिवं सुन्दरं
शास्तारं शबरीश्वरं च भवतां भूयात् कृतार्थं जनुः ।
लोलानन्ततरङ्गभङ्गरसनाजालैरितीयं मुदा
पम्पा गायति भूतनाथचरणप्रक्षालनी पावनी ॥४॥
’प’ङ्क्तिस्था इह सङ्घगानकुशलाः नीलीवने पावने
त्वन्माहात्म्यगुणानुकीर्तनमहानन्दे निमग्ना द्विजाः ।
भक्तानां श्रवणेषु नादलहरीपीयूषधारां नवां
नित्यानन्दधनां विभो, विदधते देवाय तुभ्यं नमः ॥५॥
’रा’जन्ते परितो जरद्विटपिनोवल्लीजटोद्भासिन-
स्त्वद्ध्यानैकपरायणाः स्थिरतमां शान्तिं समासादिताः ।
आनीलाम्बरमर्घ्यभाण्डमनिशं मूर्ध्ना वहन्तः स्थिता-
स्तं त्वां श्रीशबरीश्वरं शरणदं योगासनस्थं भजे ॥६॥
’य’स्मिन् लब्धपदा प्रशान्तिनिलये लीलावने तावके
सङ्गीतैकमये निरन्तरसमारोहावरोहात्मके ।
एषा मामकचेतना परचिदानन्दस्फुरद्गात्रिका
हा! हा! ताम्यति; हन्त ! तामनुगृहाणानन्दमूर्ते, विभो ॥७॥
’गो’प्त्रे विश्वस्य हर्त्रे बहुदुरितकृतो मर्त्यलोकस्य शश्वत्
कर्त्रे भव्योदयानां निजचरणजुषो भक्तलोकस्य नित्यम् ।
शास्त्रे धर्मस्य, नेत्रे श्रुतिपथचरणाभ्युद्यतानां, त्रिलोकी-
भर्त्रे भूताधिभर्त्रे, शबरिगिरिनिवासाय तुभ्यं नमोऽस्तु ॥८॥

N/A

References : N/A
Last Updated : February 13, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP