TransLiteral Foundation

श्रीमच्छङ्करदिग्विजय: - षोडश: सर्ग:

श्रीविद्यारण्यविरचित: श्रीमच्छडरदिग्विजय: ॥


श्रीमदाचार्याणां शारदापीठवासवर्णनम्
अथ यदा जितवान्यतिशेखरोऽभिनवगुप्तमनुत्तममान्त्रिकम्‍ ।
स तु तदाऽपजितो यतिगोचरं हतमना: कृतवानपगोरणम्‍ ॥१॥
स ततोऽभिचचार मूढबुध्दिर्यतिशार्दूलममुं प्ररुढरोष: ।
अचिकित्स्यतमो भिषग्भिरस्मादजनिष्ठास्य भगन्दराख्यरोग: ॥२॥
अचिकित्स्यभगन्दराख्यरोगप्रसरच्छोणितपकिलस्वशाटया: ।
अजुपुप्सविशोधनादिरुपां परिचर्यामकृतास्य तोटकार्य: ॥३॥
भगन्दरव्याधिनिपीडितं गुरुं निरीक्ष्य शिष्या: समबोधयञ्शनै: ।
नोपेक्षणीयो भगवन्‍ महामयस्त्वपीडित: शत्रुरिवर्ध्दिमाप्रुयात ॥४॥
ममत्वहानाद्भवता शरीरके न गण्यते व्याधिकृताऽऽर्तिरीदृशी ।
पश्यन्त एवान्तिकवर्तिनो वयं भृशातुरा: स्म: सहसा व्यथासहा: ॥५॥
चिकित्सका व्याधिनिदानकोविदा: संप्रच्छनीया भगवन्नितस्तत: ।
प्रत्यक्षवत्संप्रति सन्ति पूरुषा जीवातुवेदे गदितार्थसिध्दिदा: ॥६॥
उपेक्षमाणेऽपि गुरावनास्थया शरीरकादौ सुखमात्मनीश्वरै: ।
नोपेक्षणीयं गुरुदु:खदृश्वभिर्दु:खं विनेयैरिति शास्त्रनिश्चय: ॥७॥
स्वस्थे भवत्पादसरोरुहव्दये स्वस्था वयं यन्मधृपायिवृत्तय: ।
तस्माद्भवेतावकविग्रहो यथा स्वस्थस्तथा वाञ्छति पूज्य ना मन: ॥८॥
व्याधिर्हि जन्मान्तरपापपाको भोगेन तस्मात्‍ क्षपणीय एष: ।
अभुज्यमान: पुरुषं न मुश्चेज्जन्मान्तरेऽपीति हि शास्त्रवाद: ॥९॥
व्याधिर्व्दिधाऽसौ कथितो हि विद्भि: कर्मोद्भवो धातुकृतस्तथेति ।
आद्यक्षय: कर्मण एव लीनाचिकित्सया स्याचरमोदितस्य ॥१०॥
संक्षीयतां कर्मण एव संक्षयाद्‍व्याधि; प्रवृत्तो न चिकित्स्यते मया ।
पतेच्छरीरं यदि तन्निमित्तत: पतत्ववश्यं न विभेमि किश्चन ॥११॥
सत्य गुरो न शरीरलोभ: स्पृहालुत नस्तु चिराय तस्मै ।
त्वज्जीवनेनैव हि जीवनं न: पाथश्चरणां जलमेव तध्दि ॥१२॥
स्वयं कृतार्था: परतुष्टिहेतो: कुर्वन्ति सन्तो निजदेहरक्षाम्‍ ।
तस्माच्छरीरं परिरक्षणीयं त्वयाऽपि लोकस्य हिताय विव्दन्‍ ॥१३॥
निर्बन्धतो गुरुवर: प्रददावनुज्ञां दिग्भ्यो भिषग्वरसमानयनाय तेभ्य: ।
नत्वा गुरुं प्रतिदिशं प्रययु : प्रहृष्टा: शिष्या: प्रवासकुशला हरिभक्तिभाज: ॥१४॥
प्रायो नृपं कविजना भिषजो वदान्यं वित्तार्थिन: प्रतिदिनं कुशला जुषन्ते ।
तस्मादमी न्रुपपुरेषु निरीक्षणीया इत्येव चेतसि मनोरथमादधाना: ॥१५॥
तेऽतीत्य देशान्‍ बहुलान्‍ स्वकार्यसिध्दयै कचिद्राजपुरे भिषग्भि: ।
अवाप्य सन्दर्शनभाषणानि समानयस्तान्‍ स्वाभिमतार्थदानै: ।
यदत्न कर्तव्यमुदीर्यतां तत्कुर्म: स्वशक्त्येति वदाज्जगौ स: ॥१७॥
उपगुदं भिषज: परिबाधते गद उदेत्य तनुं तनुमध्यग: ।
यदिदमस्य विधेयमिदं ध्रुवं वदत रोगतमस्तिमिरारय: ॥१८॥
चिरमुपे क्षतवानहमेतकं दुरितजोऽयमिति प्रतिभाति मे ।
तदपि शिष्यगणैर्निरहिंस्य हं प्रहितवान्‍ भवदानयनाय  तान्‍ ॥१९॥
निगदिते मुन्निनेति भिषग्वरा विदधिरे बहुधा गदसत्क्रिया: ।
न च शशाम गदो बहुतापदो विमनस: पटवो भिषजोऽभवन्‍ ॥२०॥
अथ मुनिर्विमनस्त्वसमन्वितानिदमवोचत सिध्दभिषग्वरान्‍ ।
अटत गेहमगात्समया बहुर्गदहृते भवतामित ईयुषाम्‍ ॥२१॥
दिनचय्म गणयन्‍ पथिलोचन: प्रियचनो निवसेव्दिरहातुर: ।
नरपिअतिर्भवतां शरण ध्रुवं स च विदेशगमं श्रुतवान्यदि ॥२२॥
रुषितवान्न च वो वितरेन्नृप: फणितजीवितमक्षतशासन: ।
तुरगवन्नृपतिश्चलमानसो भिषजमन्यमसौ विदधीत वा ॥२३॥
जनपदो विरलो गदहारकैर्बहुलरुग्णजन: प्रकृतेरत: ।
मृगयते भवतो भवतां गृहे गदिजन: सहितुं गदमक्षम: ॥२४॥
पितृकृता जनिरस्य शरीरिण: समवनं गदहारिषु तिष्ठति ।
जनितमप्यफलं भिषजं विना भिषगसौ हरिरेव तनूभृत: ॥२५॥
यदुदितं भवता वितथं न तत्तदपि न क्षमते व्रजितुं मन: ।
सुरभुवं प्रविहाय मनुष्यगाम व्रजितुमिच्छति कोऽत्न नर: सुधी: ॥२६॥
इति निगद्य ययुर्भिषजां गणा विमनस: पटवोऽपि निजान्‍ल गृहान्‍ ।
अथ मुनिर्विजहन्ममतां तनौ गुरुवरो गुरुदु:खमसोढ स: ॥२७॥
प्रथितैरवनौ पर: सहस्रैरगदंकारचयैरथाचिकित्स्ये ।
प्रबले स्ति हा भगन्दराख्ये स्मरति स्म स्मरशासनं मुनीन्द्र; ॥२८॥
स्मरशासनशासनान्नियुक्तौ व्दिजवेषं प्रविधाय भूमिमाप्तौ ।
उपदेदतुरश्चिनौ च देवौ सुभुजौ साज्जनलोचनौ सुपुस्तौ ॥२९॥
यतिवर्य चिकित्सितुं न शक्या परकृत्याजनिता हि ते रुगेषा ।
इति तं समुदीर्य योगिवर्य विबुधौ तौ प्रतिजग्मतुर्यथेतम्‍ ॥३०॥
तदनु स्वगुरोर्गदापनुत्त्यै परमन्त्रं तु जजाप जातमन्यु: ।
मुहुरार्यपदेन वार्यमाणोऽप्यरिवर्गेऽप्यनुकम्पिनाऽब्जपाद: ॥३१॥
अमुनैव ततो गदेन नीच: प्रतियातेन हतो ममार गुप्त: ।
मतिपूर्वकृतो महानुभावेष्यनय: कस्य भवेत्सुखोपलब्ध्यै ॥३२॥
स्वस्थ: सोऽयं ब्रह्म सायं कदाचिध्द‍यायन्‍ गडापूरसडार्द्रवातै: ।
आगच्छन्तं सैकते प्रत्यगच्छद्योगीशान्म गौडपादाभिधानम्‍ ॥३३॥
पाणौ फुल्लश्वेतपकेरुहश्रीमैत्रीपात्रीभूतभासा घटेन ।
आराद्राजत्कैरवानन्दसन्ध्यारागारक्ताम्भोदलीलां दधानम्‍ ॥३४॥
षाणौ शोणाम्भोजबुध्दया समन्ताद‍ भ्राम्यद्भृडीमण्डलीतुल्यकुल्याम्‍ ।
अड्‍गुल्यग्रासडिरुद्राक्षमालामड्‍गुष्ठाग्रेणासकृद्‍भ्रामयन्तम्‍ ॥३५॥
आर्यस्याथो गौढपादस्य पादावभ्यर्च्यासौ शकर: पकजाभौ ।
भक्तिश्रध्दासंभ्रमाक्रान्तचेता: प्रह्वस्तस्थावग्रत: प्राज्जलि : सन्‍ ॥३६॥
सिश्चन्नेनं क्षीरवाराशिवीचीसाचिव्यायाऽऽसन्नयत्नै: कटाक्षै: ।
दन्तज्योत्स्रादन्तुराश्चापि कुर्वन्नाशा: सूक्तिं सन्दधे गोंढपाद: ॥३७॥
कचित्सर्वा वेत्सि गोविन्दनाम्रो हृद्या विद्या संसृदुध्दारकृद्या ।
कचित्तत्वं तत्त्वमानरुपं नित्यं सच्चिन्निर्मलं वेत्सि वेद्यम्‍ ॥३८॥
भक्तया युक्ता स्वानुरक्ता विरक्ता: शान्ता दान्ता: सन्ततं श्रध्दाधाना: ।
कचित्तत्वज्ञानकामा विनीता: शुश्रूषन्ते शिष्यवर्या गुरुं त्वाम्‍ ॥३९॥
कचिन्नित्या : शत्रवो निर्जितास्ते कच्चित्प्राप्ता: सद्रुणा: शान्तिपूर्वा: ।
कच्चिद्योग: साधितोऽष्टाडयुक्त: कचिचित्तं साधुचित्तत्वर्ग ते ॥४०॥
इत्यदैताचार्यवर्येण तेन प्रेम्णा पृष्ट: शकर:  साधुशील ।
भक्तयुद्रेकाव्दाष्पपर्याकुलाक्षो बध्रन्मूर्धन्यज्जलिं व्याजहार ॥४१॥
यद्यत्पृष्टं स्पष्टमाचार्यपादैस्तत्तत्सर्व भो भविष्यत्यवश्यम्‍  ।
कारुण्याब्धे: कल्पयुष्मत्कटाक्षैर्दृष्टस्याऽऽहुर्दुर्लभं किंनु जन्तो: ॥४२॥
मूको वाग्मी मन्दधी: पण्डिताग्र्य: पापाचार: पुण्यनिष्ठेषु गण्य: ।
कामासक्त: कीर्तिमान्नि स्पृहाणामार्यापाडालोकत: स्यात्क्षणेन ॥४३॥
लेशं वाऽपि ज्ञातुमीष्टे पुमान्क: सीमातीतस्याद्य युष्मन्महिम्र: ।
तुष्ट्राऽत्यन्तं तत्त्व विद्यो पदेष्टा जात: साक्षाद्यस्य वैयासकि: स: ॥४४॥
आजानात्मज्ञानसिध्दं यमारादौदासीन्याज्जातमात्रं व्रजन्तम्‍ ।
प्रेमावेशात्पुत्र पुत्रेति शोचन्पाराशर्य: पृष्ठतोऽनुप्रपेदे ॥४५॥
यश्चाऽऽहूतो योगभाष्यप्रणेत्ना पित्रा प्राप्त: स प्रपश्चैकभावम्‍ ।
सर्वाहन्ताशीलनाद्योगभूमे: प्रत्याक्रोश प्रातनोव्दक्षरुप: ॥४६॥
तत्तादृक्षज्ञानपाथोधियुष्मत्पादव्दन्व्दं पद्मसौहार्दहॄद्यम्‍ ।
दैवादेतद्दीनदृग्गोचरश्चेद्भक्तस्यैतद्भागधेयं ह्यमेयम्‍ ॥४७॥
इत्याकर्ण्याथाब्रवीद्रौडपादो वत्स श्रुत्वा वास्तवांस्त्वद्रुणौघान्‍ ।
द्रष्टुं शान्तखान्तवन्तं मम तवां गाढोत्कण्ठागर्भितं चित्तमासीत्‍ ॥४८॥
कृतास्त्वया भाष्यमुखा निबन्धा मत्कारिकावारिजनु:सुखार्का ।
श्रुत्वेति गोविन्दमुखात्प्रहृष्य दृगध्वनीनोऽस्मि तवाद्य विव्दन्‍ ॥४९॥
इति स्फुटं प्रोक्तवते विनीत: सोऽश्रावयद्‍भाष्यमशेषमस्मै ।
विशिष्य माण्डूक्यगभाष्ययुग्मं श्रुत्वा प्रहृष्यन्निदमब्रवीत्तम्‍ ॥५०॥
मत्कारिकाभावविबोधितादृडमाण्डूक्यभाष्यश्रवणोत्थहर्ष: ।
दातुं वरं ते विदुषां वराय प्रोत्साहयत्याशु वरं वृणीष्वं ॥५१॥
स प्राह पर्यायशुकर्षिमीक्ष्य भवन्तमद्राक्षमतिष्यपूरुषम्‍ ।
वर: पर: कोऽस्ति तथाऽपि चिन्तनं चित्तत्वगं मेऽस्तु गुरो निरन्तरम्‍ ॥५२॥
तथेति सोऽन्तर्धिमपास्तमोहे गते चिरज्जीविमुनावथासौ ।
वृत्तान्तमेतं स मुदाऽऽश्रवेभ्य: संश्रावयंस्तां क्षणदामनैषीत्‌ ॥५३॥
अथ द्युनद्यामुषसि क्षमीन्द्रो निर्वर्त्य नित्यं बिधित्स शिष्यै: ।
तीरे निदिध्यासनलासओऽभूदत्रान्तरेऽश्रूयत लोकवार्ता ॥५४॥
जम्बूव्दीपं शस्यतेऽस्यां पृथिव्यां तत्राप्येतन्मडलं भारताख्यम्‍ ।
काश्मीराख्यं मण्डलं तत्र शस्तं यत्राऽऽस्तेऽऽसौ शारदा वागधीशा ॥५५॥
व्दारैर्युक्तं माण्डपैस्तचतुर्भिर्देव्या गेहं यत्र सर्ववित्सज्जनानां नान्ये सर्वे यत्प्रवेष्टुं क्षमन्ते ॥५६॥
प्राच्या: प्राच्यां पश्चिमा: पश्चिमायां ये चोदीच्यास्तामुदीचीं प्रपन्ना: ।
सर्वज्ञास्तद्‍व्दारमुध्दाटयन्तो दाक्षा नध्दं नो तदुध्दाटयन्ति ॥५७॥
वार्तामुपश्रुत्य स दाक्षिणात्यो मानं तदीयं परिमातुमिच्छन्‍ ।
काश्मीरदेशाय जगाम हृष्ट: श्रीशकरो व्दारमपावरीतुम‍ ॥५८॥
व्दारं पिनध्दं किल दाक्षिणात्यं न सन्ति विव्दांस इतीह दाक्षा: ।
तां  किंवदन्ती विफलां विधातुं जगाम देवीनिलयाय हृष्यन्‍ ॥५९॥
वादिव्रातगजेन्द्रदुर्मद्‍घटादुर्गर्वसकर्षण
श्रीमच्छकरदेशिकेन्द्रमृगराडायाति सर्वार्थवित्‍ ।
दूरं गच्छत वादिदु:शठगजा: संन्यासदंष्ट्रायुधो
वेदान्तोरुवनाश्रयस्तदपरं व्दैतं वनं भक्षति ॥६०॥
करटतटान्तवान्तमदसौरभसारभर -
स्खलदलिसंभ्रमत्कलभकुम्भविज म्भवल: ।
हरिरिव जम्बुकानमददन्तगजान्कुजना
नपि खलु नाक्षिगोचरयतीह यतिर्हतकान्‍ ॥६१॥
संश्रावयन्नध्वनि देशिकेन्द्र: श्रीदक्षिणव्दारभुवं प्रपेदे ।
कवाटमुध्दाटय निवेष्टुकामं ससंभ्रमं वादिगणो न्यरौत्सीत्‍ ॥६२॥
अयाव्रवीव्दादिगणा: स देशिकं किमर्थमेव बहुसंभ्रमक्रिया ।
यदत्र कार्य तदुदीर्यतां शनैर्न संभ्रम: कर्तुमलं तदीप्सितम्‍ ॥६३॥
य: कश्चदेत्येतु परीक्षितुं चेव्देदाखिलं नाविदितं ममाणु ।
इत्थं भवान्वक्ति समुन्नतीच्छा दत्त्वा परीक्षां व्रज देवतालयम्‍ ॥६४॥
षडभाववादी कणभुडापतस्थ: पप्रच्छ तं स्वीयरहस्यमेकम्‍ ।
संयोगभाज: परमाणुयुग्माज्जातं हि सूक्ष्म व्दयणुकं मतं न : ॥६५॥
यत्स्यादणुत्वं तदुपाश्रितं तज्जायेत कस्माव्दद सर्वविचेत्‍ ।
नो चेत्प्रभुत्वं तव वक्तमेते सर्वज्ञभाषां विहितां ब्रुवन्ति ॥६६॥
या व्दित्वसंख्या परमाणुनिष्ठा सा कारणं तस्य गतस्य मात्रा ।
इतीरिते तव्दचनं प्रपूज्य स्वयं न्यवर्तिष्ट कणादलक्ष्मी: ॥६७॥
तत्रापि नैयायिक आत्तगर्व: कणाढपक्षाचरणाक्षपक्षे ।
मुक्तेर्विशेषं वद सर्वविचेन्नो चेत्प्रतिज्ञां त्यज सर्ववित्त्वे ॥६८॥
अत्यन्तनाशे गुणसडतेर्या स्थितिर्नभोवत्कणभक्षपक्षे ।
मुक्तिस्तदीये चरणाक्षपक्षे साऽऽनन्दसंवित्सहिता विमुक्ति: ॥६९॥
पदार्थभेद: स्फुट एव सिध्दस्तथेश्वर: सर्वजगव्दिधाता ।
स ईशवादीत्युदितेऽभिनन्द्य नैयायिकोऽपि न्यवृतन्निरोधात्‍ ॥७०॥
तं कापिल: प्राह च मूलयोनि: किं वा स्वतन्त्रा चिदधिष्ठिता वा ।
जगन्निदानं  वद सर्ववित्त्वान्नो चेत्ववेशस्तव दुर्लभ: स्यात्‍ ॥७१॥
सा विश्वयोनिर्बहुरुपभागिनी स्वयं स्वतन्त्रा त्रिगुणात्मिका सती ।
इत्येव सिध्दान्तगतिस्तु कापिली वेदान्तपक्षे परतन्त्रता मता ॥७२॥
ततो नदन्तो न्यरुधन्‍ सगर्वा दत्त्वा परीक्षां व्रज धाम देव्या: ।
बौध्दास्तथा संमथिता: पृथविव्यां बाह्यर्थैविज्ञानकशून्यवाढै: ॥७३॥
बाह्यार्थवादो व्दिविधस्तदन्तरं वाच्यं विविक्षुर्यदि देवतालयम्‍ ।
विज्ञानवादस्य च किं विभेदकं भवन्मतादब्रूहि तत: परं व्रज ॥७४॥
सौत्रान्तिको वक्ति हि वेद्यजातं लिडाधिगम्यं त्वितरोऽक्षिगम्यम्‍ ।
तयोस्तयोर्भड्‍गुरताऽविशिष्टा भेद: कियान्वेदनवेद्यभागी ॥७५॥
विज्ञानवादी क्षणिकत्वमेपामडीचकारापि बहुत्वमेप: ।
वेदान्तवादी स्थिरसंविदेकेत्यडीचकारेति महान्विशेष: ॥७६॥
अथाब्रवीद्दिग्वसनानुसारी रहस्यमेकं वद सर्वविचेत‍ ।
यदस्तिकायोत्तरशब्दवाच्यं तत्किं मतेऽस्मिन्वद देशिकाऽऽशु ॥७७॥
तत्राऽऽह देशिकवर: श्रृणु रोचते
चेज्जीवादिपश्चकममीष्टमुदाहरन्ति ।
तच्छब्दवाच्यमिति जैनमतेऽप्रशस्ते
यद्यस्ति बोध्दुमपरं कथयाऽऽशु तन्मे ॥७८॥
दत्तोत्तरे वादिगणे तु बाह्ये बभाण कश्चित्किल जैमिनीय: ।
शब्द: किमात्मा वद जैमिनीये द्रव्यं गुणो वेति ततो व्रज त्वम्‍ ॥७९॥
नित्या वर्णा: सर्वगा: श्रोत्रवेद्या यत्तद्रूपं शब्दजालं च नित्यम्‍ ।
द्रव्यं व्यापीत्यब्रुवज्जैमिनीया इत्येवं तं प्रोक्तवान्देशिकेन्द्र: ॥८०॥
शास्त्रेषु सर्वेष्वपि दत्तवन्तं प्रत्युत्तरं तं समपूजयंस्ते ।
व्दारं समुध्दाटय ददुश्च मार्ग ततो विवेशान्तरभूमिभागम्‍ ॥८१॥
पाणौ सनन्दनमसाववलम्ब्य विद्याभद्रासनं तदवरोढुनाश्चचाल ।
अत्रान्तरे विधिवधूर्विबुधाग्रगण्यामाचार्यशकरमवाचदनडवाचा ॥८२॥
सर्वज्ञता तेऽस्ति पुरैव यस्मात्सर्वत्र पर्यैक्षि भवान्न चेत्ते ।
विरिश्चिरुपान्तरविश्वरुप: शिष्य: कथं स्यात्प्रथिताग्रणी:स : ॥८३॥
सर्वज्ञतैकैव भवेन्न हेतु: पीठाधिरोहे परिशुध्दता च ।
सा तेऽस्ति वा ने ते विचार्यमेतत्तिष्ठ क्षण त्वं कुरु साहसं मा ॥८४॥
त्वं चाडना: समुपभुज्य कलाहम्यप्रावीण्यभाजनमभूर्यतिधर्मनिष्ठ: ।
आरोढुपीदृशपदं कथमर्हता ए सर्वज्ञतेव विमलत्वमपीह हेतु: ॥८५॥
नास्मिञ्शरीरे कृतकिल्बिषोऽहं जन्मप्रभृत्यम्ब न संदिहेऽहम्‍ ।
व्यधायि देहान्तरसंश्रयाद्यन्न तेन लिप्येत हि कर्मणाऽन्य: ॥८६॥
इत्थं निरुत्तरपदां स विधाय देवीं सर्वज्ञपीठमधिरुह्य ननन्द सभ्य: ।
संमानितोऽपभ्रदसौ विबुधेंश्च वाण्या गार्ग्या कहोलमुखरैरिव याज्ञवल्क्य: ॥८७॥
वादप्रादुर्विनोदप्रतिकथनसुधीवाददुर्वारतर्क -
न्यक्कारस्वैरधाटीभरितहरिदुपन्यस्तमाहानुभाव्य: ।
सर्वज्ञो वस्तुमर्हस्त्वमिति बहुमत: स्फारभारत्यमोघ-
श्लाघाजोघुष्यमाणो जयति यतिपते: शारदापीठवास: ॥८८॥
कुत्राप्यासीत्प्रलीनेक्षणचरणकथा कापिली कापि लीना
भग्राऽभग्रा गुरुक्ति: कचिदजनि परं भटटपादप्रवाद: ।
भूमावायोगकाणादजनिमतमथाभूतवाग्भेदवार्ता
दुर्दान्तब्रह्मविद्यागुरुजनिमतमथाभूतवाग्भेदवार्ता
दुर्दान्तब्रह्मविद्यागुरुदुरुदकथादुन्दुभेर्धिन्धिमेत: ॥८९॥
काणाद: क प्रणाद: क च कपिलवच: काक्षिपादप्रवाद: ।
काप्यन्धा योगकथा क गुरुरतिलघु: कापि भाट्टप्रघट्टम्‍ ।
क व्दैताव्दैतवार्ता क्षणणकविवृति: कापि पाष्ण्डषण्ड -
ध्वान्तध्वंसैकभानोजयति यतिपते: शारदपीठवासे ॥९०॥
ततो दिविषदध्वनि त्वरितमध्वराशावली -
धुरन्धरसमीरितत्रिदशपाणिकोणाहन: ।
अरुन्ध्द हरिदन्तरं स्वरभरैर्भ्रमत्सिन्धुभि -
र्घनाघनघनारवमथमबन्धुभिर्दुन्दुभि: ॥९१॥
कचभरवहनं पुलोमजाया: कतिचिदहान्यपगर्भकं यथा स्यात्‍ ।
गुरुशिरसि तथा सुधाशना: स्वस्तरुकुसुमान्यथ हर्षतोऽभ्यवर्षन्‍ ॥९२॥
इति मुनिरतितुष्टोऽध्युष्य सर्वज्ञपीठं
निजमगगुरुतायै ना पुनर्मानहेतो: ।
कतिचन विनिवेश्याथर्ष्यश्रृडाश्रमादौ
मुनिरथ वदरीं स प्राप कैश्चित्स्वशिष्यै: ॥९३॥
दिवमान्विनिनाय तत्र कांश्चित्स च पातज्जलतन्त्ननिष्ठितेभ्य: ।
कृपयापदिशन्स्वसूत्रभाष्यं विजितत्याजितसर्वदर्शनेभ्य:  ॥९४॥
नितरां यतिराडुडुराजकरप्रकरप्रचुरप्रसरस्वयशा: ।
स्वमयं समयं गमयन्रमयन्हृदयं सदयं सुधियां शुशुभे ॥९५॥
एवंप्रक रै: कलिकल्मषघ्रै: शिवावतारस्य शुभैश्चरित्रै: ।
व्दात्रिंशदत्युज्ज्वलकीर्तिराशे: समा व्यतीयु: किल शकरस्य ॥९६॥
भाष्यं भूष्यं सुशीलैरकलि कलिमलध्वंसि कैवल्यमूल्यं
हन्ताहन्ता समन्तात्कुमतिनतिकृता खण्डिता पण्डितानाम्‍ ।
सद्यो विद्यातिताऽसौ विपथविमथनर्मुक्तिपद्याऽनवद्या
श्रेयो भूयो बुधानामधिकतरमित: शकर: किं करोतु ॥९७॥
हन्ताशोभि यशोभरैस्त्रिजगतीमन्दारकुन्देन्दुभा
मुक्ताहारपटीरहीरविहरन्नीहारतारानिभै: ।
कारुण्यामृतनिर्झरै: सुकृतिनां दैन्यानल: शून्यतां
नीत: शकरयोगिना किमधुना सौरभ्यमारभ्यताम्‍ ॥९८॥
आक्रान्तानि दिगन्तराणि यशसा साधीयसा भूयसा
विस्मेराणि दिगन्तराणि रचितान्यत्यद्भुतै: क्रीडितै: ।
भक्ता: स्वेप्सितभुक्तैमुक्तिकलनोपायै: कृतार्थीकृता
भिक्षुक्ष्प्रापतिना किमन्यदधुना सौजन्यमातन्यताम्‍ ॥९९॥
पारिकाक्षीश्वरोऽप्यापदुध्दारकं सेवमानतुलस्वस्तिविस्तारकम्‍ ।
पापदावनलातापसंहारक योगिबृन्दाधिप: प्राप केदारकम्‍ ॥१००॥
तत्रातिशीतार्दितशिष्यसघसंरक्षणायातुलितप्रभाव: ।
तप्तोदकं प्रार्थयते स्म चन्द्रकलाधरात्तीर्थकरप्रधान: ॥१०१
कर्मन्दिबृन्दपतिना गिरिशोऽर्थित: सन्‍ संतप्तवारिलहरीं स्वपदारविन्दात्‍ ।
प्रावर्तयत्प्रथयती यतिनाथकीर्ति याऽद्यापि तत्र समुदश्चति तप्ततोया ॥१०२॥
इति कृतसुरकार्य नेतुमाजग्मुरेनं
रजतशिखरश्रृडं तुडमीशावतारम्‍ ।
विधिशतमखचन्द्रोपेन्द्रवाय्वग्रिपूर्वा:
सुरनिकरवरेण्या: सर्षिसघा: ससिध्दा: ॥१०३॥
विद्युव्दल्लीनियुतसमुदारब्धयुध्दैर्विमानै:
संख्यातीतै: सपदि गगनाभोगमाच्छादयन्त: ।
स्तुत्वा देवं त्रिपुरमथनं ते यतीशानवेषं
मन्दारोत्थै: कुसुमनिचयैरब्रुवन्नर्चयन्त: ॥१०४॥
भवानाद्यो देव: कवलितविष: कामदहन:
पुरारातिर्विश्वप्रभवलयहेतुस्त्रिनयन: ।
यदर्थ गां प्राप्तो भवमथन वृत्तं तदधुना
तदायाहि स्वर्ग सपदि गिरिशास्मत्प्रियकृते ॥१०५॥
उन्मीलव्दिनयप्रधानसुमनोवाक्यावसाने महा
देवे संभृतसंभ्रमे निजपदं गन्तुं मन: कुर्वति ।
शैलादि: प्रमथै: परिष्कृतवपुस्तस्थौ पुरस्तत्क्षणा -
दुक्षा शारदवारिदुग्धवरटाहकारहुकारकृत‍ ॥१०६॥
इन्द्रोपेन्द्रप्रधानैस्त्रिदशपरिवृढै: स्तूयमान: प्रसुनै -
र्दिव्यैरभ्यर्च्यमान: सरसिरुहभुवा दत्तहस्ताबलम्ब: ।
आरुह्योक्षाणमग्र्यं प्रकटितसुजटाजूटचन्द्रावतंस:
श्रृण्वन्नालोकशब्दं समुइदितमृषिभिर्धाम नैजं प्रतस्थे ॥१०७॥
आदित : श्लोका: १८४३.
इति श्रीमाधवीये तच्छारदापीठवासग: ।
संक्षेपशकरजये सर्ग: पूर्णोऽपि षोडश: ॥
इति श्रीमव्दिद्यारण्यविरचित: श्रीमच्छडरदिग्विजय: समाप्त: ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-18T05:31:14.5170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

शिंचा

  • पु. ( संक्षेप ) शिंदळीचा ; एक शिवी ; शिनळ स्त्रीचा मुलगा ( यांतला वाईट अर्थ निघून गेला आहे ). शिंच्यानें ( दक्षणा ) विनाकारण बुडविली . - नमना ४७ . 
RANDOM WORD

Did you know?

आत्म्याची किती आणि कोणती रूपे मानली गेली आहेत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.