शिवराजाभिषेकप्रयोग: - षष्ठेऽहनि

गागाभट्टकृत राजाभिषेकप्रयोग: ।


[ज्येष्ठ शु० ११ गुरुवार शके १५९६: ४ जून १६७४]
अथ षष्ठेऽहनि रात्रौ निऋतियाग: । आचार्यो मंडपनैऋते भागे अग्रिं प्रतिष्ठाप्य । अग्रेर्दक्षिणत: मृन्मयीं रासभारुढां कृष्णवसनामुदमुखी संपूज्य । बलिं दद्यात्‍ । पूजायां वस्त्रगंधपुष्पाणी कृष्णानि । कृसरं च नैवेद्यं । तत शूर्मेधाना: मांससुरास्थाने लवणमिश्रितं पय: पूरिका । तिलपिष्ठं अपकमांस यवपिष्ठं कुलित्था नमध्यक्तमंडकान्‍ फलानि कृष्णपुष्पाणि च कृसरमत्स्यानपूपांवेश्च नियाय असुन्वन्तमिति मंत्रेण निऋतये निवेद्य नत्वा । तत: कुंडसमीपे निऋति अभिमुखोपविश्य परिसमूहनाद्याज्यभागांते धानाशरपुंखकटुघृतमांसकुशमुंजाग्रगो क्षुरान्‍ एकीकृत्य जुहुयात्‍ । घृतस्य खादिरस्रुवेण अपकमांसस्य कांस्येन अन्येषां तु हस्तेन होममंत्रांश्च । अभि तं निऋतिर्धतां यत्ते देवी निऋतिराबबन्ध ऋ. ४ । यस्यास्त । आरादग्रि ऋ.५ । अपेत एतु निऋति ऋ. ५ । पश्चाच्छर्करां तूष्णी हुत्वा स्विष्टकृतादिहोमशेषं समाप्ययेत्‍ । यव्दा चरुरेव होमद्रव्यं न मांसादि । पूर्वोक्तमंत्रैश्चरुहोमं कृत्वा शर्करां हुत्वा स्विष्टकृतादि [होमं] समाप्य तमग्रिं खर्परे बहिर्निष्काय । तत्तत्‍ कुशान्‍ तूष्णीं हुत्वा तत्खर्परं सोपानक: पुरुष: कृष्णवस्त्रं परिधाय कृष्णगंधपुष्पाक्षतमृत्तिकाकृतस्य रासभस्य पृष्ठे भिनत्ति हता ब्रह्मव्दिष: इति मंत्रेण । तत: स ब्राह्मण: अम्बयो यन्त्यध्वमिमिरिति सूक्तेन आपो हि ष्ठा शं नो देवी हिरण्यवर्णारिति सूक्तानि । तत: स्नात्वा कृष्णवस्त्रादि परित्यज्य शक्रवस्त्रगंधाक्षता: तत: पुण्याहं वाचयित्वा यजमान: कास्यं वसनं गां च दक्षिणां दद्यात्‍ । ततो महाशांतिमंडपं व्रजेत्‍ । इति नैऋतियाग: ॥

N/A

References : N/A
Last Updated : January 14, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP