संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
चाञ्चल्यारुणलोचनाञ्चितकृप...

श्री अम्बाष्टकम् - चाञ्चल्यारुणलोचनाञ्चितकृप...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


चाञ्चल्यारुणलोचनाञ्चितकृपां चन्द्रार्धचूडामणिं
चारुस्मेरमुखां चराचरजगत्संरक्षणे तत्पराम् ।
चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥१॥
कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिफालस्थलीं
कर्पूरद्रवमिश्रचूर्णखदिरामोदोल्लसद्वीटिकाम् ।
लोलापाङ्गतरङ्गितैरधिकृपासारैर्नतानन्दिनीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥२॥
राजन्मत्तमरालमन्दगमनां राजीवपत्रेक्षणां
राजीवप्रभवादिदेवमकुटाराजत्पदांभोरुहाम् ।
राजीवायतपत्रमण्डितकुचां राजाधिराजेश्वरीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥३॥
षट्कोणाङ्गणदीपिकां शिवसतीं षड्वैरिवर्गापाहां
षट्चक्रान्तरसंस्थितां वरसुतां षड्योगिनीवेष्टिताम् ।
षट्चक्राञ्चितपादुकाञ्चितपदां षड्भावगां षोडशीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥४॥
श्रीनाथाकृतिपालितत्रिभुवनां श्रीचक्रसञ्चारिणीं
ज्ञानासक्तमनोजयौवनलसत् गन्धर्वकन्यावृताम् ।
दीनानामतिवेलभाग्यकलनीं दिव्याम्बरालङ्कृतां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥५॥
लावण्याधिकभूषिताङ्गलतिकां लाक्षारसद्राविणीं
सेवायातसमस्तदेववनितां सीमन्तभूषान्विताम् ।
भावोल्लासवशीकृतप्रियतमां भण्डासुरच्छेदिनीम्
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥६॥
धन्यां सोमविभावनीयचरितां धाराधरश्यामलां
मान्याराधनमेदिनीं सुमनसां मुक्तिप्रदानव्रताम् ।
कन्यापूजनसुप्रसन्नहृदयां काञ्चीलसन्मध्यमां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥७॥
कर्पूरागरुकुङ्कुमाङ्कितकुचां कर्पूरवर्णस्थितां
कृष्टोत्कृष्टसुकृष्टकर्मदहनां कामेश्वरीं कामिनीम् ।
कामाक्षीं करुणारसार्द्रहृदयां कल्पान्तरस्थायिनीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥८॥
गायत्रीं गरुडध्वजां गगनगां गान्धर्वगानप्रियां
गंभीरां गजगामिनीं गिरिसुतां गन्धाक्षतालंकृताम् ।
गंगागौतमगर्गसन्नुतपदां गां गौतमीं गोमतीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥९॥

N/A

References : N/A
Last Updated : February 13, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP