अथ राजाभिषेकप्रयोग: ॥

गागाभट्टकृत राजाभिषेकप्रयोग: ।


अथ राजाभिषेकप्रयोग: ॥
यजमान: पुर्वेद्यु: शुभे मुहुर्ते तिथ्यादिकं संकीत्य श्व: करिष्यमाणराजाभिषेकांगत्वेन स्वस्तिवाचनं मातृकापूजनं वसोध्दारापूजनं नांदीश्राध्दं नारायणपूजनं आज्यहोमं करिष्ये इति संकल्प्य । तत्रादौ निर्विघ्रतासिध्दयर्थ गणेशपूजनं आज्यहोमं करिष्ये इति संकल्प्य । तत्रादौ निर्विघ्रतासिध्दयर्थ गणेशापूजनं करिष्ये इति संकल्प्य । गणपतिं संपूज्य । ऋग्युयु:सामपाठकै: ब्राह्मणै: पूर्वोक्तप्रकारेण पुण्याहं वाचयित्वा । नांदीश्राध्दांते शालग्रामे नारायणं शोडषोपचारै: संपूज्य । सुवर्णे पात्रे गोक्षीरपायसं गोघृतशर्करासहितं नैवेद्यं कृत्वा तांबुलदक्षिणां पुष्पांजलिं दत्वा नैवेद्यं शिरसाभिवंद्य गृहीत्वा । तत्पुरत: स्थंडिले स्वशाखोक्तमग्रिं प्रतिष्ठापनं कृत्वा षड्‍पात्रप्रयोगेन आज्यभागांते प्रववेन अष्टोत्तरशतमाज्याहुतिं हुत्वा स्विष्ठकृतादिहोमं शेषं समाप्य नैवेद्यार्थ स्वयं अर्ध चमपी भुजीयातां । ततो मौनीरात्रौ दर्भ संसृतभूमौ ब्रह्मचारिणौ स्वपेतां । तत: प्रात: पुरोहितसांवत्सरिकौ सोष्णीपौ पूर्ववृतऋत्विग्भि:  सह नवकुंडयादिसहिते मंडपे सपत्नीकसमागत्य यजमानेन सहितौ मंगलघोषेण मंडपसभागच्छेतां  ॥ तत: आचार्य: पूर्वऋत्विग्भि: सहमंडपपूजा महाध्वजोच्छ्रयणातां कुर्यात्‍ । ततो महावेद्यां शोडषाक्षरं विलिख्य । तत्र मध्ये सौशतं  छिद्रं संस्थाप्य । पूर्वत: सौवर्णान्‍ दक्षिणत: राजतान्‍ पश्चिमत: ताम्रान्‍ उत्तरतो माहेयान्‍ चतुश्चातुष्कुभान्‍ स्थापयेत्‍ । तन्मध्ये पूर्वत: एको घृतपूर्ण: अन्यश्च मधुपूर्ण: दक्षिणत: एको दुग्धपूर्ण: कार्या: । तांश्च पल्लवाद्युपेतानां धमाल्मार्चितान्‍ वस्त्रवेष्ठितकंठान्‍ कुर्यात्‍ । जलपूर्णेषु तेषु शतौषधय: मूलहेमपंचरत्नपंचधान्यसप्तमृत्तिकावृषश्रृंगगजदंतगोरोचनाउत्पलपद्म- मुरारेणुकुंकुमराजसर्षपमुस्तादेवदारुन्‍ क्षिपेत्‍ । ततो वेद्यां औदुंबरीमासंदी व्याघ्रचर्म औदुंबरं च चमसं दधिमधुघृतकुशोदका आतवृष्टिजलदूर्वायवांकुरपूर्णे औदूंबरीं शाखां हिरण्यं च स्थापयेत्‍ । तत्रैव कुशा: पर्वतो धृतं मृद: स्थाप्या षोडशबिल्वदलानि स्थापयेत्‍ । तत: उत्तरत: अभिषेकशालायां भद्रासनं संस्थाप्य । तदष्टदिक्षुजलपूर्णान्‍ अष्टौ कुंभान्य़्‍ पल्लवोपेतान्‍ गंधमाल्यार्चितान्‍ वासो वेष्टितान्‍ स्थापयेत्‍ । तेषु च समुद्रनदीसरोवरपुण्यकूपगंगायमुनाजलानि यथालाभं क्षिपेत्‍ । गोपथब्राह्मणे तु भद्रासनस्यैव संमतात्‍ सौवर्णादिकलशस्थापनमुक्तं । तत्रैव रत्नोदक सर्वबीजोदक सर्वोषध्युदक गंधोदक पुष्पोदक फलोदक पल्लवोदक कुशोदक कुंभन्‍ यथावकाशं स्थापयेत्‍ । तत्रैव समुद्रोदक यमुनानर्मदातापीचर्मण्वतीपयोष्णीवितस्ता सिंधुउदकपूर्णान्श्‍  कलशान्‍ यथालाभं स्थापयेत्‍ । तत आसादितान्‍ सर्वान्‍ कलशान्‍ ।
अर्थेतस्स्थापां पतिरसि वृषास्यूर्मिर्वृषसेनोसि व्रजाक्षतस्स्य मरुतामोजस्स्थ सूर्यवर्चसस्स्थ सूर्यत्वचसस्स्थ मान्दास्स्थ वाशास्स्थ शक्करीस्स्थ विश्वभृतस्स्थ जनभृतस्स्थाग्रेस्तेजस्या स्स्थापामोषधीना रसस्थापो देवीर्मधुमतीगृहन्नुर्जस्वती राजसूयाय चिताना ॥१॥
[ याभिर्मित्रावरुणावभ्याविञ्चन्‍ याभिरिन्द्रामनयन्नत्यराती: । राष्ट्रदास्थ राष्ट्रं दत्त स्वाहा राष्ट्रदास्थ राष्ट्र्ममुष्मै दत्त ॥२॥
देवीरापस्सं मधुमतीर्मधुमती भिस्सृज्यध्वं महि वर्च: क्षत्रियाय वन्वा ना अनाधृष्टास्सीदतो र्जस्वतीर्महि वर्च: क्षत्रियाय चन्द्राश्चन्द्रेणामृता अमृतेन स्वाहा राजसूयाय चिताना: ॥] ॥३॥
सधमादो द्युम्निनीरुर्ज एता अनिभृष्टा अपस्युवो वसान: । पस्त्यासु चक्रे वरुणस्सधरस्थमपा शिशु: ॥४॥
मातृतमास्वन्त: ।[ क्षत्रस्योत्वमसि क्षत्रस्य योनिरस्याविन्नो अग्रिर्गृहपतिराविन्न इन्द्रो वृधावाविन्ने द्यावापृथिवी ध्रुतव्रते आविन्ना देव्यदितिर्विश्वरुप्या विन्नोऽथमसावामुष्यायणोस्यां विश्यस्मिप्राष्ट्रे महते क्षत्राय महते आधिपत्याय महते जानराज्यायै ष वो भरता राजा सोमोऽस्माकं ब्राह्मणाना राजेंद्रस्य ॥५॥
इत्यमिमंत्रयते । ततो महावेद्युपरि वितानं बध्नीयात्‍ । तत: स्वकुंडे अग्रिं ग्रहांश्च प्रतिष्ठाप्य । परिसमूहनादि आज्यभागांतं कुर्यात्‍ । तत: प्रणीता पात्रसन्निधौ सौवर्णजलपूर्णे पंचपल्लवोद्युपेतं वस्त्रवेष्ठितं कंठं संपातं कलशं कलशस्थापनविधिना स्थापयेत्‍ । ततो यथाविहितं कर्म क्रुरुध्वं उत्कृष्टमंत्रजाप्येन तिष्टध्वमिति प्रेषं दद्यात्‍ । तत: ऋत्विज: स्वस्वकुंडे भूसंस्कारान्‍ कृत्वा आचार्यकुंडाअदभिमानीय स्वस्वकुंडे विधिना स्थापयेयु: ।आज्यभागांत स्वशाखया यजमानशाखाया वा कुर्य: । ततो यजमानेन द्रव्यात्यागे कृते सति सर्वप्रधानहोमं कुर्यु: । तत्रादौ गायत्रीमंत्रेण औदुंबरसमिध आज्यं चाष्टोत्तरशतं जुहुयु: । ततो अष्टाविंशतिसंख्यया ग्रहान्‍  अष्टाष्टसंख्यया अधिदेवातादि वास्तोस्पस्यंतान्‍ उदुंबरसमित्तिलाज्यैर्हुत्वा वैष्णवै: शाक्तै: सूर्यदेवताकै: विश्वेदेवादैवतै: मंत्राश्च ।अतो देवा इति इति षट्‍ । विष्णोर्नु कमिति षट्‍ । परो मात्रयेति सूक्तं । इन्द्र जुषस्षेति षट्‍ । जनिष्ठा उग्र: सहसे तुरायेति सूक्त । इंद्रस्य नु वीर्याणी प्र वोचामिति सूक्तं । पिबा सोममभि यमुग्र तर्द इति तिस्र: । आशु शिशान: इति सुक्तं । विदा मघवन विदेति तिस्र: । यत इन्द्र भयामहे इति पंच । इत्यैडय: उदुत्यं
इति मंत्रेण त्रयोदशद: । चित्रं देवानामिति चतस्र । यदद्य सूर्येत्येका । उत्‍ सूर्य इति तिस्र: । उद्वेतीति चतस्र: । नमो मित्रस्येति व्दादश । सविता पश्चातादित्येका । इति सावित्रा: ॥ आ नो भद्रा इति सूक्तं । ये देवासो दिव्येकेति ॠक्‍ १। ये के च ज्मेति ऋक्‍ १। विश्वे देवा: शृणुतेमं हवामिति तिस्र: । देवान्‍ हुवेति पंच । नमो  महद्भय: । इत्येका । इति वैश्वदेव्य: ॥ त्वं सोम प्र चिकितो मनीषेति सूक्तं । स्वादिष्ठयेति दश । इति सौम्य : ॥
आज्याहुतीसमये आचार्यकुंडे अग्रिज्वालाया निमित्तं परीक्षते । दक्षिणावर्तिधूमाना छिन्ना उर्ध्वगा सूर्यप्रभा शुभावहा । तत: आशु: शिशान: इति सुक्तं । शर्मवर्मगणं स्वस्त्ययनगणं आयुष्यगणं अभयगणं अपराजितगणं च जुहुयात्‍ । ततो जयानभ्यागतान्‍ राष्ट्रभृतो जुहुयु: । ततो होमसमये जापका:  जपं कुर्यु: । व्दारपाश्च व्दारजपं कुर्यु: । तत्र पूर्वत: ।
रात्रिसूक्त च रौद्रं चं पावमान सुमंगलम्‍ ।
जपेयु: पोरुष सूक्तं पूर्वतो बहर्चै पृथक्‍ ॥२१७॥
रात्री व्यख्यदायती इति [रात्री] सूक्तं । इमा रुद्राय० कद्‍ रुद्राय इति पितरि इमा रुदाय स्थिरधन्वने गिर: इति रौद्रं । स्वादिष्ठया मदिष्ठया कनिक्रदज्जनुषमिति शाक्तं सूक्तं सहस्रशीर्षेति १६ दक्षिणे ।
शाक्तं रौद्रं च सौम्यं च कौष्मांडं जातवेदसं ।
सौरसूक्तं जपेरंस्ते दक्षिणेन यजुर्विद: ॥२१८॥
आशु शिशान: इन्द्रो नो विश्वत: इत्यनुवाक: । इमा रुद्राय स्थिरधन्वन: ६। सोमो धेनुं ६। यद्देवा देवहेडन ४ । यस्त्वा हृदेत्यनुवाक: । सूर्यो देवीति षट्‍ ऋचा: । पश्चिते ।
शौशवं पंच निधनं गायत्रं ज्येष्ठ साम च ।
वामदेव्यं बृहत्सौम्वरौरवं सरथंतरम्‍ ॥२१९॥
गवां व्रतं विकीर्ण च रक्षोदनं यशस्तथा ।
गायेयु: साभगा राजन्‍ पश्चिमव्दारमाश्रिता ॥२२०॥
वैराज्य पौरुषं सूक्तं सौपर्ण रुद्रसंहितां ॥२२१॥
पिबा सोममिन्द्र मन्दतु त्वा सहस्रशीर्षेति साम सुपर्णोपाख्यानं रुद्रसंहिता । रहस्यबीजं । कया नश्चित्र आ तत्सवितुरस्रगीतं । मूर्धानं दिव: । त्वामिध्दि हवामहे । सं ते पयांसि । पुनान: सोम । अभि त्वा शूर नोनुमो । ते मन्वत प्रथमं । अग्रिमीळे । विभ्राड्‍ बृहत्‍ । अग्रे रक्षा णो । अग्रे युक्ष्वा हि । बुहदिन्द्रायेति गीतानि ।उत्तरे ।
आथर्वणश्चोत्तरत: शातिकं पौष्टिकं तथा ।
जपेयुर्मनसा देवमाश्रित्य वरणं प्रभुम्‍ ॥२२२॥
शांतिकपौष्टिकानि शं न इन्द्राग्रीत्यादीनि एता होमकाले जप्यानि इति केचित्‍ अथ व्दारपालजप्यानि । प्रैषानंतरं ।
श्रीसूक्तं पावमानं च सोमसूक्तं सुमंगलम्‍ ।
शान्त्याध्यायं चेन्द्रसूक्तं रक्षत्वं चेति बहृचौ ॥२२३॥
हिरण्यवर्णा । स्वादिष्ठया । त्वं सोमं प्र चिकित: । कनिक्रदजनुषं । शं न इन्द्राग्री । यो जात एव प्रथमो । कृणुष्व पाज: ।
दक्षिणे तु व्दारपालौ रुद्रात्पुरुषसूक्तकम्‍ ।
श्लोकाध्यायं शुक्रियं च मंगलाध्यायमेव च ॥२२४॥
नमस्ते रुद्रेत्यादि । सहस्रशीर्षेति । देव सवित: प्रसुव यक्षमिति । मंडलं ब्राह्मणं वा पश्चिमे ।
वामदेव्यं बृहत्साम ज्येष्टसाम रथंतरम्‍ ।
तथा पुरुषसूक्तं च रुद्रसूक्तं अत: परम्‍ ॥२२५॥
आज्यदोहानि सामानि शांतिकाध्यायमेव च ।
भारुंडानि च सामानि पश्चिमे सामवेदिनौ ॥२२६॥
कयान: ।त्वमिध्दि । मूर्धानं । अभि त्वा शूर । सहस्रशीर्षा: । आ वो राजनमिति वर्गव्दयं वर्गव्दयं । देवव्रतानित्याज्य दोहं । अबोध्यग्रिरिति शांतिकाध्यायम्‍ । इमं स्तोममित्यादि भारुंडानि । उत्तरे ।
अथर्वाडिरसं नीलरुद्रं चैवापराजितम्‍ ।
देवीं च मधुसूक्तं च रोधसं शांतिकं तथा ॥२२७॥
आथर्वणौ व्दारपालौ पठतामुत्तरे स्थितौ ॥२२८॥
छंदोगा यद्‍ गायेत्याथर्वणं । अंगिसे जन्मनेत्यागिरसं । आरयत्रेति परिवसनि त्याद्यपराजिता देवी । मधुवाता भयं द्यावापृथिवीति । रोधसं । शं न : इन्द्राग्रीति । ततो जयादि हुत्वा स्विष्टकृतादि बलिदानान्ते आचार्यो यजमानसहित: सर्वेषु कुंडेषु समुद्रादूर्मि इत्यादिभि: पूर्णाहुतिं हुत्वा यजमानाभिषेकं कुर्यात्‍ । यथामभिषेकशालायां सुगंधितैलेन सुगंधिचूर्णेन यजमानमुध्दर्तयेत्‍ । तदा सामग: हावांजेति साम गायेत्‍ । तत उष्णोदकेन स्नापयित्वा शुकवस्त्रगंधमाल्यं पीठे उपविश्य मृध्दी: संस्कुर्यात्‍ । यथा वक्ष्यमाणा मृदोगायत्र्या संप्रोक्ष्यामि मंत्र्यमृद्भि: संस्कुर्यात्‍ । पर्वताग्रमृदं सहस्रशीर्षेति मूर्धानं । अक्षिभ्यां ते नासिकाभ्यां इति वल्मिकमृदं कर्णयो: । चन्द्रमा मनसो इति शिवालयमृदं मुखे । ग्रीवाभ्यस्त उष्णिहाभ्य: इति इन्द्रालयमृद ग्रीवायां । आंत्रेभ्यस्ते इति नृपाजिनमृदं हृदये । त्वमिन्द्र सजोषसं इति करिदंतोधृतमृदं दक्षिणबाहौ । त्वमिन्द्र सजोषसमिति करिदंतोधृतमृदं वामबाहौ । बहिनां पितेति सर्पोमृदं पृष्ठे । इमानि त्रीणि विष्टपेति संगममृदं दंडक्षोय: कुक्षि: । सामे पात इति नदीवृषश्रुंगकुलमृदं पार्श्वे । आपांतमन्युस्तृपल प्रभर्मेति वैश्यागारमृदं कटयां । ऊरुभ्यां ते अष्टीवद्‍भ्यामिति गजस्थानमृदं भ्रुर्वो । ऊरुभ्यामित्यावृत्य गोस्थानमृदं जानुनो जंघाभ्यां पद्‍भ्यां । धर्मोऽस्मि विशिराजा प्रतिष्ठित: इति मंत्रेण अश्वस्थानमृदं जंघयो । एतावानस्य महिमेति रथचक्रोधृतमृदं पादयो: । ततो अंगादंगादिति गंगामृदं सर्वोगे । ततो गायत्र्या गोमुत्रं । गंधव्दारेति गोमयं । आ प्यायस्वेति क्षीरं । दधि काण्वो इति दधि । तेतोऽसि शुक्रमसि इति घृतं । सेवस्त्येति कुशोदकं । तत: स्नात: । शुकवस्त्रगंधानुलेपनं सोध्मीषं अलंकृते मंग्लघोषेण मंडपमानयेत्‍ । ततो वेद्युपरि आसंदीमासादयेति । तस्या अन्तर्वेदिव्दौपादौ भवतो बहिर्वेदिव्दौपादौ तां व्याघ्रचर्मणा सृणाति । यजमान: पश्चात व्दाभ्यां जानुभ्यां आरोहति ।
अग्रि ष्टा गायत्र्या संयुक्‍ छंदसा रोहतु सवितोध्मिहा सोभोनुभा बृहस्पतिर्बृहत्या मित्रावरुणौ पंचर्येदस्त्रिष्टुभा विश्वेदेवा जगत्यानह मनुराज्याय साम्राज्याय भौज्याय स्वाराज्याय वैराज्याय पारमेष्ठयाय राज्याय महाराज्याय अधिपत्याय स्वावश्यायातिष्ठाय आरोहामि ॥
इति दक्षिणजानुना आक्रम्य वा मेनाक्रमेत । ततो ।
निषसाद धृतव्रतो वरुण: पस्त्यास्त्रा । साम्राज्याय भौज्याज [ स्वाराज्याय वैराज्याय पारमेष्ठयाय राज्याय महाराज्यायाधिपत्याय स्वावश्याया] तिष्ठाय सुक्रतु ।
इति साम गायेत्‍ । ततो राजा प्रार्थयेत्‍ ।
प्राच्यां मामभिषिंचंतु वसवस्तेजसे श्रिये ।
याम्यायामभिषिंचंतु  मां रुद्रा विजयाय च ॥२२९॥
आदित्या अभिषिंचंतु प्रतीच्यां दिशि वृध्दये ।
विश्वेदेवास्तथोदीच्यामभिषिंचंतु पुष्टये ॥२३०॥
दिगीशस्त्वभिषिंचंतु मां सदा विजयाय च ॥२३१॥
तत:  पुरोहितौ औदुबरचमसं पूर्वस्थापितं निनाय औदुंबर्या सपलाशया आर्द्रया शाखया हिरण्ययान्तहितया प्राच्यं प्रत्यड्‍मुखौ सांवत्सरपुरोहितौ अभिषिंचेताम्‍ । ऊँ इमा आप: शिवतमा इति त्र्यचेन देवस्य चेति यजुषाव्याहृतिभिश्च पुनर्दक्षिणे उदव्मुखौ । ततोऽभिषिक्तौ यजमान: औदुंबरीशाखां भूमौ उदगम्रां निधाय  । तत्र पादौ स्थापयेत्‍ ।
प्रतितिष्ठामि द्यावापृथिव्यो: प्रतितिष्ठामि प्राणापानयो: प्रतितिष्ठाम्यहोरात्रयो: प्रतिष्ठाम्यन्नपांनयो: प्रतिब्रह्मन्प्रतिक्षेत्रे प्रत्येषु त्रिषु लोकेषु तिष्ठामि ।
इति तत: आचार्य: कांस्यपांत्रे चतुर्गृहितं गोदुग्धं कृत्वा स्वादिष्ठयामादिष्टयेति कृत्वा यजमानाय तेषु प्रयच्छति । यजमान : तत्कांस्यं पात्रमादाय भूमौ संस्थाप्य
नाना हि वां देवहितं सदस्कृतं मा संसृक्षाथां परमे व्योमनि । सुरात्वमसि शुष्मिणी सोम एष राजा मैन हिंसिष्टं स्वां योनिमाविशन्तौ ।
इति अनुमंत्रयेत्‍ । ततो ।
यदत्र शिष्टं तसिन : सुतस्य यदिन्द्रो अभिवच्छत्वीभि: इदं  तदस्य मनसा शिवेन सोमं राजानमिह भक्षयामि ।
इति त्स्वज्यं पीत्वा बध्ना यवाऋभित्वा वृषभासुत इति जपेत्‍ । तत: आसंदीत उत्तीर्य अग्रिसमीपे प्राड्‍मुखासीनो ।
नमो ब्रह्मणे नमो ब्रह्मणे नमो ब्रह्मणे ।
इत्युक्त्वा आचार्याय वोरुपवनं ।
ददामि जित्या अभिजित्यै विजित्यै संजित्या ।
इति वांच विसृजेत्‍ ।
समिदसि सम्वेड्‍क्ष्वेन्द्रियेण  वीर्येण स्वाहा ।
इत्यग्रौ ।
समिधमाधाय ततस्त्रीणी पदानि ईशानाभिमुख: उत्क्रामत्ति  । कप्तिरसि दिशां मयि देवेभ्य कल्पत । कल्पतां मे योगक्षेमोऽभयं मेऽस्तु ।
इति ईशानदिशमुपस्थाय पुरोहितादिसहितं सूर्यादिमंगलघोषेण अभिषेकशालायां आगत्य सिंहासने उपविश्य । ततो ब्राह्मणामात्य: वेद्यां पूर्वदिगवस्थितं घृतपूर्णहेमकुंभं अभिषेकशालायां समंगलघोषं नीत्वा ।
सविता त्वा प्रसवानां सुवतामग्रि गृहपतीनां सोमो वनस्पतीनां रुद्र: पशूनां बृहस्पतीवाचां इन्द्रो ज्येष्टानां मित्र सत्यानां वरुणो धर्मपतीनां ये देवा देवसुवस्थत इमाममुष्यायणमनमित्राय सुवध्वं ॥
महते क्षत्राय आधिपत्याय महते जानराज्यायै ष वो भरता राजा सोमो‍ऽस्माकं ब्राह्मणानां राजा ॥
इति यजमान हस्ते गृहीत्वा तेन तूघ्रीमभिषिंचेत्‍ । एवं क्षत्रियामात्यो दक्षिणदिशा मवस्थित क्षीरपूर्णरजतकुभेन वैश्यमात्य पश्चिमदिगवस्थित दधिपूर्णताम्रकुंग्भेन शूद्रामात्य उत्तरदिगवस्थित जलपूर्णमृन्मयकुभेन । ततो छंदोग: पूर्वदिगवस्थित: सर्वकलशै : अभिषिंचेयु: । तत: आचार्या: संस्रवकलशैकदेशमादाय । तेन वक्ष्यमाणमंत्रैरभिषिंचेत्‍ । देवस्यत्वेग्रिमंत्रेण ।
इमं देवा असपत्न सुवध्यं महते क्षत्राय महते ज्येष्टाय महते राजातराजस्योंद्रियाय इमममुष्यपुत्रममुष्यै पुत्रमस्यै विश एष वोमी राजा सोमो अस्मांक ब्राह्मणानां राजा अन्न सर्व नामस्थाने राजनाम तप्तितृनाम तन्मातृनाम गृहीयात्‍ ॥
तत: सामगो अभ्रातृव्य साम्नाजीवंतीनां  गवां शृंगकौशेस्त्रिभि: ततो वृषशृंगोदकेन एक वृष साम्नाभिषिंचेयु: । तत: रत्नोदक- सर्वबीजोदक-सर्वोषध्युदक -गंगोदक-पुष्पोदक- फलोदक -पंचपल्लवोदक- कुशोककुंभेन अभिषिंच्य । समुद्रोदक यमुनोदक- नर्मदोदक- ताप्युदक- चर्मण्वत्युदक- पयोद्‍भ्युदक-वितस्तोदक- सिंधूदकै: यथालब्धैरभिषिंचेयु: । सुरास्त्वेति मंत्रै: कुशोदकेनाभिषिंचेयु: । ततौ‍ऽष्टौ कुमार्य: अष्टौ पतिपुत्रवत्यकृतमंगला गंधोदकेन तं नीराज्य सर्व गंधैरभिषिंचेयु: । एक: क्षत्रिय: शंखोदकेन । तत: सर्वे जयध्वनिं  पठेयु: । बंदिनश्च स्तुतिं कुर्य: । गायक गानं कुर्यु: । भेरीवीणाकाहलाडमरुमडिडिमझर्झरादिवाद्यानि वादयेयु: । ततो दैवज्ञ पुरोहितऋत्विज : सुरास्त्वेत्यादि आशी मंत्रै: अभिषिंचेयु: तत: स्नात्वा दर्पणे विलीनघृतपूर्णकां -स्यपात्रे च स्वमुखं दृष्टा तत्पात्रं दर्पणसहितं सदक्षिणां ब्राह्मणाय दद्यात् । ततो ब्राह्मणामात्याभिषेके हिरण्यगोसहस्र क्षेत्राश्वयामाद्यपरिमितं दद्यात्‍ ।तत: सोद्‍भीषो वस्त्रालंकारसहितो मंडपसमीपमागत्य । रथसमीपं साचार्यो गच्छेत्‍ । इन्द्रस्य वज्रोसि वांर्त्रघ्र धर्मे सविषत्‍ इति रथमुपावृत्य ।
अप्सु । अन्तर [मृतमप्सु भेषजमपामुत प्रशस्ति] ष्वश्वा भवथ वाजिन: ।
इत्यश्वानृभापयति प्रत्यश्वं प्रत्यश्चं प्रमंत्र: ।
अपां नपादाशुहेमन्‍ [ य ऊर्मि: कुकुद्मान्प्रतूर्तिर्वाजसातम] स्ते नायं वाजँसत्‍ ॥
इति ललाटे भोधयति प्रत्यश्वं मंत्र: ।
वायुर्वा त्वा [ मनुर्वा त्वा गंधर्वास्सप्तविंशति: । ते अग्रे अश्वमायुज्जते अस्मिन्‍ ] जवमादधु: ।
इति रथं युनक्ति: नैवरिचरौसीर्परानीय राजपुत्रस्य निकटे स्थापयति तं राजपुत्रो गोपायति । तत्रैव दुंदुभीन्य़्‍ स्थापयति ।
विष्णो: क्रमोसि विष्णो: क्रान्तमसि विष्णोर्विक्रान्तमसि ।
इति यजमानो रथमभ्येति ।
अंडौ न्यडावभितो रथं यौ ध्वान्तं [ वाताग्रमनु सञ्चरन्तौ दूरहेति- रिन्द्रियावान्पतत्री ते नोग्रय: पप्रय: ] पारयन्तु ।
इति रथचक्रे अभिभृषति प्रतिचक्रं मंत्र: ।
इन्द्राय वाचं वदतेन्द्रं वाजं जापतेन्द्रो वाजमजयित्‍ ।
दुंदुभीन्‍ वादयत्‍ ।
केतुं कृण्वन्नकेतवे[ पेशो मर्या अपेशसे] समुषद्भिरजायथा: ।
इति ध्वजं प्रतिमुंचति ।
प्रजापते: शरणमसि ब्रह्मणच्छदिर्विश्वजनस्य छायामि सर्वतो मां पाहि ।
इति रथोपरि छत्रं स्थापयति । वनस्पते वीडंगो हि भूया इति । रथोपस्थमभिभृशति । आशु: शिशानो इति सूक्तं । सुपर्णे वस्ते इति। जयति । अथ यजमानो रथमारोहति । व्दादशाधिकावानसृतोऽश्वान्‍ ।
वाजिनो वाजजितो वाजँ सरिष्यन्तो वाजं जेष्यन्तो बृहस्पतेर्भाग मवजघ्रत ।
त्रवारं चरुमश्वान्‍ ध्रापयति ।
वाजिनो वाजजितो वाजँ ससृवाँसो वाजं जिगिवाँसो बृहस्पते र्भागे नि मृढ [भियं वस्सा सत्या सन्धाऽभूद्यामिन्द्रेण समधध्वमजीजिपत वनस्पतय इन्द्रं वाजं विमुच्यध्वम्‍ ।
इति मुखलेपान्निमिष्ट ।
अश्वाजनि [ वाजिनि] वाजेषु वाजिनीवत्यश्वान्थ्समत्सु याजय ।
अश्वान्मार्जयति आचार्योऽधिरुह्य ।
अर्वाऽसि सप्तिरसि वाज्यसि ।
कशया अश्वान्‍ ताडयति ।
वाजिनो वाजं धावत मरुतां प्रसवे जयत वि योजना मिमिध्वम ध्वनस्स्काभ्रीत ।
काष्टां गच्छ्त वाजेवाजेऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञा: । अस्य मध्व: पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानै: ।
ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिन: । मितद्र वस्सहस्त्रसा मेघसाता सनिष्यव: । महो ये रत्नँ समिधेषु जभ्रिरे शं नो भवन्तु वाजिनो हवेषु ।
इति धावतो अश्वान्‍ अभिमंत्रयेत्‍ पश्चादश्वाननुधावन्ति ।
अग्रिरेकाक्षरेण प्राणमुदजयत्‍ तमुज्जेषमश्विनौ व्दक्षरेण व्दिपदो मनुष्यानुदजयतां तानुज्जेषं विष्णुस्त्र्यक्षरेण त्रींल्लोकनुदजयत्तानुज्जेषं सोमश्चतुरक्षरेण चतुष्पद: पशूनुदजयत्तानुज्जेषम्‍ ।
पूषा पञ्चाक्षरेण पञ्च दिशऽउदजयत्ताऽउज्जेषं सविता सविता षडक्षरेण षड्रतुनुदजयत्तानुञ्जेषं मरुत: सप्ताक्षरेण सप्त ग्राम्यान्‍ पशुनुदजँय स्तानुञ्जेषं बृहस्पतिरष्टाक्षरेण गायत्रीमुदजयत्तामुञ्जेषम्‍ ।
मित्रो नवाक्षरेण त्रिवृतँ स्तोममुदजयते तमुज्जषं वरुणो दशाक्षरेण विराजमुदजयत्तामुञ्जेषमिन्द्रऽ एकादशाक्षरेण त्रिष्टुभमुदजयत्ता मुज्जेषं विश्वे देवा व्दादशाक्षरेण जगतीमुदजयँस्तामुज्जेषम्‍ ।
वसवस्त्रयोदशाक्षरेण त्रयोदशं स्तोममुदजयँस्तमुज्जेषं रुद्राश्चतु र्दशाक्षरेण चतुर्दशं स्तोममुदजयँस्तमुज्जषमादित्या: षोडशाक्षरेण षोडषं स्तोममुदजयँस्तमुज्जेषं प्रजापति: समदशाक्षरेण सप्तदशं स्तोममुदजयत्तामुज्जेषम्‍ ॥
इति धावन्‍ च स्वक्ष्वेषु जयति पुरतो गत्वा ।
इन्द्रस्य वज्रोऽसि वांर्त्रघ्र:
इति धनुरादाय ।
[त्वयायं वृत्रं वध्यात्‍] शत्रुबाधनास्थ पात मा प्रत्यञ्चं पात मा तिर्यञ्चमन्वञ्चं मा पात दिग्भ्यो मा पात विश्वाभ्यो मा नाष्ट्राभ्य: पात हिरण्यवर्णावुषंसां विरोके [ऽयंस्स्थूणावूदितौ सूर्यस्या रोहतं वरुण मित्र गर्ते ततश्चक्षाथामदितिं दितिं च ।
इति बाहू प्रवलोक्य अवसृष्टापरा पतशव्ये ब्रह्मसंशितेति इषुन्प्रत्यस्य एवं मंडपदक्षिणत: पश्चादुत्तरत: ततो पराजितायां दिशं गत्वा वैल्वं लक्ष्यं सप्तदशभिरिपुभि: प्रतिविध्यति ।
अप प्राच इन्द्र विश्वाँ अमित्रानपापाचो अभिभूते नुदस्व ।
आपोदीचो अप शूराधराच उरौ यथा तव शर्मन्‍ मदेम ।
शतेरथं पर्यावर्तयति ।
मितद्रवस्सहस्रसा मेधसाता सनिष्यव: ।महो ये रत्नँ समिधेषु जभ्रिरे शं नो भवतु वाजिनो हवेषु । देवताता मितद्रवस्स्वर्का: । [जम्भयन्तोऽहिं वृकँ रक्षाँसि सनेभ्यस्मद्युयवन्न] ।
अमीवा: ।एष स्य वाजी [ क्षिपणिं तुरण्यति ग्रीवायां बध्दो अपिकक्ष आसनि । क्रतुं दधिका अनु सन्तवीत्वत्पथामडाँस्यन्वापनी फणत।] उत स्मास्य द्रवतस्तुरण्यत: [पर्ण न वेरनु वाति प्रगर्धिन: । श्येअनस्येव ध्रजतां अडसं परि दधिक्रावण्ण] स्सह्यर्जा तरित्रत: ॥
इति अश्वानमिमंत्र्या: ।
आ मा वाजस प्रसवो [जगम्यादा द्यावापृथिवी विश्वशम्भू । आ मा गन्ता पितरां । मातरा चा मा सोमो अमृतत्वाय] गम्यात्‍ ।
स्वाहेति आज्यं हुत्वा द्यावापृथिवीभ्यामिदमिति रथस्य एव त्यागं करोति ।
वाजिनो वाजजितो [ वाजँ सरिष्यन्तो वाजं जेष्यन्तो बृहस्पते] र्भागमवजिघ्रत ।
अनैकरिचरुं अश्वान्‍ घ्रापयति ।
वाजिनो वाजजितो ।[ वाजं ससृवाँसो वाजं जिगिवाँसो बृहस्पतेर्भागे नि मृढम्‍ ।
इति मुखलेपो निमाष्टि ।
इयं वस्सा सत्या सन्धाऽभूद्यामिन्द्रेण [ समधध्वमजीजिपत वनस्पतय] इन्द्रं वाजं विमुच्यध्वम्‍ ।
स्वाहेति दुंदुभिविमोचनीयम जुहोति । अप प्राच इन्द्र विश्वाँ अमित्रा इति परावृत्य मंडपदक्षिणे उपविशति । तत: आचार्यो तिस्रोज्ज्यानीति ।
शतायुधाया दुरितानि विश्वा स्वाहा इन्द्रायेदं ।
ये चत्वार:
सर्वे स्वाहा देवेभ्य इदं ग्रीष्मो हेमन्तमभयेश्याम स्वाहा क्रतुभ्य इदं ।
तत: कांस्यपात्रे चतुर्गृहीतं कृत्वा ।
पर्यु षु प्र धन्व वाजसातये परि वृत्राणि ।
भू ब्रह्मणा प्राणममृतं प्रपद्ये यमसौ शर्मवर्माभयं स्वस्तये सह प्रजया सह पशुभि: ।
सक्षणि: । व्दिषस्तरध्या ऋणया न ईयसे । स्वाहा इन्द्रायेदं ।
अन्यश्चतुर्गृहीतं कृत्वा
अनु हि त्वा सुतं सोम मदायसि महे समर्थ
ब्रह्मणा प्राणममृतं पशुभि: ।
राज्ये । वाजाँ अभि पवमान प्र गाहसे । स्वाहा इन्द्रायेदं  ।
अजीजनो हि पवमान सूर्ये विधारे शक्‍
ब्रह्मप्राणाममृतं पशुभि: ।
मना पय:  । गोजीरया रंहमाण: पुरंध्या । स्वाहा इंद्रायेदं ।
ततो वेद्यामुपवेश्य यजमान: षोडशोऽष्टौ चतुरो वा अक्षान्‍ गृहीत्वा प्रावेपा मा बृहतो मादयन्ति इत्यक्षसूक्तेन पष्टौ हीपणं कृत्वा क्षत्रियेण सह क्रीडायां जयमाभाषयेत्‍ । तत: सुवर्णासने उपविष्टेन सौनक्षेत्रमाख्यायर्व्दतस्वयं तच्छ्रणुयात्‍ । सुपर्णा- सनोपविष्टोऽन्यऋत्विक्‍ आमिति ऋक्षु एवं तथेति गाथायां प्रतिगरं दद्यात्‍ । ततो मंगलघोषेण शयनीयं गच्छेत्‍ । सांवत्सरपुरोहितौ गत्वा शतं सुवर्णासनं [आरच्य त्रिसहस्रं गवां सुवर्णासनं श्वेतमश्चं दद्यात्‍ । प्रतिगरित्रे गवां शतं सुवर्णासनं च दद्यात्‍ ।] छदै राजाननुपवेश्य साम्राज्यामिति मंत्रेण तं मधुपर्केणाचार्यया तां राजा च तावर्चयेत्‍ । तत: सभामंडपस्थापितसिंहासने वृषमार्जरव्दिपिसिंहव्याघ्र- चर्मस्तुते मंगलघोषेण उपविश्य अस्य सिरसि स्वस्ति नो मिमीत्येति पट्टं बध्नीयात्‍ । तत: तत्र प्रतिहारोऽमात्यान्‍ पौरान्‍ नैगमान्‍ पंडितान्‍ वणिजोऽन्यांश्च लोकान्‍ प्रदर्शयेत्‍ । तत: सांवत्सरपुरोहितौ प्रेषं कुर्यातां अभिषिक्तोयं क्षत्रियी अमुकवर्मा अमुकवर्मण :  पुत्रो अमुकवर्मण: पौत्रो अमुकवर्मणो नप्ता अमुकदायापुत्रो अमुकदायापौत्रो अमुकदायां नप्ता इत आख्यते सहंस्र गवां सुवर्णासनं च दद्यात्‍ । अष्टांगुलायतनं चतुरंग्गबलविस्तृतं गजसिंहांकितं भाषया कलाकेतिनामकं नष्टा शनैरुचै: रथसूचै तं प्रेषं सर्वे श्रुणुयु: । ततो अमात्या: प्रजा प्रणामपूर्वकं उपायनं दद्युरिति । ततो राजा सांवत्सरपुरोहितसदस्यानग्रहारतुरगवस्त्रगोजाविगृह दानैरर्चयेत्‍ । ततो ब्राह्मणान्‍ सदस्यान्‍ गंधादिभिरम्यर्च्य गोरजततिलवस्त्रान्नसुवर्ण फलगोरसोदकदिदानैस्तोषयेत्‍ । महादानानि च दद्यात्‍ । अमात्येभ्य: प्रसादं कृत्वा वस्त्राणि च दद्यात्‍ ।
इन्द्रस्य । इन्द्रस्य वज्रोऽसि वार्त्रघ्रस्त्वयायं वृत्रं वध्याच्छत्रु- बाधनास्स्थ पात मा प्रत्यश्चं पात मा तिर्यश्चमन्वश्चं मा पात दिग्भ्यो मा पात विश्वाभ्यो मा नाष्ट्राभ्य: पात हिरण्यवर्णावुषसां विरोकेऽयस्स्थूणावुदितौ सूर्यस्या रोहतं वरुण मित्र गर्त ततश्चक्षाथामदितिं च।
शरानादाय सशरं धनु कृत्वा मंडपं प्रदक्षिणी कृत्य गुरुं नत्वा श्वेतं वस्त्रं गांच सवत्सां संपूज्य पृष्टे आलभ्यं अश्वसमीपं गत्वा अश्व संपूज्य ।
जयाश्व त्वं मया राज्ञा तुरंगाश्च प्रतिष्ठित: ।
स्मराद्य लक्षणा त्वत्र त्वं गंधर्व: तथा स्मर: ॥२३२॥
यथा नृणाश्चयं राजा तथा त्वं  भव वाजिनाम्‍ ।
सर्वावस्थागतं हयं तुरगो सर्वाव्रक्षतु [त्वयि] ॥२३३॥
भारोयमर्पत: ।
रक्षतु त्वामहेन्द्रस्तु पूर्वेण त्रिदशाधिप ।
उदग्रैश्च गणोदेव: सत्वं रक्षतु सर्वत: ॥२३४॥
इति मंत्रेण अश्वस्य कर्णे पुरोहितौ जपेत्‍ । ततस्तमश्चं राजा क्षणमारुह्य । अथाश्व: स्वारोहणयोग्यमलंकृतं गजं प्रति गच्छेत्‍ । ततस्तं संपूज्य ।
श्रीगज त्वं व्रतो राजा भव तस्य गजाग्रणी ।
गंधमाल्यान्न भक्ष्यैस्त्वां पूजयिष्यति पार्थिव: ॥२३५॥
लोक: सदा भयां पूजा करिष्यति यथा तव ।
पालनाय त्वया राजा युध्दे विष्णुगृहे तथा ॥२३६॥
इति मंत्रेण पुरोहितेन पूजितं पुष्पांजलिना स्वयं संपूज्य तमारुह्य नगरं प्रदक्षिणीकृत्य तहूत देवालयेषु गत्वा तान्देवान्‍ सपूज्य । स्वप्रसादगृहं गत्वा यथाशक्तिब्राह्मणभोजनं समाप्य दीनानाथनटनर्तकादिभ्यो भूयसी दक्षिणां संकल्प मंडपादिसामग्रीं आचार्याय संकल्प्य । सुवर्णादिककलशान्‍ तेभ्यो अमातेभ्य: संकल्प । कमेश्वरार्पणं कृत्वा सहृद्युतो भूंजीत ।
[शार्दूलविक्रिडित ]
विश्वामित्रकुलश्वज: समभवद्यो भट्टनारायण: ।
तव्दंशत्य करीरतां दधदयं विश्वेश्वराख्य: कवि: ॥
गागाभट्ट प्रथादिनकरात्प्राप्त: पितुर्लालनात्‍ ।
तस्येयं क्षिपाभिषेचनविधौ स्याध्दर्मदा निर्मित: ॥२३७॥
॥ इति श्रीमन्मीमांसकभट्टनारायणसुतश्रीमद्रामकृष्णतनुजभट्टदिनकरसूनुगागाभट्टनामकविश्वेश्वरकृतो राजाभिषेकप्रयोग:

N/A

References : N/A
Last Updated : January 14, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP